सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 556, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 556

१४२ न्यायमञ्जर्याम्
उपनयाक्षेपसमाधिः ।
अत्रोच्यते—इदं तावद्भवान्पृष्टो व्याचष्टां किं स्वप्रतिपत्तिमनुसरन्तः
परप्रतिपादनाय वाक्यरचनां कुर्मः उत परहृदयानुरर्तनेनेति ? तत्र परा-
भिप्रायस्य वैचित्र्यात्परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे
किं मुखमुत्तिपामः किमरण्निना परं पीडयामः उत हस्तसंज्ञया व्यवह-
रामः आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यम-
भिदध्मः उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयाम इत्ये-
वमनवस्थितत्वात्पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः, तत्र
स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते, ततो धूमादि-
लिङ्गमपलब्धमिति हेतुवचनेन तदावेद्यते, ततो यत्र धूमस्तत्राग्निर्यथा महान-
स इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते, ततस्तथा चायं
धूम इति परामर्शज्ञानमुदपादीति तदुपपयवचनेन प्रतिपाद्यते, ततस्तस्मादत्रा-
ग्निरित्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते, ततः परं प्रति पर्यव-
सानात्किमन्यदुपदिश्यतामिति, न च दधिभक्षणसहशमतोऽन्यतममपि भवितु-
मर्हत्यनुमेयप्रतिपत्तावुपायदेयत्वात्, येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनय-
वचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति
नान्यथेत्यतो यद्यपि पक्षधर्मवचनेन हेतुसंबन्धमात्रमुपपादिशं तथाप्यत्र नाहृ-
ष्टान्तदर्शितशक्तिधर्मः स तस्मिन्धर्मिणि तथाविधो हेतुः स्यान्न वेत्यसिद्धा-
शङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्र-
तीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात्क्रमोऽपि यथोक्त उपयुज्यते, अत
एव च यत्कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नमनवगते धर्मिणि तद्वर्तिनि
च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात्, तदिदमवयवविपर्या-
सवचनमप्राप्तकालनिग्रहस्थानमुपदेच्यामः, अपि च 'यत्कृतकं तदनित्यं दृष्टं
कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमि'ति वदता भवता कृतकश्च शब्द इत्ये-
तावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातं कृतकत्वादिति पक्षधर्मवच-
नं तु निहुनुतम् , "कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्” न प्रयोजकस्य
पञ्चम्यादिनिर्देशार्हत्वादिति यत्किंचिदेतत् , यदप्युच्यते “विदुषां वाच्यो हेतुरेव
केवल” इति, तदप्यचारु, विद्वद्भिर्विद्वत्त्वादेव हेतोरपि प्रज्ञानात, अपूर्वा इमे
विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति,
तस्मात्पराशयस्य सर्वथा दुर्बोधत्वात्पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिक्येण वा-
क्यरचनां कृत्वा परः प्रत्याय्य इति ॥
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ( १।१।३९ )
हेतुधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मियपदिश्यतेऽनेनेति हेत्वपदेश उप-