न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 571, कुल 654 में से
संदर्भ में पढ़ेंतदेकदेशसाध्यधर्मविषयो लक्ष्यते, तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरु-
णद्धि व्याहन्ति तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ।
“ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते इह च हेतोरचेतनस्याभ्युपगमे
कर्तृत्वासम्भवात्पुरुषस्तत्कर्ता भवेत् सिद्धान्तं च विरुणद्धि हेतुरिति भिन्नकर्तृ-
कत्वमुच्यते” समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते
हेतुबलात्पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति, एवं च स एवाभ्यु-
पगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ।
“ननूपचारपरिग्रहश्चेदभिमतस्ततश्च त्रितयं वक्तव्यम्– साध्येऽर्थे प्रमाण-
बाधो निमित्तं प्रयोजनं चेति” साध्येऽर्थे प्रमाणबाध उक्त एव हेतोरचेतनत्वम्,
निमित्तमप्यस्ति हेतुसाधनको ह्युपगम इति, प्रयोजनं तु विशेषविरुद्धानां
हेत्वाभासत्वनिवारणम् । सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्था-
पनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम्, विशेषविरुद्धानां हि हेत्वा-
भासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः, न हि तथाविधो हेतुरिह जगति
कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मस्य वा धर्मिणो वा विशेषं
न कंचन बाधते, तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृह-
प्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यत्कृतकं तत्तदश्रावणं दृष्टं यो यः
कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेषं बाधते एवेत्यहेतुः
स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः
किन्तु साध्यस्वरूपविपर्ययसाधन एवेति, अत एव यथा तीर्थान्तरे वर्ण्यते
विरुद्धश्चतुष्प्रकारो धर्मस्वरूपविपरीतसाधनो धर्मिस्वरूपविपरीतसाधनो धर्म-
विशेषविपरीतसाधनो धर्मिविशेषविपरीतसाधन इति तथेह नेष्यतेऽतिप्रस-
ङ्गस्य दर्शितत्वादिति, अस्योदाहरणं नित्यः शब्दः कृतकत्वादिति ।
“नन्वेकैकलक्षणापायात्पञ्च हेत्वाभासा इत्युक्तम् अस्य च हेतोरुभे लक्षणे '
न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः, यदि हि
सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादि-
ति” सत्यमेवं किन्तु विपक्षाद्व्यावृत्तिर्व्यभिचारं प्रति प्रयोजकतां प्रतिपद्यते
प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते, सपक्षे वृत्तिविच्छेदस्तु विपर्य-
यसिद्धौ प्रयोजक इति सत्यामपि विपक्षावृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमे-
वास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत्सपक्षे त्वव-
र्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाच-
क्षाते इत्यलं सूक्ष्मेक्षिकया, तदित्थमुक्तं .सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ।
अन्ये त्वन्यथा व्याचक्षते–किल साध्यधर्मविपर्ययसाधकवदपसिद्धान्तप्रति-