सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 573, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 573

हेत्वाभासप्रकरणम् ।
१९६


शामनतिवर्तमानत्वात्प्रकरणसमो भवति-नित्यः शब्दः अनित्यधर्मानुपलब्धेरा-
काशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति, सोऽयं सप्रतिपक्षो
हेतुरिह लक्ष्यो विद्यते, न च द्व्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां निय-
तमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति, तथा ह्येको विशेषाानुपलब्धेः पक्ष-
धर्मान्वयव्यतिरेकावपश्यंस्तत्तस्थेति साध्यं बुध्येत तथैव च परं प्रत्यायये-
दिति, इतरोऽपि द्वितीयविशषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थां च करेा-
तीति सप्रतिपक्ष एवैष प्रकरणसमो हेत्वाभासः, तथा च न तावदयं सम्यग्
हेतुः प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात् , हेत्वाभासो ऽपि च
भवन्न तावदसिद्धः साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः स-
द्भावात्, नापि विरुद्धः साध्यविपर्ययसाधननिमित्तभूतः सपक्षवृत्तवियोगानुप-
पत्तेः, नाप्यनैकान्तिकः पक्षद्वयसाधारणत्वानवधारणात् , संशयजनकत्वं तु न
तस्य लक्षणमित्युक्तमेव ।
“नन्वेकस्मिन्पक्षे नियत ऐकान्तिकस्तद्विपर्ययादनैकान्तिकः स चायं नि-
त्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् , अपि चा-
हुः—अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैरिति, (श्लो० वा० २ सू ५५
श्लो०)तत्र यथेन्द्रियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभाससमुत्पादनादौ-
रात्म्याद्वा भवत्यप्रामाण्यव्यवहार एवमनुमानमपि तथैव वर्त्मना प्रमाणाभास-
तामवलम्बते, तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधा-
तुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति, विरुद्धस्तु विपर्ययसाधन
इति भवन्त एव प्रतिपन्नाः, संशयजनकत्वेनैकान्तिको भवितुमर्हति न तु
पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितमयमपि चान्यतरपक्षनियम-
विरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव
हेत्वाभासाः”
उच्यते–न फलनियमेन लक्षणनियमः कतु शक्यते, यद्यपि द्विविधं त्रिविधं
वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्येत-
ऽपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः, तद्वैकल्याच्च हेत्वाभासानामपि
पञ्चत्वमेव, फलं तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनकं किंचिल्लिङ्ग-
मुपलभामहे, न चाप्रतिपत्तिः प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलम-
वान्तरचिन्तनेन, न फलापेक्षो लिङ्गलक्षणनियमः तत्र यथा पक्षधर्मरहितत्वम-
सिद्धलक्षणमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल
इति कथमनेकान्तिकतां प्रतिपत्स्यते, व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्ष-
णानि समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ।
“ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तर्हि न हेतु-