सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 572, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 572

१८४ न्यायमञ्जरी

ज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संगृहीतुं युक्ता एव, ते चैवं व्याख्या-
यमाने न संगृहीताः स्युः, क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम्,
तस्मादभ्युपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिते अभ्युपगतं सिद्धान्तं
यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्य-
वस्थापितं वेत्येतत्संग्रहश्च कृतो भविष्यति, सिद्धान्तशब्दश्च न सङ्कोचितो भवि-
ष्यति, क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यते एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमा-
नस्य चानुपयुक्तत्वादिति, तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुण-
मेवोदाहरणमुक्तं-सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति
विनाशप्रतिषेधादिति, अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तेरपेतोऽपि
विकार