सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 568, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 568

१५४ न्यायमञ्जर्याम्
“नन्वेकस्यैव रूपद्वयवैकल्यात्कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः श-
ब्दश्चाक्षुषत्वादिति, एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिर्विप-
क्षादप्रच्युतेः सव्यभिचार उत जात्यन्तरमेव ताभ्यामिति”
नैतदेवम्—एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न
रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात्, अपि च प्रथमगृहीतान्यत-
मरूपवैकल्यलब्धके हेत्वाभासरूपेऽस्मिन्किं रूपान्तरनिरूपणेनेत्यास्तामेतत्।
“नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम्” न
तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः, अवान्तरभेदविवक्षायां तु हेत्वाभासाना-
मियत्तानिश्चयो न शक्यक्रियो न च सप्रयोजन इति पञ्चैव हेत्वाभासा इति
सिद्धम्।
सव्यभिचारलक्षणम्।
तेषां सव्यभिचारस्तावदुच्यते।
अनैकान्तिकः सव्यभि