सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 565, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 565

वादप्रकरणम् । १५१

भासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति । “सि-
द्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गो ऽपसिद्धान्त इत्यप-
सिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति” तदनुपपन्नं न हि त्रीणि वा
अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी राजशासनं वा
वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् , अयं तु विशेषः—जल्पे कस्यां-
चिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते वादे तु वृथा तेषां प्रयोगः,
भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनमनुद्भावने वस्तुपरिशुद्धेर-
भावात् ।
“कथं तर्हीदं पदद्वयं सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति” अपसिद्धा-
न्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्ध्यनुगुणनिग्रहस्थानजाताद्यनुज्ञा-
नार्थमेवेत्यभियुक्ताः, अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः क्षणा-
न्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते, प्रतिज्ञा-
हान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ।
“नन्विदानीं प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाण-
मूलावयवोपदेशाद्वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नो-
क्तम्” न अभिप्राये नैर्मल्यनिवेदनद्वार कवादजल्पविवेकप्रतिपादनार्थत्वात् ,
स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपद-
र्शयितुमत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्त-
मित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः,
न जल्पवदलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धि-
पूर्वमाभासानामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय
प्रमाणतर्कपदम् ।
अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलमुभावपि
परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षौ वादतां प्रयोज-
यतो न तु स्वगृहे शास्त्रे वा विविच्यमानौ, प्रमाणैरेव जल्पे व्यवहार इति निय-
मशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरपि कृतमतिविस्तरेण सर्वथा
वादलक्षणं सर्वं सुस्थम् ।
वादं च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः ।
न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥
इति (१०) वादपदार्थः ॥
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
गौतमसू. अ. १ आ. २ सू. २ ॥