न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 570, कुल 654 में से
संदर्भ में पढ़ें१५६ न्यायमञ्जर्याम्
“ननु प्रत्यक्षो वायुः स्पर्शवत्त्वाद् घटवद् , अप्रत्यक्षो वायूरूपत्वादाकाश-
वदित्यस्ति हेतुद्वयसन्निपातः, स एव च विरुद्धाव्यभिचार्य्युच्यत इति" अत्र ताव-
देतदेव वक्तव्यम्—को ऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्य-
क्षत्वमप्रत्यक्षत्वं वा साध्यत इति इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भव-
ति स एष वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति, किं चानयो
रन्यतरो हेतुरवश्यमप्रयोजको वस्तुनो द्वैरूप्यानुपपत्तेः, हेतौ च प्रयुक्ते तद्गु-
णदोषपरीक्षामेव प्रतिवादी विधत्तां कोऽवसरः प्रतिहेतूपन्यासस्य ।
“विडम्बनार्थस्तदुपन्यास इति चेन्न”
विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् , इह च हेत्वाभासा वास्तवा
एवानुमानदोषाः प्रतिपाद्यन्ते, न च विरुद्धाव्य