सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

दोषानुबन्धकथानुबन्धेन ।
यदपि प्रवृत्त्यनुबन्धादिति , तदपि सूत्रकृता समाहितम् , न प्रवृत्तिः प्रति-
सन्धानाय हीनक्लेशस्येति (गो० अ० ४ आ० १ सू० ६४) । दोषेषु बन्धहेतुषु
विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति ।
ननु दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ।
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ॥
अत्र के चिदाहुः-ददत्येव कर्माणि फलं दत्त्वा शाम्यन्ति तथापि न बन्धहे-
तवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनङ्क्ष्यति
अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ।
नन्वमुष्मात्कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभावनियमा-
त्कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी
हि योगर्द्धिसिद्धश्च। विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि
तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च
मुक्तेरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुप-
भोगेन कर्मणां क्षयः ।
अन्ये त्वाचक्षते-किमनेन भोगायासेन अदत्तफलान्येव कर्माणि योगिनो
नङ्क्ष्यन्ति तत्त्वज्ञानस्यैव भगवतः इयान् प्रभावो यदस्मिन्नुत्पन्ने चिरसं-
स्थितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति भोगादपि तेषां प्रक्षयः शास्त्र-
प्रामाण्यादेवावगतः तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्या-
महे, तथा चाह-
यथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुते ऽर्जुन! ।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ।
( भ० गी० अ० ४ श्लो० ३७ )
न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानाद्वेदार्थ हि
नासावभिधीतेति ।
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि
सहकारिवैकल्यात्स्वकार्यकरणोदासीनता तेषां भवति भृष्टनामिव बीजाना-
मङ्कुरकरणकौशलहानिः, यतः सामग्री कार्यस्य जनिका न केवलं कारकम्-
तो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुप-
यान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि, तदुक्तम्—‘अविद्यातृष्णे धर्मा-
धर्मौ च जन्मकारणमिति’ तत्त्वविदश्च तरववित्त्वादेव नाविद्या मिथ्याज्ञाना-
त्मिका भवति, दोषाणां तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्मा-
धर्मौ न बन्धाय कल्पेते न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजाबि जन-

यितुमुत्सहन्ते, भृष्टबीजानामिव स्वरूपशक्तिरपि तानवं गता तद्वत्कर्मणां स्व-
रूपशक्तिशैथिल्यं मा नाम भूत्तथापि कुसूलवर्तिबीजवत्सहकारिवैधुर्यात्कार्या-
नारम्भ इति, तदिदमुक्तम् 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्येति', (गो०
अ० ४ आ० १ सू० ६४) ।
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं-'नवानामात्मगुणानां निर्मूलो-
च्छेदो ऽपवर्ग' इति, नैष दोषः-मनसंयोगवदकिञ्चित्करयोरवस्थानमप्युच्छेदान्न
विशिष्यते , उक्तस्यात्मनो विभुत्वादपरिहार्यो मनसंयोगः, न च तदानीमसौ
सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रीयते, एवं धर्माधर्मौ सन्तावपि फलमा-
क्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नाविव भवतः, तस्मान्नवानामात्मगुणाना-
मुच्छेदोऽपवर्ग इत्यविरुद्धम् , एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेत

स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात्स्वर्गकाम' इति । न फलाभिसन्धानपूर्वक-
त्वेनाप्रयोगात् , यथा ऽऽह-
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति ।
इति संयोगप्रवृत्तौ विशेषः, प्रयोगे ऽपि विशेषः काम्यं कर्म सर्वाङ्गोपसंहारेण
प्रयुज्यमानं फलसाधनमिति, यथा शक्तिस्त(था त)त्तथा प्रयोक्तव्यमिति नित्यस्य-
कर्मणा ऽकरणात्प्रत्यवाय इति यथाशक्त्यपि तत्प्रयोक्तव्यमनुष्ठाता तु सर्वाण्य-
ङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रवर्तिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति,
एवं तदेव दर्शपूर्णमासादिकर्म 'यावज्जीवसि'ति चोदनयोपदिष्टं नित्यं सत्तत्फला-
नाभिसन्धानात्प्रयुक्तं न बन्धाय कल्पते, क्व सा स्वर्गसाधनशक्तिरस्य गतेति चेद्,
न वयं कर्मणां शक्तिमशक्तिं वा प्रत्यक्षतः पश्यामः शास्त्रैकशरणास्तु श्रोत्रिया
वयं चोदनैव

अपवर्गनिरूपणम् । ९१

तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैर्मोचोपेक्ष्णमनन्तरमुपदिष्टं भवती-
ति, तस्मात्पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् ।
ननु पक्षचतुष्टये ऽपि दोष उक्तः ? न चतुर्थपक्षस्य निरवद्यत्वात्सहकारिवै-
कल्यात्कुसूलावस्थितबीजवत्कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः, एष एव
च तेषां दाहो यत्कार्यानारम्भकत्वम् ।
नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिदारप्स्यन्ते कार्यं तस्माद्व-
रमुच्छिद्यन्तामेव ? किमिदानीं नित्यमात्मानमप्युच्छेत्तुं यतामहे स हि पुरा
भोक्ताऽभूदिति मुक्तो ऽपि पुनर्भोक्तृतां प्रतिपद्येतेति वरमुच्छिद्यतामेव । साम-
ग्र्यभावात्कथं भोक्तृतां गच्छेदिति चेत्कर्माप्यपि सहकार्याभावात्कथं कार्यमा-
रभेन्, न च कर्मणां बन्धकरणे रागादयोन सहकारिण इति वक्तुं शक्यं
वीतरागस्य जन्मादर्शनादित्यसकृदुक्तत्वात् , तस्मादयमेव सूत्रकारोपदिष्टः
पन्थाः पेशलो—'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्ये'ति ।
यच्चेदमूच्यते—'ज्ञानकर्मसमुच्चयान्मोक्ष' इति, तत्रेदं वक्तव्यम्—कर्मणां
कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि कर्मसाध्यो मोक्षः स्वर्गादिवदनित्यत्वप्रस-
ङ्गात् , अपिचात्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते, न चात्मस्वरूपं कर्मसा-
ध्यमनादिनिधनत्वेन सिद्धत्वात् ।
ननु नित्यकर्मानुष्ठाने प्रत्यवायादिति तद्द्वारकबन्धपरिहारोपायत्वात्क-
र्मापि मोक्षाङ्गं स्यात् , न संन्यासविधानस्य प्रत्यक्षापदेशादित्युकत्वात् , अपरि-
पक्कपायाणां शनैः शनस्तत्परिपाकेऽधिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गो-
पाय इति तु बाढमभ्युपगम्यते, यथा ऽऽह मनुः—'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं
क्रियते तनुर्'इति (अ० २ श्लो० २८) । अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव
क्रियाकाण्डमन्यत, साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात्कृतकस्य
सर्वस्यानित्यत्वात्तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ।
यदपि यमनियमादिषु साध्यभूतं तदपि तदङ्गतां गच्छन्न वार्यते, त-
त्कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्मोक्षस्य न क्षयित्वं स्वर्गव-
दन्यस्तु न मोक्ष इत्युक्तम् ।
तत्पूर्वोक्तक्रमेणापवर्गप्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः ।
कर्म त्वङ्गं तत्र शौचादि किंचित्किञ्चित्तस्यादात्मसंस्कारपूर्वकम् ॥

आत्मतत्त्वज्ञाननिरूपणाय विप्रतिपत्तिप्रदर्शनम् ।

आह—'तत्त्वज्ञानमिदानीं चिन्त्यतां किं विषयं तदपवर्गाय कल्पते कुतो
वा तस्य निःश्रेयससाधनत्वमवगत'मिति ।

९२ न्यायमञ्जर्याम्
नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति को ऽयं प्रश्नः, न
विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिनः एक एवायमविद्यापरिकल्पितजीवात्मवि-
भागः परमात्मा तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः, शब्दाद्वैतनिश्च-
यादिति वैयाकरणाः, विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः, प्रकृतिपुरुषवि-
वेकविज्ञानादिति पारमर्षाः, ईश्वरप्रणिधानादिति चान्ये, तदेवं कस्मै
तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम् ।
स्वमतेनात्मतत्त्वज्ञाननिरूपणम् ।
उच्यते, भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव च निःश्रेयसाङ्गमिति,
यत्तु कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति ब्रूमः, अक्ष-
पादस्तावदिदमुपदिष्टवान् आत्मज्ञानान्निःश्रेयसाधिगम इति, न च निष्प्रमाण-
[L1

अपवर्गनिरूपणम् । ९३
माधिकारविधेर्विश्वजिति (१) रात्रिसत्रे (२) वा किमन्यत्क्रियतां न हि विधिश्व-
रूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात्स्वर्गकामादिः कल्प्यते वा
अर्थवादसमर्पितो वा ऽवलम्ब्यते , यत्र तु विधिस্বরূপमहिम्नैव तदुपलम्भः
तत्र किं कल्पनया किमर्थवादवदनावलोकनदैन्येन वा, इह च स्वाध्यायो ऽध्ये-
तव्य इति वदग्नीनादधीतेतिवद्वा कृत्येन द्वितीयाया वेप्सिततमनिर्देशात्तन्निष्ठ-
त्वमेवावतिष्ठते । तत्र यथा ऽग्न्यर्थतया ऽऽधानविधिरवगम्यमानो ऽग्नीनाम-
नेकविधिपुरुषार्थोपयिककर्मकलापोपयोगात्तदर्जनेनैव कृतार्थत्वमुपगत इति न
फलान्तरमपेक्षते यथा वा स्वाध्यायो ऽध्येतव्य इत्यक्षरग्रहणार्थत्वादस्य विधेर-
क्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्न तदति-
रिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्त्वं न चाध्ययनविध्यङ्गत्वं स्वमहिम्नै-
वेप्सिततमसंस्कारद्वारकाधिकारलाभात् , एवमिहाप्यपहतपाप्माद्यात्मस्वरूपप-
रिज्ञानमेव तस्य परपुरुषार्थतामवबोधयन्नास्य विधेरन्यप्रयोजनतामापादयति,
कश्चित्किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति
व्रीहीन्प्रोक्षतीतिवत् , कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वा-
निर्वाहात्संस्कारविधित्वमेव जहाति सक्तून् जुहोतीतिवत् , यथोक्तम्-
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चित् ॥ इति ।
संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्ला-
नमिव शतपत्रमस्ति कस्तर्हि प्रकरणपाठापेक्षायामर्थवादमुखप्रेक्षणे फलकल्प-
नायां वा ऽभिलाषः, अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य न चाचार्यकर-
( १ ) विश्वजितीति । अयमाशयः-विश्वजिद्यागे प्रवृत्त्यर्थमिष्टसाधनताज्ञान-
मवश्यमपेक्षणीयमिष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वात् तच्च इष्टं किमिति निया-
मकं नास्ति विश्वजिता यजेतेति श्रुतौ फलविशेषा निर्देशादिति किंचित्फलं स्वेच्छयां-
कल्पनीयमिति पूर्वपक्षे स विश्वजिद्यागफलं स्वर्गः स्यात् सर्वपुंसामिष्टत्वादिति, स स्वर्गः
स्यात्सर्वान् प्रत्यविशिष्टत्वात् ( अ० ४ पा० ३ सू० १५ ) इति सूत्रेण जैमिनि-
ना सिद्धान्तितम् ।
( २ ) रात्रिसत्र इति । रात्रिसत्रवाक्यानां ज्योतिर्गौरित्यादिवाक्योत्पन्नकर्मणां
फलजिज्ञासायाम् विश्वजिम्न्यायेनोत्पन्नाश्रुतस्वर्गादिफलकल्पने गौरवात् 'प्रतिष्ठि-
न्ति ह वा य एता रात्रीरुपयन्ति' इति अर्थवादश्रुता 'प्रतिष्ठैव फलम्'इति सिद्धान्तः
तथा च न्यायमाला-
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहादिमः ।
पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाऽश्रुताद्वरम् ॥

९४ न्यायमञ्जर्याम्
णविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात्स्वाध्यायाध्ययनाग्न्याधानविधिसमानयो-
गक्षेमत्वादात्मज्ञानविधेस्तत एवात्मज्ञानमपवर्गार्थमवगम्यते, तथाविधस्वरूप
आत्मैव परोपजनितधर्मरहितो ऽपवर्ग इत्युच्यते यतः तदिदमित्थमात्म-
ज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवानाचार्योऽक्षपादः । यत्तु
विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानमेवेति न निःश्रेयससाधनम् ।
ब्रह्मवादिमतेन मोक्षोपायनिरूपणम् ।
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत्प्रत्युत द्वैतदर्शनमविद्या मायापि मिथ्या-
ज्ञानमिति युक्तम् , तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु भवान् , तत्र हि
यदन्यानपेक्षतया झगिति पदार्थस्वरूपमवभासते तत्पारमार्थिकमितरत्काल्प-
निकमिति गम्यते , सद्रूपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति भेदस्त्वन्यापे-
क्ष्येति नाक्षणविज्ञानविषयतामुपयाति, तत्र यथा मृद्रूपतः प्रवृत्ति यावत्कु-
म्भावस्थावस्थेत्यस्मिन्नन्तराले आविर्भवतां च घटकपालशकलशर्कराकणादीनां रूप-
मपरमार्थसदेव व्यवहारपदवीमवतरति परमार्थतस्तु मृत्तिकैव, यथा ऽऽहुः मृ-
त्object: त्तिक्येव सत्यमिति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थ सदिति
सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मेत्याहुः, आगमश्च 'एकमेवाद्वितीय-
मि'त्यादिरभेदमेव दर्शयति 'नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह
नानेव पश्यती'ति च, वेदस्य च सिद्धे ऽप्यर्थे प्रामाण्यमुपवर्णितमेव भवद्भिः, न च
प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य न ह्यन्यनिषेधे प्रत्यक्षं प्रभव-
ति स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् , पररूपमन्तरेण च भेदस्य दुरुपपा-
दत्वाद्भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात्तदुक्तम्--
आहुर्विधातृ प्रत्यक्षं न निषेध्यं विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥
नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभा-
वत्वान्मुक्तमेवास्ते केन तद्बद्धमिति किमर्थो ऽयं मुमुक्षूणां प्रयत्नः कुतस्त्यो वा
ऽयं विचित्रो जगदवभासः ? अविद्याच्छेदार्थं मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य
एवायं विचित्रजगदवभासः ।
केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेद् नाद्वैतम् अव्यतिरेके तु ब्रह्मैव सा,
ततो नान्येत्येवेति कथमुच्छेद्यते ? नैवं न वस्तुनीदृशि तार्किकचोद्यानि क्रमन्ते,
अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा ऽभिधीयते, तत्त्वांप्रग्रहण-
मविद्या अग्रहणं च नाम कथं वस्तुधर्मे विकल्प्यते ।
ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या। न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वाद्-
विद्या भवति अन्यस्तु नास्त्येव तदाश्रयो न च निरधिकरणमेव मिथ्याज्ञानं
भवितुमर्हति ?

उच्यते--'जीवात्मनामविद्या न ब्रह्मणः ।
ननु के ते जीवात्मानस्ते ऽपि ब्रह्मणो ऽन्यानन्यतया चिन्त्या एव ?
आः क्षुद्रतार्किक सर्वत्रानभिज्ञो ऽसि, ब्रह्मैव जीवात्मानो न ततो ऽन्ये न हि दह-
नपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गा अग्निस্বরূপा न भवन्ति, तत्किं ब्रह्मण एवा-
विद्या ? न च ब्रह्मणो ऽविद्या, यथा चैकमेव घटाद्यावरणोपहितभेदतया भिन्न-
मिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणवशादेव च रजोधूमा-
दिकुलुषितमपि भवति तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्यो-
म्नि लीयते, तथैव चात्मानो ऽप्यविद्यापरिकल्पितभेदात्तत्कृतमनेकप्रकारकालु-
ष्यमनुभवन्ति तदुपरमे च परब्रह्मणि लीयन्ते इति च ।
नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः, सा च जीवात्मनामवि-
द्येत्युच्यते तदेतदितरेतराश्रयमापद्यते अविद्याकल्पनायां सत्यां जीवात्मानो जी-
वात्मसु च सत्स्वविद्येति ? भवत्वितरेतराश्रयत्वम् अविद्याप्रपञ्च एवायम-
शेषः, कस्यैष दोषः यदि चानादित्वमस्य परिहारो बीजाङ्कुरवद्भविष्यति, भव-
द्भिरपि चायमनादिरेव संसारो ऽभ्युपगतः अविद्यैव च संसार इत्युच्यते ।
नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे रूपस्य,
भवद्भिर्वा कथमनादिस्संसार उच्छिद्यते, ननूपाये सत्यनादिरप्युच्छिद्यते अद्वैतवा-
दिनां तु कस्तदुच्छेदोपायः ? अविद्यैवेति ब्रूमः, श्रवणमननध्यानादिरप्यविद्यै-
व सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्पादयति स्वयमप्युत्सीदति यथा पयः
पयो जरयति स्वयं च जीर्यति विषं विषान्तरं शमयति स्वयं च शाम्यति
यथा वा द्रव्यान्तररजःक्षिप्तं रजःकलुषितेऽम्भसि तच्चात्मानं संहृत्य स्वच्छमम्बु
करोति तदेवमियमविद्यैवाविद्यान्तरमाच्छिन्दन्ती विद्योपायतां प्रतिपद्यते,
ननु स्वरूपेणासत्येवेयमविद्या कथं सत्यकार्यं कुर्यात्, उच्यते—
असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।
मायासर्पादयो दृष्टाः सत्यप्रभयहेतवः ॥
रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते, स्वरूपेण सत्यास्ते
इति चेत्किं तेन क्रियते, गकारादित्वेन हि ते प्रतिपादकास्तच्चैषामसत्यमिति ।
ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानां च ततो ऽन्यत्वात्कथं तेष्वविद्याव-
काशं लभेत ? परिहृतमेतद् घटाकाशदृष्टान्तोपवर्णनेनैव, अपि च यथा विशुद्ध-
मपि वदनबिम्बमम्बुमणिकृपाणदर्पणाद्युपाधिवशेन श्यामदीर्घस्थूलादिरूपम-
पारमार्थिकमेव दर्शयति तथा ब्रह्मणस्तदभावे ऽपि जीवेषु तदवकाश इति ।
ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन्बद्धे
मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः ? अयि कुतर्ककलुषितमते ! कथं बोध्यमानो

and चक्षते:
Is that a व?
Wait, look at the space:
भिन्नवच्चावचक्षते has a tiny space or gap?
भिन्नवच्चावचक्षते
Wait, look at the word चावचक्षते - could it be चावदक्षते? No, चक्षते.
Wait, is it चावचक्षते or चाचक्षते?
Let's look at the letters after भिन्नवच्चा:
Letter A: व
Letter B: च
Letter C: क्ष
Letter D: ते
Wait, look at Letter B: is it च?
Wait, let's look at Letter A:
Is Letter A really व?
Wait, look at चाक्षुषं: the चा has a top bar, horizontal-curve, vertical with ा.
Look at Letter A: it has a loop on the left of the vertical bar... wait!
Could it be च? No, it has a closed loop like व.
Wait, why would it be चावचक्षते?
Could it be a typo of the typesetter for चाचक्षते? (i.e. accidentally inserting व or misreading manuscript चावचक्षते instead of `

न्तस्य तदितरविलक्षणस्य परिच्छेदादि, वाग्रूपस्य तु परस्परोपरक्तपदार्थपुञ्जस्व-
भावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो विषय इति पूर्वमेव निरू-
पितमतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम्, नाप्यभेदग्राहि किञ्चन प्रमाण-
मस्ति यथोक्तेनैव न्यायेन, यस्त्वागमः पठितः—‘एकमेवाद्वितीयं नेह नानास्ति
किञ्चने'त्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ।
ननु सिद्धे ऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतं
किन्तु 'धूम एवाग्नेर्दिवा ददृशे नार्चिरित्येवमादीनां प्रत्यक्षादिविरुद्धार्थाभिधायि-
नामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम्, एव-
मिदमपि वचनमितरप्रमाणविरुद्धमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमा-
णान्तरविरुद्धार्थानुवादिनो न भवन्त्य

विभागकल्पनापि निरवकाशैव। यच्चेतरेतराश्रयत्वं परिहर्तुमनादित्वमावे-
दितमविद्यायास्तत्र बीजाङ्कुरवद्द्रव्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात्,
अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचि-
तम्, एकात्मवादिनां तु तदतिदुर्घटनादनिर्मोक्ष एव स्याद् , यथाह भट्टः--
स्वाभाविकीमविद्यां च नोच्छेत्तुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥
न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ॥ इति ।
यत्पुनरविद्यैव विश्वोपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम् , तदपि
क्लेशाय नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वा-
भावात्, रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरू-
पतो विद्यत एव ।
न

अपवर्गनिरूपणम् । ९९
मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहृत्य तस्मात् ।
उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥
शब्दाद्वैतवादि वैयाकरणमतखण्डनम् ।
एतेन शब्दाद्वैतवादो ऽपि प्रत्युक्तः ।
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति ।
( वाक्य० का० १ श्लो० १ )
उच्यते—तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वं
ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् , निरव-
यवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव, यत्तु नित्यं वा किंचिदुच्यते तच्छब्द-
तत्त्वमित्यत्र का युक्तिः, आह शब्दोपग्राह्यतया च शब्दतत्त्वम् , तथा हि सर्वः
प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते तदुल्लेखविरहिणो ऽनासा-
दितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात् , इदमीदृशमित्यादिपराम-
र्शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् , ये ऽपि वृद्धव्यवहारोपयोगिवैधु-
र्यान्नवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातारस्तेपि नूनं
यत्तत्सत्किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयमतः श-
ब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्सर्वप्रत्ययानाम् ।
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥ इति ।
( वाक्य० ब्र० १२ श्लोक ११४ )
एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया ऽनधिगतविषयः सर्व एवा-
न्धमूकप्रायो लोकः स्यात् । आह च—
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ इति ॥
( वा० बृ० श्लोक १२५ )
अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषानुभवात्सर्व
निर्विकल्पकमिन्द्रियजमविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति गौः शु-
क्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट ए-
वार्थः प्रस्फुरतीति बुद्ध्यस्व, एवं चेद्बोद्धुमवतीर्णो ऽसि शब्दाख्यविशेषणानुर-
क्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रका-
शस्वरूपयैव वा ऽनुभूत्यानुभवसीति सो ऽपि विशेष्यः शब्दरूप एवेति जानीहि,
तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते, इत्थमियन्तमध्वानं चेत्पा-

१०० न्यायमञ्जर्याम्
प्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्शयितुमनुभवितुं
चाशक्यत्वाच्छब्द एव तथा प्रतिभातीति शब्दविवर्त एवायमर्थो नान्यः कश्चि-
दिति प्रतिपत्तुमर्हसि, यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्व-
पि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः, शब्द एवार्थरूपेण
विवर्तत इति गृह्यताम् , अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शितविचित्रभेदम्-
विद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् ।
तत्राभिधीयते—न खलु प्रकारत्रयमपीदमुपपद्यते पदपदार्थसम्बन्धव्युत्प-
त्तिविरहिणामवाप्तशब्दयोजनावैरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रिय-
जप्रत्ययदर्शनात् , वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि
शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्तुस्ववभासस्यापरिहार्यत्वात्,
यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु यो ऽवधृतस्तद्दर्शने त-
त्संस्कारप्रबोधात्स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्तत्सत्किमित्या-
दिषु विशेषशब्देष्विव सैव वार्त्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनवि-
हारिविहङ्गकूजितादिवार्थप्रतीतिहेतुत्वानुपपत्तेः, सविकल्पकदशायामपि न वा-
चकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयति इति विस्तरतः
प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च—
न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक् शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥ इति ।
( श्लोक० वा० प्र० १७२ )
संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति न तद्विशिष्टोऽर्थः,
तस्य हि श्रोत्रेण नेत्रेणोभाभ्यां न केवलेन मनसा वा ग्रहणमुपपद्यते ऽतिप्रसङ्गात्।
शब्दाध्यासवादखण्डनम् ।
शब्दो ह्यनेकधर्मके धर्मिणयेकतरधर्मावधारणाभ्युपायो भवति न तत्रा-
त्मानमारोपयति न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपये रूपादावात्मान-
मारोपयन्त्यत एव तदुपायत्वभ्रमकृतस्तदभेदवादो ऽपि न युक्तः ।
न ह्युपायादभिन्नत्वं तदुपेष्यस्य युज्यते ।
रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषो ऽपि वा॥
अपि च-यदि शब्दादभिन्नो ऽर्थः प्रतिभात्येव को ऽध्यासार्थः अध्यासम्र-
मस्तु वैयाकरणानामेकाकारनिर्देशदोषनिर्मितो यथा गौरित्येष हि निर्देशो वा-
च्यतद्बुद्धिवाचिनाम्, कस्त्वया दृष्टो ऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञान-
मुत्पन्नं गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः, वस्तु-
तस्तु विविक्ता एवैते शब्दज्ञानार्थाः, तदुक्तम्--

गवि सास्नादिमद्रूपा गादिरूपा ऽभिधायके ।
निराकारोभयज्ञाने संवित्तिः परमार्थतः ॥ इति ।
( श्लोक० प्र० सू० श्लोक० ११८५ )
एवमिन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति
युक्तम्, यदि च शब्दः स्वरूपेणार्थं प्रतिपादयति तदा ऽक्षशब्दस्यैक्याद् देवन-
विभोतकरथाक्षेषु तुल्या प्रतीतिः स्यान्न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्र-
त्यभिज्ञाऽनपायात्तदुच्चारणे चार्थत्रयां संशयदर्शनात्, भवतिशब्दयोश्च
सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च
सिद्धसाध्यबुद्धिः संवेद्यमाना ऽपि निन्हूयेत, एवमगादित्यश्व इत्यजापय इत्या-
दावपि द्रष्टव्यम् ।
शब्दस्य सिद्धरूपत्वात्तदध्यासेनार्थबुद्धाविष्यमाणायां ‘यजेत दध्नाजहुयादि’-
[L12

अपि चाध्यासः क्व चित्सादृश्याद्भवति शुक्ताविव रजतस्य क्व चिदनुरा-
गाद्भवति लाक्षाया इव स्फटिके शब्दार्थयोर्मूर्त्तामूर्त्ततयातिदूरभिन्नस्वरूपयोः
सादृश्यं तावदनुपपन्नम् , अनुरागो ऽपि तत एव दुर्घटः पृथग्देशत्वाद्विन्नेन्द्रिय-
ग्राह्यत्वाच्च ।
प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावादप्राप्त-
योश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागर-
तरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु
तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बतानि दृश्येरन् ।
अथ सर्वगतत्वेन शब्दानांमर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थ-
साधारणयादत्यन्तमध्याससांकर्यमनवधार्यमाणविशेशनियमकारणमपद्यत इत्य-
लमतिप्रसङ्गेन, सर्वथा न सम्बद्धः शब्दाध्यासवादः ।

शब्दविवर्तवादखण्डनम् ।

विवर्त्तवादोपि न समञ्जसः, तथा हि विवर्ते क्षीरमिव दधिरूपेण परि-
णामित्वेन विकारितया वा क्षीरादेरिवानित्यप्रसङ्गात् , तथाभावे ऽपि च
नाद्वैतसिद्धिर्दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततो ऽन्यत्वात्,
अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवरहितकिसलयप्रतीतिसमर्पितभे-
दत्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विव-
र्तार्थः, सो ऽपि न युक्तः, बाह्यस्य वस्तुनः पदामिधेयस्य जातिव्यक्त्यादेर्वा-
क्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात्, अवयव्यादेश्चादूर एवाग्रे समर्थि-
तत्त्वात्, न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः ।
अथार्थरूपेण शब्दः शुक्तिरिव रजता कारतया ऽवभासतइतीयं विवर्त्तवा-
द्योयुक्तिः इयमपि न साधीयसी, शुक्तिका हि रजतवत्प्रकाशत इति शक्यं वक्तुं
शुक्तेराकारसारूप्येण तथा ऽवभाससम्भवात्, इह तु शब्दार्थयोरत्यन्तविसदृ-
शवपुषोराकारसमारोपकारणानवधारणात्कथमितररूपणेतरस्यावभासः, शुक्ति-
कारजतादिप्रतीतिषु च बाधकवशात्तथात्वमवगतमिह तु धर्मै(म)जहत्सत्या-
मसत्यां वा ऽर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः, एषो ऽपि सम्प्रत्येव प्र-
तिक्षिप्तः शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् , न चा-
न्यः कश्चिद्द्विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते विव-
र्तंते ऽर्थभावेनेति ।
अथ शब्दब्रह्मैव सृजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सो ऽपि न
सम्यग् अचेतनत्वेन शब्दस्येश्वरस्येव स्रष्टृत्वानुपपत्तेः, नच परमाणुवदस्य का-
रणत्वम् , अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात् ।

(Paragraph 2):
अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्य-

Line 13:
प्रमाणकमेकस्मिन् सुखिनि न सर्वे सुखिनः एकस्मिन्दुःखिते वा न सर्वे दुःखि-
Wait, "एकस्मिन्दुःखिते वा न सर्वे दुःखि-" or "एकस्मिन् दुःखिते"?
In scan: "एकस्मिन्दुःखिते" (no space between न् and दु).

Line 14:
ता इति व्यवस्थादर्शनात् , आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य

Line 15:
दुरपह्लवत्वात् , अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषा-
Wait, look at "दुरपह्लवत्वात्" or "दुरपह्नवत्वात्"?
In scan: "दुरपह्वत्वात्" or "दुरपह्नवत्वात्"?
Look at the ligature: ह + न = ह्न, or ह + व = ह्व?
It has ह with व inside: "दुरपह्वत्वात्" (a common representation of ह्लव or ह्व). But standard is दुरपह्नवत्वात् or दुरपह्लवत्वात्. The print has 'ह' with 'व' or

स्त्कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः, ग्राह्यग्रहणं हि
विज्ञानं नाम भवति नाग्रहणमिति ।
उच्यते इदं तावत्परीक्ष्यतां यदेतत्प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुत्प-
द्यते तत्र किमेक आकारः प्रकाशते उत द्वितीयमिति, यदि द्वितीयमवभाति
अयमर्थो नीलमिदं तज्ज्ञानमिति तत्किमत्र विचार्यते जितं भवद्भिर्जितस्य
यदापद्यते तदस्मासु विधीयताम् ,
अथैक एवमाकारः प्रथते तर्ह्यस्ति विचारावसरः, कस्यायमाकारः कि-
मर्थस्य किं ज्ञानस्येति, स चैवं विचार्यमाण आकारो यद्यर्थस्येति स्थास्यति
तद्भवन्तो जेष्यन्ति ज्ञानाकारपक्षे तु वयं जेष्याम इति, किं तावदत्र युक्तम् ,
ज्ञानस्यायमाकार इति, कुतः ? कल्पना भवति ह्यल्पीयसीति, अर्थाकारपक्षे
ह्यर्थस्य ज डात्मनः प्रकाशाद्योगात्तस्य ग्राह्यत्वमन्यथा न स्यादिति ग्राहका-
न्तरपरिकल्पनांवश्यम्भाविनीति कल्पनाद्वैगुण्यम् ।
अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते, स तर्हि प्रकाश एवे-
ति संज्ञायामेष विवादः स्यात् , बाह्यान्तरकृतो विशेष इति चेत् , अहो विशेषज्ञो
देवानांप्रियः, ग्राहकाद्विच्छिन्नता हि ग्राह्यस्य बाह्यता, न शरीरापेक्षिणी बाह्यता
भवति, यदा च ग्राह्यादर्थाद्व्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य ततो ऽविच्छि-
न्नतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि विवादः, उभयसिद्धत्वाज्ज्ञानस्य
तस्यायमाकारो भवितुमर्हति ज्ञाने हि न के चन विवदन्ते अतस्तस्यैवायमाकार
इति युक्तमनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति, अतश्च ज्ञानस्यायमाकारः।
ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते ततश्चार्थात्प्रथमत-
रस्य ग्रहणेन भवितव्यमगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात्, उत्प-
न्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा प्रतिबन्धवैधुर्याद्वा भवत्यग्रहणं ज्ञान-
स्य, उत्पन्नस्य सतो न कश्चिद्ग्रहणे प्रतिबन्धको, न च प्रकाशान्तरापेक्षणं स्वत
एव दीपवत्प्रकाशस्वभावात् , अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भ-
वेत् , न चेत्कालान्तरेऽपि न स्यात् किं हि तस्य कालान्तरे भविष्यति किं वा
तदा नाभूद्येन तत्कालान्तरे ग्रहीष्यते तदा च न गृह्यते इति, ज्ञानान्तरेण काला-
न्तरे तद् ग्रहीष्यते इति चेत् , तदपि केन ग्रहीष्यते, अन्येनेति चेत् , तदप्यन्येनेति
को ऽवधिः, श्रम इति चेत्कामं श्रान्तो विरंस्यति भवानर्थं तु न गृहीतवानेव,
प्रकाशाग्रहणे तत्प्रकाशयपरिच्छेदायोगादित्येवं न कदा चिदर्थग्रहणं स्यात् ,
तस्मादर्थग्रहणवादिनाऽपि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम् , यथोक्तम्—‘अप्र-
त्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयती’ति ।
अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात् , ज्ञातो मयाऽयमर्थ
इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न ह्यगृहीतवि-

अपवर्गनिरूपणम् । १०५
शेषणा विशेष्यबुद्धिर्भवति, तस्मादपि पूर्वज्ञानग्रहणमिति सिद्धम् ,. ज्ञानं
च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात्साकारमेव तद् ग्रही-
तव्यम्, साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावान्कुतो ज्ञानाति-
रिक्तो बाह्योऽर्थः अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्म-
व्यवस्थानुपपत्तेः, कल्पयित्वाऽपि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य
विषयनियमसिद्धये वक्तव्या नीलज्ञानं हीदमनेकसंनिधाने समुपजा-
यमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत बोध-
स्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् , प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेक-
विषयैव स्यात् , न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितु-
मुचितमालोकालोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्र

अथ स्वप्रकाशं तत्साकारं ज्ञानमिष्यते तेन ज्ञानान्तरापेक्षणान्नान-
वस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्ताकारानवभासात्तदेवास्तु
कुतो द्वितीय इदानीमर्थाकारः, न चान्यथाऽनुपपत्त्यापि तत्कल्पना युक्ति-
मती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति, ज्ञानमेव
नीलाद्याकारं यदि भवेत्को दोषः स्यादिति, नीलाद्याकारयोगादर्थस्स इति चेत्सं-
ज्ञायां विवाद इत्युक्तम् , द्वितीयस्याभावात् , स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्य-
कृतमिति चेदविद्यावासनाकृतं तद् भविष्यति, स्वतःस्वच्छमपि ज्ञानमनाद्यविद्या-
वासनाविभवेन तत्तदनेकाकारकालुष्यरूषितवपुरिव प्रकाशते, ज्ञानवासनाभेद-
संतानयोश्च बीजाङ्कुरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः 'कुतो वासना प्रवृत्ता'
इति, तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्ये-
नार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् , अतश्च ज्ञानमर्थरहितमपि गन्धर्व-
नगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमव-
गच्छामः, यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत
न चैवमस्ति, तस्मादभेद एव ज्ञानार्थयोः, तथा ऽऽह—'सहोपलम्भनियमादभेदो
नीलतद्धियोः'इति, न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति यदि हि पृथ-
गर्थमनाकारं पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपल-
भेमहि तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि, न त्वयमस्ति क्रमः अर्थरहित-
त्वे ऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् , अतः कथं संस-
र्गधर्म आकारः ।
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरु-
द्धलिङ्गसमावेशः, परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपो
ऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् ,
दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् , षण्णग-
रीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् , ह्रस्वदीर्घयोश्च
कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् , ज्ञानानां तु भि-
न्नत्वाद्विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरो-
धः, तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तो ऽर्थो नाम क-
श्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते, तस्य हि
विषयाकारता प्रमेयं ग्राहकाकारता प्रमाणं स्वसंवित्तिश्च फलमिति, यथोक्तम्—
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योर्द्वयं नातः पृथक् कृतम् ॥ इति ॥
तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्य-
ग्राहकसंवित्तिभेदवदिव लक्ष्यते, अविद्याविरतौ तु स्वच्छमेव तत्सम्पद्यते न

[Page Header: अपवर्गनिरूपणम् । १०७]

किञ्चिद्वेति, तदुक्तम्—
नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः ।
ग्राह्यग्राहकवैधुर्यात्स्वयमेव प्रकाशते ॥
अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् ।
परिहृत्य दुःखसंसृतिमभयं निर्वाणमाप्नोति ॥
विज्ञानवादिमतखण्डनम् ।
अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवि-
तुमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः, तथा हि
नीलज्ञानं पीतज्ञानं शुक्लज्ञानमिति नीलपीताद्युपजनापायेऽप्यनुवर्तमानबोध-
रूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते ।
अपि च ज्ञानमहंकारास्पदानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव
भवद्भिरभ्युपगतमर्थस्तु नैवमात्मक इति कथमनयोरभेदः, यद्यपि ज्ञानमिदमय-
मर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथा ऽप्ययमेको ऽप्याकारः प्रतिभासमा-
नः प्रकाश एव प्रतिभाति न प्रकाशकः, इदं नीलमिति ग्राहकाद्विच्छिन्न एव
ग्राह्याकारोऽवभासते न त्वहं नीलमिति तदैक्येनावभासो ऽस्ति ,
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणं बोधस्य
तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम् , न बोधान्तरनिबन्धनमन-
वस्थाप्रसङ्गात् , नापि स्वप्रकाशं ज्ञानमहं नीलमित्यप्रतिभासात् ।
ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति यो ऽयं ग्राह्यावभास इति भवता ऽभ्यु-
पगतस्स एव ग्राहकावभासः , ग्राहकादन्यो हि ग्राह्यो जडात्मा भवेत् , ग्राह-
कस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम् , ततोन्यतर-
स्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात्प्रका-
श एव प्रकाशते न जडः , निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन्साकारे
प्रकाशमाने कुतो जडात्मा तदतिरिक्तो ऽर्थः स्यात् ।
तदिदमपेशलम् , उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् , रूपस्य हि
प्रकाशकं चक्षुर्न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं शक्यते, तदिदमर्थस्य
मूर्तिद्रवत्वकाठिन्यादि