सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 520, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 520

अथ स्वप्रकाशं तत्साकारं ज्ञानमिष्यते तेन ज्ञानान्तरापेक्षणान्नान-
वस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्ताकारानवभासात्तदेवास्तु
कुतो द्वितीय इदानीमर्थाकारः, न चान्यथाऽनुपपत्त्यापि तत्कल्पना युक्ति-
मती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति, ज्ञानमेव
नीलाद्याकारं यदि भवेत्को दोषः स्यादिति, नीलाद्याकारयोगादर्थस्स इति चेत्सं-
ज्ञायां विवाद इत्युक्तम् , द्वितीयस्याभावात् , स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्य-
कृतमिति चेदविद्यावासनाकृतं तद् भविष्यति, स्वतःस्वच्छमपि ज्ञानमनाद्यविद्या-
वासनाविभवेन तत्तदनेकाकारकालुष्यरूषितवपुरिव प्रकाशते, ज्ञानवासनाभेद-
संतानयोश्च बीजाङ्कुरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः 'कुतो वासना प्रवृत्ता'
इति, तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्ये-
नार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् , अतश्च ज्ञानमर्थरहितमपि गन्धर्व-
नगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमव-
गच्छामः, यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत
न चैवमस्ति, तस्मादभेद एव ज्ञानार्थयोः, तथा ऽऽह—'सहोपलम्भनियमादभेदो
नीलतद्धियोः'इति, न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति यदि हि पृथ-
गर्थमनाकारं पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपल-
भेमहि तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि, न त्वयमस्ति क्रमः अर्थरहित-
त्वे ऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् , अतः कथं संस-
र्गधर्म आकारः ।
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरु-
द्धलिङ्गसमावेशः, परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपो
ऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् ,
दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् , षण्णग-
रीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् , ह्रस्वदीर्घयोश्च
कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् , ज्ञानानां तु भि-
न्नत्वाद्विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरो-
धः, तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तो ऽर्थो नाम क-
श्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते, तस्य हि
विषयाकारता प्रमेयं ग्राहकाकारता प्रमाणं स्वसंवित्तिश्च फलमिति, यथोक्तम्—
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्त्योर्द्वयं नातः पृथक् कृतम् ॥ इति ॥
तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्य-
ग्राहकसंवित्तिभेदवदिव लक्ष्यते, अविद्याविरतौ तु स्वच्छमेव तत्सम्पद्यते न