सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 513, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 513

अपवर्गनिरूपणम् । ९९
मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहृत्य तस्मात् ।
उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥
शब्दाद्वैतवादि वैयाकरणमतखण्डनम् ।
एतेन शब्दाद्वैतवादो ऽपि प्रत्युक्तः ।
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति ।
( वाक्य० का० १ श्लो० १ )
उच्यते—तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वं
ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् , निरव-
यवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव, यत्तु नित्यं वा किंचिदुच्यते तच्छब्द-
तत्त्वमित्यत्र का युक्तिः, आह शब्दोपग्राह्यतया च शब्दतत्त्वम् , तथा हि सर्वः
प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते तदुल्लेखविरहिणो ऽनासा-
दितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात् , इदमीदृशमित्यादिपराम-
र्शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् , ये ऽपि वृद्धव्यवहारोपयोगिवैधु-
र्यान्नवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातारस्तेपि नूनं
यत्तत्सत्किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयमतः श-
ब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्सर्वप्रत्ययानाम् ।
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥ इति ।
( वाक्य० ब्र० १२ श्लोक ११४ )
एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया ऽनधिगतविषयः सर्व एवा-
न्धमूकप्रायो लोकः स्यात् । आह च—
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ इति ॥
( वा० बृ० श्लोक १२५ )
अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषानुभवात्सर्व
निर्विकल्पकमिन्द्रियजमविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति गौः शु-
क्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट ए-
वार्थः प्रस्फुरतीति बुद्ध्यस्व, एवं चेद्बोद्धुमवतीर्णो ऽसि शब्दाख्यविशेषणानुर-
क्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रका-
शस्वरूपयैव वा ऽनुभूत्यानुभवसीति सो ऽपि विशेष्यः शब्दरूप एवेति जानीहि,
तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते, इत्थमियन्तमध्वानं चेत्पा-