सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 511, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 511

न्तस्य तदितरविलक्षणस्य परिच्छेदादि, वाग्रूपस्य तु परस्परोपरक्तपदार्थपुञ्जस्व-
भावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो विषय इति पूर्वमेव निरू-
पितमतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम्, नाप्यभेदग्राहि किञ्चन प्रमाण-
मस्ति यथोक्तेनैव न्यायेन, यस्त्वागमः पठितः—‘एकमेवाद्वितीयं नेह नानास्ति
किञ्चने'त्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ।
ननु सिद्धे ऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतं
किन्तु 'धूम एवाग्नेर्दिवा ददृशे नार्चिरित्येवमादीनां प्रत्यक्षादिविरुद्धार्थाभिधायि-
नामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम्, एव-
मिदमपि वचनमितरप्रमाणविरुद्धमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमा-
णान्तरविरुद्धार्थानुवादिनो न भवन्त्य