सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 516, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 516

अपि चाध्यासः क्व चित्सादृश्याद्भवति शुक्ताविव रजतस्य क्व चिदनुरा-
गाद्भवति लाक्षाया इव स्फटिके शब्दार्थयोर्मूर्त्तामूर्त्ततयातिदूरभिन्नस्वरूपयोः
सादृश्यं तावदनुपपन्नम् , अनुरागो ऽपि तत एव दुर्घटः पृथग्देशत्वाद्विन्नेन्द्रिय-
ग्राह्यत्वाच्च ।
प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावादप्राप्त-
योश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागर-
तरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु
तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बतानि दृश्येरन् ।
अथ सर्वगतत्वेन शब्दानांमर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थ-
साधारणयादत्यन्तमध्याससांकर्यमनवधार्यमाणविशेशनियमकारणमपद्यत इत्य-
लमतिप्रसङ्गेन, सर्वथा न सम्बद्धः शब्दाध्यासवादः ।

शब्दविवर्तवादखण्डनम् ।

विवर्त्तवादोपि न समञ्जसः, तथा हि विवर्ते क्षीरमिव दधिरूपेण परि-
णामित्वेन विकारितया वा क्षीरादेरिवानित्यप्रसङ्गात् , तथाभावे ऽपि च
नाद्वैतसिद्धिर्दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततो ऽन्यत्वात्,
अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवरहितकिसलयप्रतीतिसमर्पितभे-
दत्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विव-
र्तार्थः, सो ऽपि न युक्तः, बाह्यस्य वस्तुनः पदामिधेयस्य जातिव्यक्त्यादेर्वा-
क्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात्, अवयव्यादेश्चादूर एवाग्रे समर्थि-
तत्त्वात्, न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः ।
अथार्थरूपेण शब्दः शुक्तिरिव रजता कारतया ऽवभासतइतीयं विवर्त्तवा-
द्योयुक्तिः इयमपि न साधीयसी, शुक्तिका हि रजतवत्प्रकाशत इति शक्यं वक्तुं
शुक्तेराकारसारूप्येण तथा ऽवभाससम्भवात्, इह तु शब्दार्थयोरत्यन्तविसदृ-
शवपुषोराकारसमारोपकारणानवधारणात्कथमितररूपणेतरस्यावभासः, शुक्ति-
कारजतादिप्रतीतिषु च बाधकवशात्तथात्वमवगतमिह तु धर्मै(म)जहत्सत्या-
मसत्यां वा ऽर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः, एषो ऽपि सम्प्रत्येव प्र-
तिक्षिप्तः शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् , न चा-
न्यः कश्चिद्द्विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते विव-
र्तंते ऽर्थभावेनेति ।
अथ शब्दब्रह्मैव सृजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सो ऽपि न
सम्यग् अचेतनत्वेन शब्दस्येश्वरस्येव स्रष्टृत्वानुपपत्तेः, नच परमाणुवदस्य का-
रणत्वम् , अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात् ।