सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 514, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 514

१०० न्यायमञ्जर्याम्
प्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्शयितुमनुभवितुं
चाशक्यत्वाच्छब्द एव तथा प्रतिभातीति शब्दविवर्त एवायमर्थो नान्यः कश्चि-
दिति प्रतिपत्तुमर्हसि, यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्व-
पि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः, शब्द एवार्थरूपेण
विवर्तत इति गृह्यताम् , अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शितविचित्रभेदम्-
विद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् ।
तत्राभिधीयते—न खलु प्रकारत्रयमपीदमुपपद्यते पदपदार्थसम्बन्धव्युत्प-
त्तिविरहिणामवाप्तशब्दयोजनावैरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रिय-
जप्रत्ययदर्शनात् , वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि
शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्तुस्ववभासस्यापरिहार्यत्वात्,
यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु यो ऽवधृतस्तद्दर्शने त-
त्संस्कारप्रबोधात्स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्तत्सत्किमित्या-
दिषु विशेषशब्देष्विव सैव वार्त्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनवि-
हारिविहङ्गकूजितादिवार्थप्रतीतिहेतुत्वानुपपत्तेः, सविकल्पकदशायामपि न वा-
चकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयति इति विस्तरतः
प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च—
न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक् शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥ इति ।
( श्लोक० वा० प्र० १७२ )
संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति न तद्विशिष्टोऽर्थः,
तस्य हि श्रोत्रेण नेत्रेणोभाभ्यां न केवलेन मनसा वा ग्रहणमुपपद्यते ऽतिप्रसङ्गात्।
शब्दाध्यासवादखण्डनम् ।
शब्दो ह्यनेकधर्मके धर्मिणयेकतरधर्मावधारणाभ्युपायो भवति न तत्रा-
त्मानमारोपयति न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपये रूपादावात्मान-
मारोपयन्त्यत एव तदुपायत्वभ्रमकृतस्तदभेदवादो ऽपि न युक्तः ।
न ह्युपायादभिन्नत्वं तदुपेष्यस्य युज्यते ।
रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषो ऽपि वा॥
अपि च-यदि शब्दादभिन्नो ऽर्थः प्रतिभात्येव को ऽध्यासार्थः अध्यासम्र-
मस्तु वैयाकरणानामेकाकारनिर्देशदोषनिर्मितो यथा गौरित्येष हि निर्देशो वा-
च्यतद्बुद्धिवाचिनाम्, कस्त्वया दृष्टो ऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञान-
मुत्पन्नं गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः, वस्तु-
तस्तु विविक्ता एवैते शब्दज्ञानार्थाः, तदुक्तम्--