न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 502, कुल 654 में से
संदर्भ में पढ़ेंदोषानुबन्धकथानुबन्धेन ।
यदपि प्रवृत्त्यनुबन्धादिति , तदपि सूत्रकृता समाहितम् , न प्रवृत्तिः प्रति-
सन्धानाय हीनक्लेशस्येति (गो० अ० ४ आ० १ सू० ६४) । दोषेषु बन्धहेतुषु
विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति ।
ननु दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ।
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ॥
अत्र के चिदाहुः-ददत्येव कर्माणि फलं दत्त्वा शाम्यन्ति तथापि न बन्धहे-
तवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनङ्क्ष्यति
अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ।
नन्वमुष्मात्कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभावनियमा-
त्कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी
हि योगर्द्धिसिद्धश्च। विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि
तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च
मुक्तेरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुप-
भोगेन कर्मणां क्षयः ।
अन्ये त्वाचक्षते-किमनेन भोगायासेन अदत्तफलान्येव कर्माणि योगिनो
नङ्क्ष्यन्ति तत्त्वज्ञानस्यैव भगवतः इयान् प्रभावो यदस्मिन्नुत्पन्ने चिरसं-
स्थितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति भोगादपि तेषां प्रक्षयः शास्त्र-
प्रामाण्यादेवावगतः तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्या-
महे, तथा चाह-
यथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुते ऽर्जुन! ।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ।
( भ० गी० अ० ४ श्लो० ३७ )
न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानाद्वेदार्थ हि
नासावभिधीतेति ।
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि
सहकारिवैकल्यात्स्वकार्यकरणोदासीनता तेषां भवति भृष्टनामिव बीजाना-
मङ्कुरकरणकौशलहानिः, यतः सामग्री कार्यस्य जनिका न केवलं कारकम्-
तो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुप-
यान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि, तदुक्तम्—‘अविद्यातृष्णे धर्मा-
धर्मौ च जन्मकारणमिति’ तत्त्वविदश्च तरववित्त्वादेव नाविद्या मिथ्याज्ञाना-
त्मिका भवति, दोषाणां तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्मा-
धर्मौ न बन्धाय कल्पेते न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजाबि जन-