सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 504, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 504

स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात्स्वर्गकाम' इति । न फलाभिसन्धानपूर्वक-
त्वेनाप्रयोगात् , यथा ऽऽह-
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति ।
इति संयोगप्रवृत्तौ विशेषः, प्रयोगे ऽपि विशेषः काम्यं कर्म सर्वाङ्गोपसंहारेण
प्रयुज्यमानं फलसाधनमिति, यथा शक्तिस्त(था त)त्तथा प्रयोक्तव्यमिति नित्यस्य-
कर्मणा ऽकरणात्प्रत्यवाय इति यथाशक्त्यपि तत्प्रयोक्तव्यमनुष्ठाता तु सर्वाण्य-
ङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रवर्तिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति,
एवं तदेव दर्शपूर्णमासादिकर्म 'यावज्जीवसि'ति चोदनयोपदिष्टं नित्यं सत्तत्फला-
नाभिसन्धानात्प्रयुक्तं न बन्धाय कल्पते, क्व सा स्वर्गसाधनशक्तिरस्य गतेति चेद्,
न वयं कर्मणां शक्तिमशक्तिं वा प्रत्यक्षतः पश्यामः शास्त्रैकशरणास्तु श्रोत्रिया
वयं चोदनैव