न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 512, कुल 654 में से
संदर्भ में पढ़ेंविभागकल्पनापि निरवकाशैव। यच्चेतरेतराश्रयत्वं परिहर्तुमनादित्वमावे-
दितमविद्यायास्तत्र बीजाङ्कुरवद्द्रव्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात्,
अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचि-
तम्, एकात्मवादिनां तु तदतिदुर्घटनादनिर्मोक्ष एव स्याद् , यथाह भट्टः--
स्वाभाविकीमविद्यां च नोच्छेत्तुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥
न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ॥ इति ।
यत्पुनरविद्यैव विश्वोपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम् , तदपि
क्लेशाय नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वा-
भावात्, रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरू-
पतो विद्यत एव ।
न