न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 507, कुल 654 में से
संदर्भ में पढ़ेंअपवर्गनिरूपणम् । ९३
माधिकारविधेर्विश्वजिति (१) रात्रिसत्रे (२) वा किमन्यत्क्रियतां न हि विधिश्व-
रूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात्स्वर्गकामादिः कल्प्यते वा
अर्थवादसमर्पितो वा ऽवलम्ब्यते , यत्र तु विधिस্বরূপमहिम्नैव तदुपलम्भः
तत्र किं कल्पनया किमर्थवादवदनावलोकनदैन्येन वा, इह च स्वाध्यायो ऽध्ये-
तव्य इति वदग्नीनादधीतेतिवद्वा कृत्येन द्वितीयाया वेप्सिततमनिर्देशात्तन्निष्ठ-
त्वमेवावतिष्ठते । तत्र यथा ऽग्न्यर्थतया ऽऽधानविधिरवगम्यमानो ऽग्नीनाम-
नेकविधिपुरुषार्थोपयिककर्मकलापोपयोगात्तदर्जनेनैव कृतार्थत्वमुपगत इति न
फलान्तरमपेक्षते यथा वा स्वाध्यायो ऽध्येतव्य इत्यक्षरग्रहणार्थत्वादस्य विधेर-
क्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्न तदति-
रिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्त्वं न चाध्ययनविध्यङ्गत्वं स्वमहिम्नै-
वेप्सिततमसंस्कारद्वारकाधिकारलाभात् , एवमिहाप्यपहतपाप्माद्यात्मस्वरूपप-
रिज्ञानमेव तस्य परपुरुषार्थतामवबोधयन्नास्य विधेरन्यप्रयोजनतामापादयति,
कश्चित्किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति
व्रीहीन्प्रोक्षतीतिवत् , कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वा-
निर्वाहात्संस्कारविधित्वमेव जहाति सक्तून् जुहोतीतिवत् , यथोक्तम्-
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चित् ॥ इति ।
संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्ला-
नमिव शतपत्रमस्ति कस्तर्हि प्रकरणपाठापेक्षायामर्थवादमुखप्रेक्षणे फलकल्प-
नायां वा ऽभिलाषः, अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य न चाचार्यकर-
( १ ) विश्वजितीति । अयमाशयः-विश्वजिद्यागे प्रवृत्त्यर्थमिष्टसाधनताज्ञान-
मवश्यमपेक्षणीयमिष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वात् तच्च इष्टं किमिति निया-
मकं नास्ति विश्वजिता यजेतेति श्रुतौ फलविशेषा निर्देशादिति किंचित्फलं स्वेच्छयां-
कल्पनीयमिति पूर्वपक्षे स विश्वजिद्यागफलं स्वर्गः स्यात् सर्वपुंसामिष्टत्वादिति, स स्वर्गः
स्यात्सर्वान् प्रत्यविशिष्टत्वात् ( अ० ४ पा० ३ सू० १५ ) इति सूत्रेण जैमिनि-
ना सिद्धान्तितम् ।
( २ ) रात्रिसत्र इति । रात्रिसत्रवाक्यानां ज्योतिर्गौरित्यादिवाक्योत्पन्नकर्मणां
फलजिज्ञासायाम् विश्वजिम्न्यायेनोत्पन्नाश्रुतस्वर्गादिफलकल्पने गौरवात् 'प्रतिष्ठि-
न्ति ह वा य एता रात्रीरुपयन्ति' इति अर्थवादश्रुता 'प्रतिष्ठैव फलम्'इति सिद्धान्तः
तथा च न्यायमाला-
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहादिमः ।
पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाऽश्रुताद्वरम् ॥