न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 508, कुल 654 में से
संदर्भ में पढ़ें९४ न्यायमञ्जर्याम्
णविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात्स्वाध्यायाध्ययनाग्न्याधानविधिसमानयो-
गक्षेमत्वादात्मज्ञानविधेस्तत एवात्मज्ञानमपवर्गार्थमवगम्यते, तथाविधस्वरूप
आत्मैव परोपजनितधर्मरहितो ऽपवर्ग इत्युच्यते यतः तदिदमित्थमात्म-
ज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवानाचार्योऽक्षपादः । यत्तु
विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानमेवेति न निःश्रेयससाधनम् ।
ब्रह्मवादिमतेन मोक्षोपायनिरूपणम् ।
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत्प्रत्युत द्वैतदर्शनमविद्या मायापि मिथ्या-
ज्ञानमिति युक्तम् , तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु भवान् , तत्र हि
यदन्यानपेक्षतया झगिति पदार्थस्वरूपमवभासते तत्पारमार्थिकमितरत्काल्प-
निकमिति गम्यते , सद्रूपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति भेदस्त्वन्यापे-
क्ष्येति नाक्षणविज्ञानविषयतामुपयाति, तत्र यथा मृद्रूपतः प्रवृत्ति यावत्कु-
म्भावस्थावस्थेत्यस्मिन्नन्तराले आविर्भवतां च घटकपालशकलशर्कराकणादीनां रूप-
मपरमार्थसदेव व्यवहारपदवीमवतरति परमार्थतस्तु मृत्तिकैव, यथा ऽऽहुः मृ-
त्object: त्तिक्येव सत्यमिति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थ सदिति
सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मेत्याहुः, आगमश्च 'एकमेवाद्वितीय-
मि'त्यादिरभेदमेव दर्शयति 'नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह
नानेव पश्यती'ति च, वेदस्य च सिद्धे ऽप्यर्थे प्रामाण्यमुपवर्णितमेव भवद्भिः, न च
प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य न ह्यन्यनिषेधे प्रत्यक्षं प्रभव-
ति स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् , पररूपमन्तरेण च भेदस्य दुरुपपा-
दत्वाद्भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात्तदुक्तम्--
आहुर्विधातृ प्रत्यक्षं न निषेध्यं विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥
नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभा-
वत्वान्मुक्तमेवास्ते केन तद्बद्धमिति किमर्थो ऽयं मुमुक्षूणां प्रयत्नः कुतस्त्यो वा
ऽयं विचित्रो जगदवभासः ? अविद्याच्छेदार्थं मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य
एवायं विचित्रजगदवभासः ।
केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेद् नाद्वैतम् अव्यतिरेके तु ब्रह्मैव सा,
ततो नान्येत्येवेति कथमुच्छेद्यते ? नैवं न वस्तुनीदृशि तार्किकचोद्यानि क्रमन्ते,
अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा ऽभिधीयते, तत्त्वांप्रग्रहण-
मविद्या अग्रहणं च नाम कथं वस्तुधर्मे विकल्प्यते ।
ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या। न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वाद्-
विद्या भवति अन्यस्तु नास्त्येव तदाश्रयो न च निरधिकरणमेव मिथ्याज्ञानं
भवितुमर्हति ?