सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 519, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 519

अपवर्गनिरूपणम् । १०५
शेषणा विशेष्यबुद्धिर्भवति, तस्मादपि पूर्वज्ञानग्रहणमिति सिद्धम् ,. ज्ञानं
च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात्साकारमेव तद् ग्रही-
तव्यम्, साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावान्कुतो ज्ञानाति-
रिक्तो बाह्योऽर्थः अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्म-
व्यवस्थानुपपत्तेः, कल्पयित्वाऽपि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य
विषयनियमसिद्धये वक्तव्या नीलज्ञानं हीदमनेकसंनिधाने समुपजा-
यमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत बोध-
स्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् , प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेक-
विषयैव स्यात् , न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितु-
मुचितमालोकालोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्र