सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २३३
ननु केनोक्तं श्रोत्रदृगादेरेकविषयत्वं, नहि
श्रोत्रग्राह्यमर्थं दृक् गृह्णाति, पाणिकार्यं वा पादः
करोति पृथगर्थत्वेनैषां प्रातिस्विकस्वरूपत्वात् ।
सत्यं, किंतु भोगैकसाधनत्वविवक्षयैवमुक्तम् ।
तथाहि भोक्तुः पुंसः आम्रादिसौरभानुभवत-
स्तदन्वेषणोद्यमः, ततश्चाम्राः सन्तीति श्रवणा-
त्तत्र प्रवर्तनं, दृशा तद्दर्शनं, रसनेन चास्वा-
दनमित्येकविनियोगित्वमिन्द्रियाणामनुभूयमा-
नमपि भवत्पक्षे न युक्तमभ्युपगन्तुमानर्थक्य-
भयात् । ततश्च भिन्नार्थमेव श्रोत्रदृगादि पाणि-
पादादि च युष्मद्दृशा भवतु पुंभोगकार्यहेतुत्वे-
नाभिन्नविषयमपि भिन्नफलमस्त्वित्यर्थः । न
चैवमित्थम् ॥ १२ ॥
तृतीयमपि पराशङ्काप्रकारं परिहृत्य पराभि-
मतमेकविनियोगित्वं विद्याबुद्ध्योर्निराकर्तुमाह
न चैकविनियोगित्वं
विद्याबुद्ध्योः कथञ्चन ।
विनियोगान्तरद्वारा
न दृष्टानेकसाध्यता ॥ १३ ॥
३०

२३४ मृगेन्द्रतन्त्रे । [१।११
न च विद्याया बुद्धेश्चैकार्थविनियोगित्वं भि-
न्नविषयत्वात्। विनियोगान्तरं च तत् द्वारं मुखं
यस्याः सा मुखान्तरेणान्येन विनियोगेन प्रवृत्ता
अनेकसाध्यता न दुष्टा यथा इन्धनोदकद-
र्व्याद्यनेकसाधनसाध्यायाः पाकक्रियायाः पृ-
थक्प्रयोजनत्वे सति भिन्नकारकाभ्युपगमे न
किञ्चिदपकृष्यते ॥ १३ ॥
अथ किं तद्भिन्नविषयत्वं विद्याबुद्ध्योरित्याह
विद्या व्यक्ताणुचिच्छक्ति-
र्नुन्नाशेषाक्षगोचरान् ।
स्वीकृत्य पुंस्प्रयुक्तस्य
करणस्यैति कर्मताम् ॥ १४ ॥
मतिस्तेनेतरा
विद्या तावत् व्यक्ताणुचिच्छक्तिः व्यक्ता
उद्दीपिता अणोश्चिच्छक्तिर्यया, एतावदेवास्याः
करणीयम् । ततस्तु नुन्नं प्रेरितमवधानेन नियो-
जितमशेषं मनो येषां तानि तथाविधानि या-
न्यक्षाणीन्द्रियाणि तद्गोचरांस्तद्विषयान् स्वी-
कृत्य, पुंस्प्रयुक्तस्येति पुंसा प्रकर्षेण युक्तस्य सा-

[header] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३५

क्षात्स्वात्मन्येवोपकारकत्वेन स्थितस्यास्यैव वि-
द्याख्यस्य करणस्य बुद्धैर्यतः कर्मतामेति ग्राह्य-
त्वमागच्छति, तेनेतरा विद्या अतो दूरं भिन्ना ॥
तदियता विद्यावैधर्म्यं निराकृत्य, अथ द्वि-
तीयचोद्यस्य निरासः
रागो
न गौणस्तद्विधर्मतः ।
तच्च भोग्यत्वमेतद्वा
वीतरागस्ततो हतः ॥ १५ ॥
रागो न बुद्धिगुणोऽवैराग्यलक्षणः । कुत
इत्याह तद्विधर्मतः, तस्मादागमोक्ताद्रागात् गौ-
णस्य वैधर्म्यं यतः । लुप्तभावप्रत्ययो विधर्म-
शब्दः । किं तद्वैधर्म्यमित्याह तच्च भोग्यत्वमिति,
अवैराग्यलक्षणो बुद्धिधर्मः स्रक्चन्दनवनिता-
दिर्वा विषय एवं बहिष्ठो यः परेषां रागत्वेनेष्टः,
तस्यैतदेव वैधर्म्यं-यद्भोग्यत्वम् । भोगाभिष्वङ्ग-
हेतुना रागेण भोजकेन च भाव्यम् । नच भोग्य-
स्य भोगहेतोश्चाभेदः । एतद्वा भोग्यत्वं रागस्या-
ङ्गीक्रियते, तर्हि वीतरागस्ततो हतः, तत इति
एवमभ्युपगमाद्वीतरागाभावदोषः प्रसज्यते ।

२३६ मृगेन्द्रतन्त्रे । [ १।११
भोक्तृगतरागानभ्युपगमे बहिष्ठवराङ्गनादिभो-
ग्यविशेषरूपरागोपगमे च सति सरागवीतराग-
संनिकर्षस्थस्रगादौ भोग्यविषये सर्वेषां सराग-
ता प्राप्नोति, नहि कश्चिदत्र वीतरागो भवेत् ।
वस्तुतो वीतरागाणामपि भोग्यविशेषसंनिधि-
मात्रादेव सरागताया दृष्टत्वात् । उक्तं च
सद्योज्योतिःपादैः
'भोग्यविशेषे रागे नहि कश्चिद्वीतरागः स्यात् ।'
(त० सं० १०)
इति । तस्माद्भोक्तृगत एव रागोपगमो, न भो-
ग्यविशेषरूपः स्रगादिः अवैराग्यलक्षणबुद्धिध-
र्मात्मको वा ॥ १५ ॥
अतश्च
रागोऽर्थेष्वभिलाषो यो
न सोऽस्ति विषयद्वये ।
उक्तवद्भोक्तृगतो रागो योऽर्थेषु स्रगादिष्व-
भिलाष इत्यभिलाषहेतुरेवाभिलाषशब्देनोक्तः
कारणे कार्यस्याभेदोपचारात् आयुर्घृतमिति-
वत्, स च रागाख्योऽर्थेषु अभिलाषरूपत्वाद-
भिलाषहेतुर्विषयद्वये एकस्मिन्बाह्ये स्रक्चन्द-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३७
नादौ वीतरागाभावप्रसङ्गतया नास्तीत्यभ्युपग-
न्तव्यः, द्वितीयस्मिंस्तु अवैराग्यलक्षणे बुद्धि-
धर्मे भोग्यरूपत्वादभिलाषहेतुत्वं नास्ति । त-
स्मादभिलाषहेतुना रागेण जन्यते असौ बु-
द्धिगतस्पृहात्मकः क्रियारूपो भोग्यत्वसंपादक
इत्यलम् ॥
ननु कर्मैव सुखदुःखादिरूपभोग्येऽभिलाष-
हेतुत्वेन भविष्यतीत्याह
कर्मास्तु व्यापकं कल्प्यं
कल्पितेऽपीतरत्र यत् ॥ १६ ॥
प्रागुक्तेऽस्मिन् विषयद्वये सरागवीतरागा-
त्मकस्थितिव्यवस्थापकत्वेन व्यापकं कर्मास्तु,
यत् इतरत्रेति रागे परिकल्पितेऽपि कल्प्यं कि-
लावश्यमभ्युपगन्तव्यम् । तच्छेतोरपि कर्मैष्ट-
व्यम् । तदेव तत्तद्वस्तुवैचित्र्यात् सरागवीतरा-
गताकारणत्वेनास्त्विति पूर्वः पक्षः ॥ १६ ॥
सिद्धान्तस्तु
कर्मणः केवलस्योक्तं
नियतावेव दूषणम् ।

२३८ मृगेन्द्रतन्त्रे । [ १।११
केवलस्य कर्मणो नियतिसिद्धावेव दूषणं
दर्शितम् । तथाचोक्तं
'भोगोऽर्थः सर्वतत्त्वानां सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥
अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् ।
ततो नियतिसापेक्षम्स्तु कर्म नियामकम् ॥' (१।१०।१६)
इति । तस्मात् तनुकरणभोगादिवैचित्र्यमात्र
एव चरितार्थत्वात् कार्यान्तरे प्रमाणाभा-
वाच्च न कर्मणो रागकार्यसंपादकत्वम्, अपि-
तु उक्तप्रयोजनः कलाजन्यो रागः सिद्धः । नच
रागवद्द्वेषस्यापि तत्त्वान्तरत्वं द्वेषादीनां रागज-
नितप्रवृत्तिविशेषात्मकत्वात् । कस्मिंश्चिदभिल-
षणीये वस्तुनि किल व्याहन्यमानेऽस्य द्वेषा-
दयः संजायन्ते ॥
नन्वितरेतरोपमर्देन रागद्वेषयोर्यतोऽवस्थि-
तिस्तस्मादेकस्मिन्पुंसि सहानवस्थानदोषः प्रा-
प्नोतीत्याह
दोषः सहानवस्थानो
नासाम्याद्द्वेषरागयोः ॥ १७ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३९
सर्वस्य सर्वदा सर्वा
प्रवृत्तिः सुखबुद्धिजा ।
प्रवृत्तस्य सुखं दुःखं
मोहो वाप्युपजायते ॥ १८ ॥
प्रवृत्त्यनन्तरं द्वेषो
रागस्तत्पूर्वकालतः ।
द्वेषान्ते स पुनर्येन
वीर्यवद्योगकारणम् ॥ १९ ॥
कस्तावदयं सहानवस्थानदोषः, यद्येकका-
लतया, तदेतन्न दूषणम्, अपितु भूषणमेव ।
नहि यदैव यत्र रागस्तदानीमेव तत्र द्वेषः ।
अथ यस्मिन्नेव भोक्तरि रागस्तत्र द्वेष इत्येतन्नो-
पपन्नं, तदप्ययुक्तम् । नहि अनयोराश्रये वि-
रोधः, किंतु विषये । तुल्यबलत्वेन रागद्वेषयोः
क्रमिकतया एकस्मिन्नाश्रये विषयव्यावृत्तौ न
कश्चिद्दोषो भवद्भिरुद्भावितस्य सहानवस्थान-
स्येष्टत्वात् । तथाहि सर्वस्य व्यवहर्तुः सर्वा व्य-
वहृतिः सुखदुःखबुद्धिसंभवा । प्रवृत्तस्य चास्य
सुखं वा दुःखं वा मोहो वा जायते । भोजना-

२४० मृगेन्द्रतन्त्रे । [ १।११
द्विप्रवृत्त्यनन्तरं च तत्रैव द्वेषः, तत्पूर्वकालतस्तु
रागः । पुनश्च द्वेषान्ते कस्मिंश्चित्काले तदभि-
लाषः । यस्माद्यदेव वीर्यवद्वलीयस्तदेव योग-
स्याभिष्वङ्गजनितस्य संश्लेषस्य कारणम् । यत
एवं, तस्माद्रागस्य द्वेषाद्वलीयस्त्वात् सहानव-
स्थानदोषो न दोषः ॥ १९ ॥
इत्थं प्रासङ्गिकीं रागतत्त्वोपपत्तिमुक्त्वा,
अहङ्कारतत्त्वव्यापारमाह
अथ व्यक्तान्तराद्बुद्धे-
र्गर्वोऽभूत्करणं चितः ।
व्यापाराद्यस्य चेष्टन्ते
शारीराः पञ्च वायवः ॥ २० ॥
अव्यक्ताद्व्यक्तं गुणतत्त्वं व्यक्तान्तरं, तत्कार्यं
बुद्धिः, तस्याः सकाशादहङ्कारः चित आत्मनः
संरम्भवृत्त्यन्तःकरणमुपपद्यते, यद्व्यापाराच्छा-
रीराः शरीरान्तश्चराः पञ्च वायवश्चेष्टन्ते स्वं स्वं
व्यापारं विदधति ॥ २० ॥
के त इत्याह
प्राणापानादयस्ते तु
भिन्ना वृत्तेर्न वस्तुतः ।

योगपाद: प्राणायाम, प्रत्याहार, धारणा, ध्यान एवं समाधि (अध्याय १-५)

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २४१
प्राणापानादयो ये पञ्च वायवस्ते वृत्तेर्व्या-
पारभेदाद्भिन्नाः । नत्वेषां वास्तवो भेदः वायु-
रूपत्वाविशेषात् ॥
अथैषामेव व्यापारभेदं वक्ति
वृत्तिं लेशान्निगदतो
भरद्वाज निबोध मे ॥ २१ ॥
तत्र का प्राणस्य वृत्तिरित्याह
वृत्तिः प्रणयनं नाम
यत्तज्जीवनमुच्यते ।
यत्तदूहं मतिः पुंसां
भ्रमत्यन्धेव मार्गती ॥ २२ ॥
तत्कुर्वन्नुच्यते प्राणः
प्राणो वा प्राणयोगतः ।
चित्यातिवाहिके शक्तौ
प्राणशब्दः कलासु च ॥ २३ ॥
प्रकर्षेण नयनं प्रणयनम्। कोष्ठस्थस्य वायो-
र्बाह्यद्वादशान्तं यावत् यत् प्रापणं, सैषा प्राणस्य
वृत्तिर्व्यापारः । एतच्च व्यापारतो निर्वचनम् ।
३१

२४२ मृगेन्द्रतन्त्रे । [ १।११
फलतस्तूच्यते-यत्तज्जीवनं नाम सा प्राणस्यैव
वृत्तिः, अयमाशयः-प्रणयनात् प्राण इति
निरुक्तदृशा व्यापारेण प्राणशब्दो लक्षितः,
प्रकर्षेण अननं प्राणनं जीवनं ततोऽपि प्राण
इत्युच्यत इति फलविषयमस्य निर्वचनम् ।
फलतस्तूच्यते-यत्तत् पुरुषाणामूहं मार्गयमाणा
अन्धेव मतिर्भ्रमति, स प्राणस्यैव व्यापारः ।
ऊहो विमर्शात्मकस्तर्कः, तत्रास्या धियः प्राणे-
नैव प्रेरणं क्रियते । प्राणरथाधिरूढा हि सा
संविद्विमृशति । प्राणो वा बलं तद्योगात्प्राण
उच्यते । तस्माच्चिति चैतन्ये, आतिवाहिके क-
लादिक्षित्यन्ते तत्त्वशरीरे, शक्तौ च बलात्मि-
कायां, कलासु च सोमसूर्याद्यात्मिकासु प्राण-
शब्दो ज्ञेयः ॥ २३ ॥
अपानस्य वृत्तिमाह
तथापनयनं भुक्त-
पीतविण्मूत्ररेतसाम् ।
कुर्वन्नपानशब्देन
गीयते तत्त्वदर्शिभिः ॥ २४ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २४३
अपनयनमधःप्रापणं भुक्तपीतविण्मूत्ररेतसां
यत् करोति, अतस्तत्त्वज्ञैरपानाख्ययोक्तः ॥
अथ समानव्यानयोर्व्यापारोक्तिः
समन्ततोऽन्नपानस्य
समत्वेन समर्पणम् ।
कुर्वन्समान इत्युक्तो
व्यानो विनमनात्तनोः ॥ २५ ॥
अन्नपानस्य सर्वत्र साम्येन नियमनात्समा-
नस्य समानत्वं, देहस्य विनमनाद्व्यानस्य व्या-
नता ॥ २५ ॥
उदानस्य वृत्तिरुच्यते
विवक्षायत्नपूर्वेण
कोष्ठव्योमगुणध्वनेः ।
वागिन्द्रियसहायेन
क्रियते येन वर्णता ॥ २६ ॥
स उदानः शरीरेऽस्मि-
न्स्थानं यद्यस्य धारणे ।
जयः फलं वाच्यशेषं
पत्या स्कन्धान्तरेरितम् ॥ २७ ॥

२४४ मृगेन्द्रतन्त्रे । [ ११११
वक्तुमिच्छा विवक्षा, यत्नः संरम्भः, तौ पूर्वौ
यस्य तेन । कोष्ठस्य व्योम्न आन्तरस्याकाशस्य
गुणरूपो यः शब्दस्तस्य येन वागिन्द्रियसचिवेन
विवक्षायत्नपूर्वेण विभज्य वैचित्र्यं क्रियते सो-
ऽस्मिन्देहे उदानशब्दात् ज्ञेयः। यस्य च वायोः
प्राणादेर्यत्स्थानं, धारणे सति जयश्च, तज्जयात्
फलं, तदेतद्वक्तव्यशेषभूतं भगवता प्रकरणा-
न्तरेण योगपादाख्येनादिष्टम् ॥ २७ ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजभट्टनारायणकण्ठकृतौ मृगेन्द्र-
वृत्तौ प्रत्ययादिविचारप्रकरणमेकादशम् ॥ ११ ॥

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( द्वादशः पटलः )
इदानीमहङ्कारस्य त्रैरूप्यं तत्कार्याणि तद्वि-
चारश्च प्रस्तूयत इति प्रकरणान्तरारम्भः ।
प्राग्वत्संबन्धपञ्चकमत्राप्यनुसन्धेयम् ।
अथ शेषार्थसिद्ध्यर्थं
स्कन्धानस्यात एव सः ।
त्रीन्निश्चकर्ष सत्त्वादि-
भूयिष्ठानीशशक्तिगः ॥ १ ॥
अथानन्तरं शेषभूतस्यार्थस्य तन्मात्रेन्द्रि-
यादेः सिद्ध्यर्थमस्याहङ्कारस्य अत एवेति अह-
ङ्कारादेव स भगवान् अनन्तरप्रकरणान्ते प-
तिशब्देनोक्तो यः, स मायागर्भाधिकारिणामन-
न्तादीनामीशानां शक्तिगस्तदभिव्यक्तशक्तिः
सत्त्वरजस्तमोबहुलान् त्रीन् स्कन्धान्निश्चकर्ष

२४६ मृगेन्द्रतन्त्रे । [ १।१२
निष्कृष्टवान् अविभिन्नमहङ्कारमाविर्भाव्य त्रि-
धा व्यभजदित्यर्थः ॥ १ ॥
तदेव त्रैविध्यमाह
तैजसो वैकृतो योऽन्यो
भूतादिरिति संस्मृतः ।
तेभ्यः समात्रका देवा
मात्रेभ्यो भूतपञ्चकम् ॥ २ ॥
तैजसवैकारिकभूतादिकसंज्ञकेभ्यस्तेभ्योऽह-
ङ्कारस्कन्धेभ्यो देवा बुद्धीन्द्रियकर्मेन्द्रियाख्याः
समात्रकास्तन्मात्रसहिताः, तन्मात्रेभ्यश्च भूत-
पञ्चकमभिव्यक्तमिति शेषः ॥ २ ॥
अथ कुतः किमभिव्यक्तम् । आह
श्रोत्रं त्वक्चक्षुषी जिह्वा
नासा च मनसा सह ।
प्रकाशान्वयतः सात्त्वा-
स्तैजसश्च स सात्त्विकः ॥ ३ ॥
श्रोत्रादिबुद्धीन्द्रियपञ्चकस्य मनसश्च प्रबो-
धवत्त्वात् प्रकाशान्वयोऽस्ति, अतः सात्त्विका

श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । २४७
एते देवाः । स च सात्त्विक एव । तत्प्रकृति-
रहङ्कारस्कन्धस्तैजसो नाम ज्ञेयः ॥ ३ ॥
वाणी पाणी भगः पायुः
पादौ चेति रजोभुवः ।
कर्मान्वयाद्रजोभूयान्
गणो वैकारिकोऽत्र यः ॥ ४ ॥
वाक्पाणिपादपायूपस्थाः पञ्च राजसा देवाः ।
तेषां कर्मान्वयात् कर्मेन्द्रियत्वात् रजोबहुलो
वैकारिकाख्योऽहङ्कारस्कन्धः प्रकृतिभूतः ॥ ४ ॥
शब्दः स्पर्शश्च रूपं च
रसो गन्धश्च पञ्चमः ।
गुणाविशिष्टास्तन्मात्रा-
स्तन्मात्रपद्योजिताः ॥ ५ ॥
शब्दस्पर्शरूपरसगन्धा अविशिष्टगुणा अ-
नभिव्यक्तविशेषत्वेन तावन्मात्रपदे भूतप्रकृ-
तित्वरूपे योजितास्तन्मात्राशब्देन ज्ञेयाः । ता-
वत्यश्च मात्रास्तन्मात्रा इति स्त्रीलिङ्गोऽयमिह
तन्मात्राशब्दः । गुणाविशिष्टत्वं चैतासामित्थ-
म्—यथा पृथिव्यां खटखटादिरूपः शब्दः, स्प-

२४८ मृगेन्द्रतन्त्रे । [ १।१२
र्शश्च शीतोष्णः, रूपमपि अनेकविधं शुक्लादि,
षड्विधश्च रसो गन्धश्च सुरभ्यसुरभीरूपोऽस्ति ।
नैवं तत्कारणभूतपृथिवीतन्मात्रावस्थिता वि-
शेषा उपलभ्यन्ते, अपितु अविशिष्टगुणपञ्च-
कमात्रं पृथिवीतन्मात्रमेव मन्यते ॥ ५ ॥
एताश्च तन्मात्राः
प्रकाशकर्मकृद्वर्ग-
वैलक्षण्यात्तमोभवाः ।
प्रकाशकृत् सात्त्विको बुद्धीन्द्रियमनोल-
क्षणो यो वर्गः, यश्च कर्मकृत् राजसत्वाद्यापा-
रप्रवृत्तः कर्मेन्द्रियवर्गः, ताभ्यां वर्गाभ्यां वै-
लक्षण्यं वैसादृश्यं यस्मादेतासां तन्मात्राणा-
मतस्तमोभवा एताः ॥
प्रकाश्यत्वाच्च भूतादि-
रहङ्कारेषु तामसः ॥ ६ ॥
एषु चाहङ्कारस्कन्धेषु मध्याद्योऽयं भूता-
दिरहङ्कारस्कन्धः, स यस्मात्प्रकाश्यः तत्कार्यस्य
तन्मात्रात्मनो मनोबुद्धिभ्यां बुद्धीन्द्रियैश्च यो-
गिभिरुपलभ्यत्वात्, ततोऽयं तामसो विज्ञेयः ।
उक्तं च सांख्यैः

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेतै । २४९
'भूतादेस्तान्मात्रः स तामसः ......।' (२५ का०)
इति ॥ ६ ॥
अथ मनसो व्यापार उच्यते
देवप्रवर्तकं शीघ्र-
चारि संकल्पधर्मि च ।
मनः शब्दादिविषये
ग्राहकाः श्रवणादयः ॥ ७ ॥
देवनात् द्योतनाद्वा देवा इन्द्रियाणि, तेषां
प्रवर्तकमुद्योजकम्, आशुसंचरणशीलं, संक-
ल्पगुणं च मनो बोद्धव्यम् । श्रोत्रादयस्तु देवा
यथास्वं शब्दादिविषयग्राहकाः ॥ ७ ॥
वचनादानसंह्लाद्-
विसर्गविहृतिक्रियाः ।
वागादीनां पदान्यत्वं
पदे सत्यप्यतद्गुणाः ॥ ८ ॥
वचनं भाषणं, आदानं ग्रहणं, संह्लादः
आनन्दः, विसर्गो मलवियोगः, विहृतिः स-
ञ्चारः। एताः क्रियाः क्रमेण वागादीनां ज्ञेयाः,
काकाक्षिन्यायेन वागादीनामिति योज्यम् ।
३२

२५० मृगेन्द्रतन्त्रे । [ ११२
ततश्च वागादीनां पदान्यत्वमिति, यत् तस्याश्र-
यभूतं स्थानं, ततोऽन्यदेवेन्द्रियम् । नहि कर्ण-
शष्कुल्यादेरेव श्रवणादित्वम्, अपितु तत्स्था-
नस्थाया इन्द्रियशक्तेः। कुत इत्याह 'पदे सत्य-
प्यतद्गुणाः' तच्छक्तिविरहिणो जना दृश्यन्ते ।
नचैषां तानि स्थानानि न सन्ति ॥ ८ ॥
मानसत्वे युक्तिमाह
आत्मेन्द्रियार्थनैकृष्ट्ये
सर्वदेवाप्रवृत्तितः ।
प्रवृत्तिकारकास्तित्वं
युक्तितोऽप्यवसीयते ॥ ९ ॥
आत्मनो भोक्तुरिन्द्रियैर्भोगसाधनैरर्थैश्च श-
ब्दादिभिर्भोग्यैः संनिकर्षे सत्यपि सर्वेषां देवा-
नामिन्द्रियाणां यस्मान्न प्रवृत्तिः, अपितु क-
स्यचिदेव, अतो यत्तदिन्द्रियं प्रवृत्तं, तस्य प्रवृत्तौ
कारकमस्तीति युक्तितोऽनुमानादवसीयते । य-
दाहुः
'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्।' (न्या० सू० १।१।१६)
इति । सर्वदैवेति पाठे इन्द्रियार्थसंनिकर्षे स-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। २५१
त्यपि कदाचिदेवैन्द्रियाणि अर्थग्रहे प्रवर्तन्ते,
न सर्वदा। ततो नूनमेषां प्रवर्तकं किमप्यस्ति।
यद्विना न प्रवर्तन्ते इति व्याख्येयम् । अपिः
समुच्चये । न परमागमो मनःसत्तावेदकः, या-
वद्युक्तिरपीत्यर्थः ॥ ९ ॥
एवं च सति
तत्त्वान्तरोक्तवृत्तिभ्यो
वैलक्षण्याद्विलक्षणः ।
संकल्पो बीजमभ्येति
मनस्तत्पारिशेष्यतः ॥ १० ॥
तत्त्वान्तराणां कलारागविद्यादीनामुक्ता या
वृत्तयो व्यापाराः, ताभ्यस्तावद्वैलक्षण्यं संकल्प-
नाख्यस्य कर्मणोऽस्ति । विलक्षणश्चायं संकल्पो
बीजमुद्भवहेतुं गमयति ज्ञापयति। पारिशेष्याच्च
मनस्तद्विज्ञेयम् ॥
ज्ञानं तदक्षयोगात्तत्
क्रमयोगितया क्रमात् ।
तथाप्याभाति युगप-
न्नाशुसंचरणादृते ॥ ११ ॥

२५२ मृगेन्द्रतन्त्रे । [ १।१२
तस्य मनसोऽक्षैर्योगात् ज्ञानमुत्पद्यते । तच्च
क्रमयोगितया क्रमिकं, यथा रूपानुभवकाले
न स्पर्शानुभवः रसाद्यनुभवो वा। यद्यपि स्वादु-
सुरभ्यभिजातमर्मरशब्दवदभिरूपं च द्राधि-
ष्ठशष्कुल्यादिकमास्वाद्यमानं युगपत् पञ्चज्ञानो-
त्पादहेतुः, तथापि उत्पलपत्रशतव्यक्तिभेदवद्-
लक्ष्यसूक्ष्मक्रमाणि क्रमिकाण्येव तानि रसादि-
ज्ञानानि । एतच्च शीघ्रसंचारितां विना युगप-
न्मनसः पञ्चज्ञानोत्पादनं नाभाति न प्रकाशते ॥
भौतिकेन्द्रियवाद्यभिप्रायेणाहङ्कारिकत्वमि-
न्द्रियाणामाक्षेप्तुमाह
नियतार्थतयाक्षाणि
नानायोनीनि कस्यचित् ।
गन्धादिव्यञ्जकत्वाच्च
तदाधारात्मकान्यपि ॥ १२ ॥
शब्दैकग्राहकं श्रोत्रं
स्पर्शैकग्राहिणी च त्वक् ।
अन्यान्यपि नियतार्थतया हेतुभूतया क-
स्यचिद्वादिनः पक्षेऽक्षाणि इन्द्रियाणि भिन्नका-