सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 280, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 280

२५० मृगेन्द्रतन्त्रे । [ ११२
ततश्च वागादीनां पदान्यत्वमिति, यत् तस्याश्र-
यभूतं स्थानं, ततोऽन्यदेवेन्द्रियम् । नहि कर्ण-
शष्कुल्यादेरेव श्रवणादित्वम्, अपितु तत्स्था-
नस्थाया इन्द्रियशक्तेः। कुत इत्याह 'पदे सत्य-
प्यतद्गुणाः' तच्छक्तिविरहिणो जना दृश्यन्ते ।
नचैषां तानि स्थानानि न सन्ति ॥ ८ ॥
मानसत्वे युक्तिमाह
आत्मेन्द्रियार्थनैकृष्ट्ये
सर्वदेवाप्रवृत्तितः ।
प्रवृत्तिकारकास्तित्वं
युक्तितोऽप्यवसीयते ॥ ९ ॥
आत्मनो भोक्तुरिन्द्रियैर्भोगसाधनैरर्थैश्च श-
ब्दादिभिर्भोग्यैः संनिकर्षे सत्यपि सर्वेषां देवा-
नामिन्द्रियाणां यस्मान्न प्रवृत्तिः, अपितु क-
स्यचिदेव, अतो यत्तदिन्द्रियं प्रवृत्तं, तस्य प्रवृत्तौ
कारकमस्तीति युक्तितोऽनुमानादवसीयते । य-
दाहुः
'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्।' (न्या० सू० १।१।१६)
इति । सर्वदैवेति पाठे इन्द्रियार्थसंनिकर्षे स-