सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 265, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 265

[header] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३५

क्षात्स्वात्मन्येवोपकारकत्वेन स्थितस्यास्यैव वि-
द्याख्यस्य करणस्य बुद्धैर्यतः कर्मतामेति ग्राह्य-
त्वमागच्छति, तेनेतरा विद्या अतो दूरं भिन्ना ॥
तदियता विद्यावैधर्म्यं निराकृत्य, अथ द्वि-
तीयचोद्यस्य निरासः
रागो
न गौणस्तद्विधर्मतः ।
तच्च भोग्यत्वमेतद्वा
वीतरागस्ततो हतः ॥ १५ ॥
रागो न बुद्धिगुणोऽवैराग्यलक्षणः । कुत
इत्याह तद्विधर्मतः, तस्मादागमोक्ताद्रागात् गौ-
णस्य वैधर्म्यं यतः । लुप्तभावप्रत्ययो विधर्म-
शब्दः । किं तद्वैधर्म्यमित्याह तच्च भोग्यत्वमिति,
अवैराग्यलक्षणो बुद्धिधर्मः स्रक्चन्दनवनिता-
दिर्वा विषय एवं बहिष्ठो यः परेषां रागत्वेनेष्टः,
तस्यैतदेव वैधर्म्यं-यद्भोग्यत्वम् । भोगाभिष्वङ्ग-
हेतुना रागेण भोजकेन च भाव्यम् । नच भोग्य-
स्य भोगहेतोश्चाभेदः । एतद्वा भोग्यत्वं रागस्या-
ङ्गीक्रियते, तर्हि वीतरागस्ततो हतः, तत इति
एवमभ्युपगमाद्वीतरागाभावदोषः प्रसज्यते ।