मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 270, कुल 448 में से
संदर्भ में पढ़ें२४० मृगेन्द्रतन्त्रे । [ १।११
द्विप्रवृत्त्यनन्तरं च तत्रैव द्वेषः, तत्पूर्वकालतस्तु
रागः । पुनश्च द्वेषान्ते कस्मिंश्चित्काले तदभि-
लाषः । यस्माद्यदेव वीर्यवद्वलीयस्तदेव योग-
स्याभिष्वङ्गजनितस्य संश्लेषस्य कारणम् । यत
एवं, तस्माद्रागस्य द्वेषाद्वलीयस्त्वात् सहानव-
स्थानदोषो न दोषः ॥ १९ ॥
इत्थं प्रासङ्गिकीं रागतत्त्वोपपत्तिमुक्त्वा,
अहङ्कारतत्त्वव्यापारमाह
अथ व्यक्तान्तराद्बुद्धे-
र्गर्वोऽभूत्करणं चितः ।
व्यापाराद्यस्य चेष्टन्ते
शारीराः पञ्च वायवः ॥ २० ॥
अव्यक्ताद्व्यक्तं गुणतत्त्वं व्यक्तान्तरं, तत्कार्यं
बुद्धिः, तस्याः सकाशादहङ्कारः चित आत्मनः
संरम्भवृत्त्यन्तःकरणमुपपद्यते, यद्व्यापाराच्छा-
रीराः शरीरान्तश्चराः पञ्च वायवश्चेष्टन्ते स्वं स्वं
व्यापारं विदधति ॥ २० ॥
के त इत्याह
प्राणापानादयस्ते तु
भिन्ना वृत्तेर्न वस्तुतः ।