मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 268, कुल 448 में से
संदर्भ में पढ़ें२३८ मृगेन्द्रतन्त्रे । [ १।११
केवलस्य कर्मणो नियतिसिद्धावेव दूषणं
दर्शितम् । तथाचोक्तं
'भोगोऽर्थः सर्वतत्त्वानां सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥
अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् ।
ततो नियतिसापेक्षम्स्तु कर्म नियामकम् ॥' (१।१०।१६)
इति । तस्मात् तनुकरणभोगादिवैचित्र्यमात्र
एव चरितार्थत्वात् कार्यान्तरे प्रमाणाभा-
वाच्च न कर्मणो रागकार्यसंपादकत्वम्, अपि-
तु उक्तप्रयोजनः कलाजन्यो रागः सिद्धः । नच
रागवद्द्वेषस्यापि तत्त्वान्तरत्वं द्वेषादीनां रागज-
नितप्रवृत्तिविशेषात्मकत्वात् । कस्मिंश्चिदभिल-
षणीये वस्तुनि किल व्याहन्यमानेऽस्य द्वेषा-
दयः संजायन्ते ॥
नन्वितरेतरोपमर्देन रागद्वेषयोर्यतोऽवस्थि-
तिस्तस्मादेकस्मिन्पुंसि सहानवस्थानदोषः प्रा-
प्नोतीत्याह
दोषः सहानवस्थानो
नासाम्याद्द्वेषरागयोः ॥ १७ ॥