सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 263, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 263

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २३३
ननु केनोक्तं श्रोत्रदृगादेरेकविषयत्वं, नहि
श्रोत्रग्राह्यमर्थं दृक् गृह्णाति, पाणिकार्यं वा पादः
करोति पृथगर्थत्वेनैषां प्रातिस्विकस्वरूपत्वात् ।
सत्यं, किंतु भोगैकसाधनत्वविवक्षयैवमुक्तम् ।
तथाहि भोक्तुः पुंसः आम्रादिसौरभानुभवत-
स्तदन्वेषणोद्यमः, ततश्चाम्राः सन्तीति श्रवणा-
त्तत्र प्रवर्तनं, दृशा तद्दर्शनं, रसनेन चास्वा-
दनमित्येकविनियोगित्वमिन्द्रियाणामनुभूयमा-
नमपि भवत्पक्षे न युक्तमभ्युपगन्तुमानर्थक्य-
भयात् । ततश्च भिन्नार्थमेव श्रोत्रदृगादि पाणि-
पादादि च युष्मद्दृशा भवतु पुंभोगकार्यहेतुत्वे-
नाभिन्नविषयमपि भिन्नफलमस्त्वित्यर्थः । न
चैवमित्थम् ॥ १२ ॥
तृतीयमपि पराशङ्काप्रकारं परिहृत्य पराभि-
मतमेकविनियोगित्वं विद्याबुद्ध्योर्निराकर्तुमाह
न चैकविनियोगित्वं
विद्याबुद्ध्योः कथञ्चन ।
विनियोगान्तरद्वारा
न दृष्टानेकसाध्यता ॥ १३ ॥
३०