मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 277, कुल 448 में से
संदर्भ में पढ़ेंश्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । २४७
एते देवाः । स च सात्त्विक एव । तत्प्रकृति-
रहङ्कारस्कन्धस्तैजसो नाम ज्ञेयः ॥ ३ ॥
वाणी पाणी भगः पायुः
पादौ चेति रजोभुवः ।
कर्मान्वयाद्रजोभूयान्
गणो वैकारिकोऽत्र यः ॥ ४ ॥
वाक्पाणिपादपायूपस्थाः पञ्च राजसा देवाः ।
तेषां कर्मान्वयात् कर्मेन्द्रियत्वात् रजोबहुलो
वैकारिकाख्योऽहङ्कारस्कन्धः प्रकृतिभूतः ॥ ४ ॥
शब्दः स्पर्शश्च रूपं च
रसो गन्धश्च पञ्चमः ।
गुणाविशिष्टास्तन्मात्रा-
स्तन्मात्रपद्योजिताः ॥ ५ ॥
शब्दस्पर्शरूपरसगन्धा अविशिष्टगुणा अ-
नभिव्यक्तविशेषत्वेन तावन्मात्रपदे भूतप्रकृ-
तित्वरूपे योजितास्तन्मात्राशब्देन ज्ञेयाः । ता-
वत्यश्च मात्रास्तन्मात्रा इति स्त्रीलिङ्गोऽयमिह
तन्मात्राशब्दः । गुणाविशिष्टत्वं चैतासामित्थ-
म्—यथा पृथिव्यां खटखटादिरूपः शब्दः, स्प-