सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 281, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 281

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। २५१
त्यपि कदाचिदेवैन्द्रियाणि अर्थग्रहे प्रवर्तन्ते,
न सर्वदा। ततो नूनमेषां प्रवर्तकं किमप्यस्ति।
यद्विना न प्रवर्तन्ते इति व्याख्येयम् । अपिः
समुच्चये । न परमागमो मनःसत्तावेदकः, या-
वद्युक्तिरपीत्यर्थः ॥ ९ ॥
एवं च सति
तत्त्वान्तरोक्तवृत्तिभ्यो
वैलक्षण्याद्विलक्षणः ।
संकल्पो बीजमभ्येति
मनस्तत्पारिशेष्यतः ॥ १० ॥
तत्त्वान्तराणां कलारागविद्यादीनामुक्ता या
वृत्तयो व्यापाराः, ताभ्यस्तावद्वैलक्षण्यं संकल्प-
नाख्यस्य कर्मणोऽस्ति । विलक्षणश्चायं संकल्पो
बीजमुद्भवहेतुं गमयति ज्ञापयति। पारिशेष्याच्च
मनस्तद्विज्ञेयम् ॥
ज्ञानं तदक्षयोगात्तत्
क्रमयोगितया क्रमात् ।
तथाप्याभाति युगप-
न्नाशुसंचरणादृते ॥ ११ ॥