मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 282, कुल 448 में से
संदर्भ में पढ़ें२५२ मृगेन्द्रतन्त्रे । [ १।१२
तस्य मनसोऽक्षैर्योगात् ज्ञानमुत्पद्यते । तच्च
क्रमयोगितया क्रमिकं, यथा रूपानुभवकाले
न स्पर्शानुभवः रसाद्यनुभवो वा। यद्यपि स्वादु-
सुरभ्यभिजातमर्मरशब्दवदभिरूपं च द्राधि-
ष्ठशष्कुल्यादिकमास्वाद्यमानं युगपत् पञ्चज्ञानो-
त्पादहेतुः, तथापि उत्पलपत्रशतव्यक्तिभेदवद्-
लक्ष्यसूक्ष्मक्रमाणि क्रमिकाण्येव तानि रसादि-
ज्ञानानि । एतच्च शीघ्रसंचारितां विना युगप-
न्मनसः पञ्चज्ञानोत्पादनं नाभाति न प्रकाशते ॥
भौतिकेन्द्रियवाद्यभिप्रायेणाहङ्कारिकत्वमि-
न्द्रियाणामाक्षेप्तुमाह
नियतार्थतयाक्षाणि
नानायोनीनि कस्यचित् ।
गन्धादिव्यञ्जकत्वाच्च
तदाधारात्मकान्यपि ॥ १२ ॥
शब्दैकग्राहकं श्रोत्रं
स्पर्शैकग्राहिणी च त्वक् ।
अन्यान्यपि नियतार्थतया हेतुभूतया क-
स्यचिद्वादिनः पक्षेऽक्षाणि इन्द्रियाणि भिन्नका-