सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

२०२ ललितासहस्रनाम ।
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥ २३८ ॥
प्रातः स्नात्वा विधानेन संध्याकर्म समाप्य च ।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥ २३९ ॥
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ।
रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ॥ २४० ॥
जन्ममध्ये सकृच्चापि य एवं पठते सुधीः ।
सत्यल्पायाससाध्यत्वं सहस्रनामनवकेऽस्त्येव ललिताप्रीतिप्रदत्वमपि गङ्गाश्यामलादिप्री-
तिजननद्वारा तत्रास्त्येव । पञ्चमीस्तवराजादिललितैकविषयकस्तोत्रान्तरेषु त्वव्याहतं
ललिताप्रीतिकरत्वमित्याशङ्कामपाकुर्वन्क्रमप्राप्तं प्रीतिप्रदत्वं विवेचयति—इदमिति ।
इतरस्तोत्रपठनजन्यप्रीतिमपेक्ष्यैतज्जन्या प्रीतिर्विशिष्टेत्यर्थः । तेन प्रीतिविशेषजनकत्वे
सति रहस्यतमत्वमिहैवेति भावः । एतेनाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिदादिकर्म-
णामायासातारतम्यसाध्यानामेकजातीयस्वर्गफलकत्वायोगेन स्वर्गेषु तरतमभावकल्पनेति
पूर्वतन्त्रसिद्धन्यायादेव देवताप्रीतावपि बहुभिः स्तोत्रैः प्रातिस्विकजनितायां तारतम्यसि-
द्धेर्विशेषादित्युक्तौ को विशेष इति परास्तम् । इतोऽप्यधिकायाससाध्यकर्मान्तरजनितायां
देवताप्रीतावपि तेन न्यायेनेतोऽपि प्रीत्याधिक्यप्राप्तौ तन्माप्रसाङ्क्षीदित्याशयेन विशेष-
पदोपादानस्य सार्थक्यात् । अतएव च रहस्यतमत्वमप्युपपद्यते । तस्मात्प्रकृष्टेनापि
यत्नेन ललितोपासको यावज्जीवमिदं जपेदित्यर्थः ॥ २३८ ॥ जपकाले विधिमाह
द्वाभ्यां—प्रातरित्यादिभ्याम् । विधानेन वैदिकतान्त्रिकोभयप्रकारेण । काकाक्षिन्या-
येनास्य स्नानसंध्ययोरन्वयः । पूजागृहगमनं द्वारपूजाद्युपलक्षणम् । चक्रराजं श्रीचक्रम् ।
समर्चयेदिति स्वार्थे णिच् । अशक्तौ प्रयोजककर्तृपरो वा ॥ २३९ ॥ विद्यां पञ्चदशीं
षोडशीं वा । नतु श्रीदेवत्यमन्त्रसामान्यम् । सहस्रं वेत्यादिष्वष्टोत्तरशतमिति शेषः । त्रिशतं
शतत्रयं नतु व्युत्तरशतम् । नायं तुल्यबलो विकल्पः किंतु पूर्वांसंभवे परोऽनुकल्प इति
द्योतयितुमेवकारः । पश्चात् विद्याजपपुष्पाञ्जलिदानयोर्मध्ये । अतएव जप्त्वा पुष्पाञ्जलिं
दद्यादिति कथितं तयोः पौर्वापर्यं नाव्यवहितम्, किंतु सहस्रनामपाठेन व्यवहितमेव ।
वेदवेदिकरणयोरिव श्रुताचमनेन वेदाध्ययनस्नानयोरिव च मीमांसाध्ययनेनेति भावः ।
अत्र प्रातः स्नात्वेत्यादिः सर्वोऽपि विध्यन्तरप्राप्तानुवादः । सहस्रनामपाठे कालमात्रं तु
विधेयम् । अतएव जपपाठयोर्न परस्परमङ्गाङ्गिभावोऽपि । द्वयोरपि प्रातिस्विकविधिभ्यां
फलवत्तया सहस्रनामकीर्तनस्यापि विध्यन्तरेणैव फलार्थतयाऽवगतत्वेन ‘दर्शपूर्णमा-
साभ्यामिष्ट्वा सोमेन यजेते’त्यादाविव कालार्थस्यैव संयोगस्य निर्णयात् । स्नानादिप्रधान-
पञ्चकस्य क्रम एव वा विततिरूपो विधेयः । तेनान्यतमप्रधानाकरणेऽपि ‘अनपायो हि
कालस्ये’ति न्यायेनावैगुण्यात्फलानुत्पत्तिरपास्ता ॥ २४० ॥ प्रीतिविशेषस्येतरव्यावृत्त-
स्योक्तं भाव्यत्वं विशेषाज्ञानादनवगतप्रायमेवेत्यतो विशेषपदवाच्यं परिमाणमाह सार्धैरे-
कादशभिः—जन्ममध्य इत्यादिभिः । उक्तप्रकारेण जन्ममध्ये सकृत्पठितनामसह-

सौभाग्यभास्करव्याख्या । २०३
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव ॥ २४१ ॥
गङ्गादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ।
कोटिलिङ्गप्रतिष्ठां तु यः कुर्यादविमुक्तके ॥ २४२ ॥
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ।
स्नान्तर्गतस्यैकैकस्य नाम्नः कीर्तनादयं वक्ष्यमाणः पुण्यराशिः स पुनः सहस्रगुणितश्चेत्स-
कृतस्तोत्रपाठस्य फलम् । यावज्जीवं क्रियमाणस्य स्तोत्रपाठस्य यावत्य आवृत्तयः संभवेयु-
स्तावद्वारं तत्फलं गुणयित्वा तज्जनिकाया देवताप्रीतेः परिमाणं बुद्धिमद्भिरूहनीयमिति
समुदायार्थनिष्कर्षः । वक्ष्यमाणार्थस्य दुरूहत्वादेव वक्ष्य इति प्रतिज्ञापूर्वकं शृण्विति
शिष्यस्य सावधानतासंपादनम् ॥ २४१ ॥ गङ्गादीत्यादिपदेन पुष्करादेः परिग्रहः ।
'पुष्कराद्यानि तीर्थानी'त्यादौ पुष्करस्यैव सर्वतीर्थादित्वेन प्रसिद्धावपि ततोऽप्यादित्वेन
गङ्गाया ग्रहणं तस्यास्त्रिलोकगामित्वेन गङ्गापदादुपस्थितौ तत्तल्लोकगततीर्थानामपि
सर्वपदेन संग्रहार्थम् । अतएव गङ्गापदं भविष्योत्तरपुराणे तथैव निरूप्यते 'यस्माद्भगीरथो
देवि खर्गाङ्गां लामिहानयत् । अतस्त्वं मुनिभिः सर्वैर्गङ्गेति परिकीर्त्यस'इति । तीर्थान्तर-
ग्रहणे तु भूलोकगतान्येव सर्वतीर्थानि भासेरन् । अत्र प्रतिदिनं श्रद्धया परया सहस्रप-
रिवत्सरानित्येतत्पदचतुष्टयमुत्तरत्र पठ्यमानं पूर्वत्र सर्वत्रान्वेतव्यम् । कोटिजन्मस्विति
तूत्तरत्र सर्वत्रापि । एवं त्रैलोक्यान्तर्गतानां निखिलतीर्थानां मध्ये एकस्मिंस्तीर्थे प्रतिदिनं
विधिना परया श्रद्धया स्नानेन सहस्रपरिवत्सरपूर्तीरीदृशमेकं जन्म तादृशकोटिजन्मपर्य-
न्तमेकतीर्थस्नानजनितं पुण्यम् । तथैव सर्वतीर्थस्नानजनितपुण्यानीत्येषां राशिरेकः ।
'एकस्मिन्स्थापिते लिङ्गे विश्वं संस्थापितं भवे'दित्यादिभिर्वचनैरितरदेवप्रतिष्ठामपेक्ष्य
शिवप्रतिष्ठाया आधिक्यं मन्वानं आह—लिङ्गेति । काश्यां तावत्काशीवाराणस्यवि-
मुक्तमन्तर्गृहं चेति चत्वारि स्थानानि बृहज्जाबालादावाम्नातानि । तेषु पूर्वपूर्वस्योत्तरोत्तरं
व्याप्य पञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वन्तर्गृहमतीवोत्तमम् । तद्धि परमशिवस्य
शरीरमेव । शरीरशरीरिणोश्चाभेदान्नित्यत्वाच्च 'अविशब्देन पापानि कथ्यन्ते द्विजसत्तम ।
तैर्मुक्तं न मया व्यक्तमविमुक्तमतः स्मृत'मिति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचन-
स्यान्तर्गृह एव मुख्यतयोपपत्तावपि तद्व्यापकस्थानविशेषनिरूढलक्षणया प्रयोगबाहुल्या-
त्पण्डितपामरसाधारण्येनान्तर्गृहस्य मुख्यमविमुक्तत्वमिति ज्ञानाभावादज्ञातं सदविमुक्त-
मन्तर्गृहमेवेति ज्ञापयन्नाह—अविमुक्तके इति । अज्ञातार्थे कप्रत्ययः । अन्तर्गृह
इत्यर्थः । अन्तर्गृह इत्यनुक्तिरुक्तनिर्वचनसारेणेन पुण्यातिशयवत्त्वद्योतनाय । ततश्चा-
न्तर्गृहे सहस्रपरिवत्सरपर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति
तदेकजन्मजनितं पुण्यं तस्य कोटिसंख्यागुणनेन जातो राशिर्द्वितीयः ॥ १४२ ॥
करुणाकृष्टो देशस्तरन्तुकारन्तुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे सूर्योपरागे ।
'सर्वत्र सर्वदा सर्वे गृह्णन्मुच्येत कर्हिचित् । उपरागे कुरुक्षेत्रे गृह्णन्विप्रो न मुच्यते'
इत्यादिना महाभारतादौ तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावोक्त्या फलानन्त्यं दाने ।

२०४ ललितासहस्रनाम ।
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥ २४३ ॥
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ।
आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ॥ २४४ ॥
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ॥ २४५ ॥
तत्पुण्यं कोटिगुणितं लभेतपुण्यमनुत्तमम् ।
रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ॥ २४६ ॥
यद्यपि बृहस्पतिस्मृतौ 'त्रीण्याहुरतिदानानि गावः पृथ्‍वी सरस्वती'त्युक्तं तथापि तेष्वपि
सुवर्णसाध्यत्वात्तद्दानस्यैवाधिक्यमभिप्रेत्याह—सौवर्णेति । भारो नाम विंशतितुलाः ।
तुला नाम पलशतम् । 'तुला स्त्रियां पलशतं भारः स्याद्विंशतितुला'इति कोशात् ।
श्रोत्रियेषु जन्मसंस्कारविद्याभिः संस्कृतेषु । 'त्रिभिः श्रोत्रिय उच्यत'इति ब्रह्मवैवर्तात् ।
देशकालपात्रदेयश्रद्धाज्ञानगोपनानां क्रियाखतिशयाधायकत्वात्प्रतिधर्मं कानिचिदनुक्ता-
न्यपि योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे सत्पात्राय श्रद्धादिभिः सौवर्णभारको-
टिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य सहस्रपरिवत्सरसंबन्धिदिनसंख्यया गुणने
तस्य पुनर्जन्मकोटिभिर्गुणनेन जातः पुण्यराशिस्तृतीयः ॥ २४३ ॥ अथेष्टापूर्ते आह—
'तरति ब्रह्महत्यां तरति पाप्मानं योऽश्वमेधेन यजते'इति विहितः क्रतुविशेषो हयमेधः ।
गाङ्गरोधसि गङ्गासंबन्धिनि तीरे । ततश्च गङ्गातीरे श्रोत्रियैर्ऋत्विग्भिः सह साङ्गकोट्य-
श्वमेधयज्ञजनितपुण्यस्य पूर्ववद्दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशि-
श्चतुर्थः । कूपेति वापीतडागादेरुपलक्षणम् । मरुरिति देशविशेषस्य संज्ञा । तेन
न निर्जलपदानर्थक्यम् । तादृशदेशे कूपादिकोटिखननजनितपुण्यस्य पूर्ववद्दिनसंख्यया
जन्मकोटिसंख्यया च गुणने जातो राशिः पञ्चमः ॥ २४४ ॥ दुर्लभा भिक्षा यस्मिन्स
सकलो देशोऽपि दुर्भिक्षः । तत्र कोटिसंख्यानामुत्तमब्राह्मणानामुत्तमषड्रसोपेतभो-
जनदानेन जातस्य पुण्यस्य दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशिः
षष्ठः । परिवत्सरानित्यत्यन्तसंयोगे द्वितीया । द्वादशसहस्रवर्षेष्वनवरतमित्यर्थः । संवत्स-
रपरिवत्सरेदावत्सरेद्वत्सरानुवत्सरशब्दानां प्रभवप्रमाथिखरशोभनराक्षसादिद्वादशद्वादश-
वर्षविशेषवाचित्वेऽपि प्रकृते सामान्यमात्रोपलक्षकत्वात् ॥ २४५ ॥ तेषां तीर्थस्नानशि-
वप्रतिष्ठास्वर्णदानेष्टापूर्तब्रह्मभोजनोत्थानां षण्णां पुण्यराशीनां याः कोटयस्ताभिर्गुणितं
पुण्यमुपस्थितत्वात्तमेव पुण्यषट्कमहाराशिं लभेतेत्यर्थः । अयं भावः—षण्णामपि पुण्य-
राशीनामेकं महाराशिं विभाव्य तं द्विरावृतं कृत्वा स्थलद्वये निक्षिप्य तयोर्मध्ये एकं
राशिं कोटिसंख्यया गुणयित्वा तज्जन्या संख्यया परं राशिं गुणयेत् । तत्र गुण्यस्य
राशेरेकसंख्यावच्छिन्नत्वे तस्य गुणनं व्यर्थम् । अतः संख्यान्त्तरावच्छिन्नत्वस्यावश्यकत्वे
सत्युपस्थितत्वात्कोटिरूपैव संख्या गुण्या वाच्या । ततश्च द्वावपि महाराशी प्रातिस्विकं

सौभाग्यभास्करव्याख्या । २०५
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ॥ २४७ ॥
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ।
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥ २४८ ॥
बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत ।
अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ २४९ ॥
यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
कोटिकोटिगुणितौ कृत्वा जातौ संख्यापिण्डौ पुनः परस्परं गुणयेदिति सिद्ध्यति ।
तेन च तं महाराशिं कोटिसंख्यया गुणयित्वा जातं पिण्डं पुनः कोटिसंख्ययैव गुणये-
दिति फलति । तं महाराशिं समुद्रसंख्यया गुणयेदिति तु निष्कर्षः । समुद्रो नाम
कोटिसंख्यायाः कृतिसंज्ञकः समद्विघातः । कोटिगुणिता कोटिरिति यावत् । तदुक्तं
वायुपुराणे—'सहस्रं तु सहस्राणां कोटीनां दशधा पुनः । गुणितं चेत्समुद्रं तं प्राहुः
संख्याविदो जना'इति । इदं च पुण्यपदस्य गुणकस्थाने गुण्यस्थाने चेति द्विःप्रयोगाल्ल-
भ्यते । पुण्यकोट्येति व्यस्तानुक्तिबलात्कोटिभिर्गुणितमिति बहुवचनान्तेन विग्रह इति
च लभ्यते । सर्वमिदं फलमुपक्रमानुसारात्स्तोत्रपाठस्यैवेति भ्रमो माप्रसञ्जीयत आह—
नाम्नोऽप्येकस्येति ॥ २४६ ॥ इदानीं पुण्यराशिजनकत्ववत्पापराशिनाशकत्वमप्येकैकस्य
नाम्नः फलमित्याह । अपिशब्द उपपातकादेः कैमुतिकन्यायेन वाचकतया वाच्यतया
वा समुच्चायकः ॥ २४७ ॥ तानि च पापानि यद्यपि 'विहितस्याननुष्ठानान्निन्दितस्य च
सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छती'ति स्मृतौ निमित्तत्रैविध्यात्त्रिविधानि
प्रतिपाद्यन्ते, तथापीन्द्रियनिग्रहस्तदभावयोर्विहितप्रतिषिद्धत्वाभ्यां तज्जन्यपापानामुक्त-
विधयोरेवान्तर्भाव इत्यभिप्रेत्य द्वैविध्येनैव गणयति । तत्तद्वर्णाश्रमभेदेन श्रुतिस्मृतितन्त्रेषु
विहितान्यकरणे प्रत्यवायफलकानि संध्यावन्दनोपरागस्नानादीनि नित्यकर्माणि । तेनैव
नैमित्तिकानामपि संग्रहात् । कलञ्जभक्षणादीनि निषिद्धानि । द्रुतं प्रायश्चित्तान्तरान-
पेक्षम् ॥ २४८ ॥ एतज्जन्यपुण्यराशेरिवैतन्नाश्यपापराशेरपीयत्ता बुद्धिमद्भिरवोध्येत्याशयेन
शिष्यं पुनरपि सावधानीकुर्वन्नाह सार्धेन—कलशीति । जातिलक्षणो ङीष् ।
तन्निवर्त्यं तया शक्त्या नाश्यं अघं पापं नालं न समर्थाः लोकाः जनाः चतुर्दश चतुर्द-
शभुवनगताः समस्तभुवनगताः । समस्ताः प्राणिनः प्रतिक्षणमासुप्तेरामृतेश्च कोटिकोटि-
जन्मभिरुच्चावचानि पापानि कुर्वन्ति चेद्यावान्पापराशिः स्यात्ततोऽप्यनवधिकोऽधिक
एकैकनाम्नो निवर्त्यस्तस्य सहस्रगुणनेन संपूर्णस्तोत्रपाठफलत्वमित्यूह्यमिति भावः
॥ २४९ ॥ यस्तावच्छ्रीविद्योपासक ईदृशं पापनाशनोपायमनादृत्य स्मार्तानि प्रायश्चि-
त्तानि चिकीर्षति तस्यैतदनादरजन्यः पापराशिस्तैरप्यनपोद्य आपततीति वृश्चिकभया-
१८

२०६ ललितासहस्रनाम ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ २५० ॥
भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताभीष्टं प्रयच्छति ॥ २५१ ॥
त्पलायमानस्य क्रुद्धाशीविषमुखे स्वात्मगूहनाय प्रवृत्तित्वदुपहसनीयतां निदर्शनालंकारेण
ध्वनयन्नाह—य इति । अभीप्सति पापहानिमुद्दिश्य प्रायश्चित्तान्तरं कुरुते । निषेवत
इत्यस्य वा सेवितुमिच्छतीत्यर्थः । वाक्यार्थयोरैक्यारोपानुगुण्यात् । अथवा प्रायश्चित्ता-
न्तरचिकीर्षायामेव हिमवत्पर्वतसेवेनैक्यारोपेण प्रायश्चित्तक्रियायास्तु सदृशी क्रिया
नास्त्येवेति तत्कर्तुर्मूर्खतातिशयो ध्वन्यः ॥ २५० ॥ नन्वेवं सति प्रायश्चित्तशास्त्राणामा-
नर्थक्यमित्याशङ्कां परिहरन्रीतिविशेषपरिमाणमुपसंहरति—भक्त इति । भक्तः
उपासकः । नित्यं यावज्जीवम् । इदं पूर्वोक्तविततिरुपक्रमविशिष्टत्वेन बुद्धिस्थम् ।
प्रीता प्रीतिविशेषयुक्ता सती । अभीष्टं उक्तपुण्यराशिजननपापराशिनाशनोभयरूपम् ।
अत्रेदं बोध्यम्—इदं विशेषाच्छ्रीदेव्या इति प्रीतिविशेषजनककर्मोपक्रमावसरे पाठे चत्वारि
विशेषणान्युल्लिखितानि—उपासककर्तृत्वं सम्पूर्णस्तोत्रकर्मकत्वं यावज्जीवं क्रियमाणत्वं
प्रातःस्नानादिप्रधानचतुष्टयसाहित्यं चेति । तान्येव चास्मिन्नुपसंहारश्लोकेऽपि पुनः
परामृष्टानि । उपक्रमोपसंहारयोरैकरूप्यादिमानि विशेषणानि विवक्षितान्येव । अविव-
क्षायां प्रमाणाभावात् । तत्र प्रथमेन विशेषणेन प्रायश्चित्तशास्त्राणां वैयर्थ्यं निरस्तम् ।
तेषामनुपासकेषु सावकाशत्वेन तत्परतयैव व्यवस्थोपपत्तेः । द्वितीयेन त्वेकैकनाममात्र-
पाठेनात्मानं कृतकृत्यंमन्यमाना निरस्ताः । एकैकनामपाठस्य पार्थक्येन प्रयोगस्य
निष्प्रमाणत्वेन तस्येदशमहाफलजनकत्वे मानाभावात् । न च 'नाम्नोऽप्येकस्य कीर्तना'-
दिति वचनमेव राजसूयान्तर्गतावेष्टेरिव पृथक्प्रयोगे मानाभावात् । न च 'नामैकमपि
यः पठेत्', 'नाम्नोऽप्येकस्य कीर्तनात्' इत्यादीनि प्रकरणस्थान्येव वचनानि पृथक्प्रयोगे
प्रमाणमिति वाच्यम् । उपक्रमोपसंहाराभ्यामेकवाक्यत्वे सिद्धे तन्मध्यपठितानामी-
दृशवचनानामवयवद्वारावयविन्येव तात्पर्यस्य जातेष्टिवाक्यमध्यपठिताष्टाकपालादिवाक्य-
न्यायेन सिद्धेः । यत्रैकस्यापि नाम्न एतावत्फलं, किमु वक्तव्यं तत्र सम्पूर्णस्तोत्रस्य ताव-
त्फलं भवतीति कैमुतिकन्यायेन स्तोत्रप्रशंसोपपत्तेः, अपिशब्दस्वारस्येन तथा प्रती-
तेश्च । यद्वा एकस्य नाम्न एतावत्फलमित्युक्तिरेतत्सहस्रगुणितस्य स्तोत्रफलत्वसिद्ध्यर्था
नतु पार्थक्येन फलवत्त्वसिद्ध्यर्थापि । उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गात् । अतएव 'एकं
वृणीत' इत्यादेः 'त्रीन्वृणीत' इत्येतदुपपादनार्थतायाः स्वीकारात् । एकाक्षरादिषोडशाक्ष-
रान्तनाम्नां तुल्यफलकलायोगाच्च । तथात्वे इतरवैयर्थ्यादिदोषाणां स्पष्टत्वात् । तृतीयेन
तु विशेषणेनानियमेन कतिपयदिवसपर्यन्तपाठादेव तादृशफललिप्सा निरस्ता । 'जन्म-
मध्ये सकृच्चापि य एवं पठते सुधी'रिति वचनस्याप्येकवाक्यमध्यपठितत्वेनापिशब्द-
स्वारस्याच्चोक्तरीत्या द्वयी गतिरूह्या । चतुर्थेन विशेषणेनाग्नेयादीनां षण्णां परस्परसा-

सौभाग्यभास्करव्याख्या । २०७
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ॥ २५२ ॥
नित्यं संकीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ।
संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ॥ २५३ ॥
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ।
हित्याभावे फलानुत्पत्तिवदिहापि तथेति सूचितम् । इयांस्तु विशेषः—आग्नेयादीनां
दर्शपूर्णमासवाक्येन सहितानामेकफलसाधनत्वावगमादन्यतमाभावेऽपि फलोत्पत्तिरेव न
भवति । इह तु सहस्रनामपाठाभावेऽप्यन्येभ्यः प्रधानेभ्यस्तत्तत्फलान्युत्पत्तुमर्हन्त्येव ।
नच प्रधानान्तरसाहित्याभावमात्रेण सहस्रनामपाठस्य नैष्फल्यं कथं सुवचमिति वाच्यम् ।
ईदृशप्रयोगजन्यफलविशेषस्य प्रमाणाभावादनुत्पत्तावपि नामस्मरणजन्यफलान्तराणां व-
चनान्तरादधिगतानां संभवेन नैष्फल्यायोगादिति दिक् ॥ २५१ ॥ इदानीमुपास्तिशरी-
रघटकत्वादप्येतदावश्यकमित्याहार्धेन—अकीर्तयन्निति । उपासकानामुपास्यदेवताप्री-
तिजननमपेक्ष्य पुरुषार्थान्तराभावात्तज्जनककर्मण्यनादरे कथं भक्तता । अपितु न कथं-
चिदपीत्यर्थः । अयं भावः—'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो
जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभेति' स्मृत्युक्तानां चतुर्विधानां भक्तानां मध्ये आर्तानां
पापनिवृत्त्यर्थं, जिज्ञासुभक्तानां निष्कामानामपि चित्तशुद्ध्यर्थं, अर्थार्थिभक्तानामर्थसि-
द्ध्यर्थं, ज्ञानिभक्तानां लोकसंग्रहार्थं, कीर्तनस्यावश्यकत्वादङ्गतावच्छेदकशरीरघटकं
नामकीर्तनम् । तदिदं 'महापातकिनां त्वार्ता'वित्याद्यधिकरणेषु भक्तिमीमांसाभाष्ये
स्पष्टमिति ॥ २५२ ॥ इदानीमुक्तविशेषणचतुष्टये तृतीयविशेषणाशक्तान्प्रति पक्षान्त-
रमनुकल्पमाह द्वाभ्याम्—नित्यमिति । पुण्यवासरे कपिलाषष्ठ्यर्धोदयादिदिवसे ।
वक्ष्यमाणसंक्रान्त्यादेरेव वा सामान्येन कीर्तनमिदम् । विषुवे मेषतुलाराश्योः सूर्यप्रवेश-
दिने । स्वजन्मत्रितये स्वस्य स्वभार्यायाः स्वपुत्रस्य च जन्मनक्षत्रेषु, स्वस्य जन्मकालीनं
नक्षत्रं तत्पूर्वपरनक्षत्रे द्वे इत्येवं त्रितये वा, स्वस्य जन्मनक्षत्रमारभ्य गणनायां
प्रथमदशमैकोनविंशनक्षत्रत्रयदिवसेषु वा, स्वजन्मदिवसदीक्षादिवसपूर्णाभिषेकदिनत्रये
वा । एवं व्याख्यावैचित्र्यस्थले यथासंप्रदायं व्यवस्था । 'तन्त्राणां बहुरूपत्वात्कर्तव्यं
गुरुसंमत'मिति वचनात् । अयने कर्कमकरयोः सूर्यप्रवेशदिने । संक्रान्त्यैव सिद्धे
विषुवायनयोर्ग्रहणं गोबलीवर्दन्यायेन पुण्यतरत्वद्योतनेनात्यावश्यकताद्योतनाय वा,
तत्तत्संक्रमणेभ्यः पूर्वे कतिपयैर्दिवसैस्तत्तदयनं ज्योतिःशास्त्रे प्रसिद्धं तदेव वेहायनप-
देन विवक्षितम् ॥ २५३ ॥ नवम्यां वेति वाकारोऽष्टमीसंग्रहार्थः । सितायामिति
नवम्यादिषु तिसृष्वन्वेति । चतुर्दश्यामेव वा शुक्लपक्षीयायामित्यर्थः । अत्र चकारा-
द्यावज्जीवं प्रत्यहं कीर्तनाशक्तस्यैतेषु दिवसेषु समुच्चित्य कीर्तनम् । अत्राप्यशक्तश्चे-
दन्यतमं दिवसं परित्यजेदिति द्योतनाय वाकारः । अन्यतमस्य परित्यागपक्षेऽपि

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ॥ २५४ ॥
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ।
पौर्णमासी न परित्याज्येति द्योतयन्नाह—विशेषत इति । यदि च नवम्यादितिथिषु
जन्मनक्षत्रं संक्रान्तिः शुक्रवारश्च भवति तदा तन्त्रेण सकृदेव नामसाहस्रपाठ इत्या-
दिकं न्यायविद्भिरूहनीयम् ॥ २५४ ॥ इयता प्रबन्धेन रहस्यतमत्वं ललिताप्रीति-
करत्वं चेति विशेषणद्वयं विविच्य इतोऽपि विस्तरेण तदेव विशेषणद्वयं विवेचयितुका-
मस्तयोः प्रथमस्य शरीरघटकेषु फलेषु रोगप्रशमनादेः प्रथमं निर्दिष्टत्वाद्रोगशम-
नादिचतुष्टयफलं काम्यं प्रयोगं प्रथममाह द्वाभ्याम्—पौर्णमास्यामिति । पौर्ण-
मासीशब्दः शुक्लपक्षस्य चरमरात्रिपरः । 'दर्शादृष्टे'त्यनुवाके तादृशरात्रिमात्रत्वेन परि-
गणनात् । तेनास्मिन्प्रयोगे रात्रिव्यापिनी तिथिर्ग्राह्येति सिध्यति । 'कर्मणो यस्य
यः कालस्तत्कालव्यापिनी तिथि'रिति वचनात् 'यां तिथिं समनुप्राप्य उदयं याति
भास्करः । सा तिथिः सकला ज्ञेया स्नानदानव्रतादिष्वि'ति वचनस्य मुहूर्तमात्र-
सत्त्वेऽपि 'दिने गौरीव्रतं पर' इत्यादि विध्यन्तरशेषत्वेन प्रकृते तदनुपयोगात् उभय-
त्रैकदेशव्याप्तौ परा । वस्तुतस्तु तत्तत्तिथिनित्यामन्त्रजपार्चादौ तान्त्रिकैरुदयकालव्या-
पिन्येव तिथिर्गृह्यते । वचनमपि लिख्यते 'तिथिरौदयिकी ग्राह्या तिथिनित्यार्चना-
दिष्वि'ति । तेन यत्र

सौभाग्यभास्करव्याख्या । २०९
पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥ २५५ ॥
सम्यक्त्वेन स्वात्मदेवतयोरैक्यं विभाव्यम् । एतदेव ह्युपचारान्प्रति प्रधानं 'अश्वमेध-
सहस्राणि वाजपेयशतानि च । ललितापूजनस्यैते लक्षांशेनापि नो समाः । स दाता
स मुनिर्यष्टा स तपस्वी स तीर्थगः । यः सदा पूजयेद्देवीं गन्धपुष्पानुलेपनै'रिति
पद्मपुराणीये विधिवाक्ये पूजायाः फलसंयोगदर्शनात् । उपचाराणां तु फलवदफ-
लन्यायेन तदङ्गत्वम् । अतएव 'गन्धपुष्पानुलेपनै'रिति 'पञ्चोपचारै'रिति च तृतीया ।
यानि च पाद्म एव 'गन्धानुलेपनं कृत्वा ज्योतिष्टोमफलं लभे'दित्यादीनि तत्तदुपचारेषु
फलश्रवणानि तानि तु पर्णतान्यान्येवार्थवादः । यानि तु 'चन्दनागरुकर्पूरैः सूक्ष्मपिष्टैः
सकुङ्कुमैः ।

२१० ललितासहस्रनाम ।
सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ।
अयमायुष्करो नाम प्रयोगः कल्पनोदितः ॥ २५६ ॥
इष्टं विशिनष्टि—सर्वे रोगा इति । नश्यतिरिह ध्वंसप्रागभावादिसाधारणाभाव-
मात्रपरः । दीर्घायुष्यं अपमृत्युकालमृत्युद्वयाभावौ । चकारात्संपदां ग्रहणम् । तेन
रोगसामान्याभावविशिष्टसंपन्नचिरतरजीवित्वं भाव्यं सिध्यति । तेन रोगिण इव
नीरोगस्यापि रोगप्रागभावपरिपालनोद्देशेनास्मिन्प्रयोगेऽधिकारः सिद्धः । संकल्पव्य-
वहारादावुपयोगित्वेन नामधेयं दर्शयति—अयमायुष्कर इति । करोतीति करः
पचाद्यच् । आयुषः कर आयुष्करः । कस्कादेराकृतिगणत्वाद्विसर्गस्य षत्वम् । नामेत्यव्ययं
संज्ञाकृतप्रसिद्ध्यर्थकम् । कल्पनोदितः कल्पे कल्पसूत्रे परशुरामकृते नोदितः सूचितः ।
कल्पसूत्राणां सर्वेषामितस्ततो विप्रकीर्णपरशाखापठिताङ्गजातोपसंहारेण प्रयोगविधि-
कल्पनार्थत्वात्तत्र नित्यार्चादिकतिपयप्रयोगकथनेनेतरे प्रयोगास्तत्रानुक्ता अपि सूचिता
एवेत्यर्थः । यद्वा कल्पसूत्रतुल्येषु तन्त्रेषु नोदितः कण्ठरवेणोक्तः । अथवा कल्पनेन
भाव्यकरणयोः कार्यकारणभावकल्पनेन उदितः समर्थितः । यद्वा कल्पेऽपि प्रलयका-
लेऽपि नोदितो विहितः । प्रलयाव्यवहितपूर्वकालीनैः साधकैरूत्तरत्र संघातमरणनि-
श्चयेऽपि दीर्घायुःकामनया कृतोऽयं प्रयोगः प्रलयकालेऽपि तान्रक्षतीत्यर्थः । अथवा
अयमायुष्कर इत्याकारको नाम्नां प्रयोगः प्रयुज्यमानता । व्यवहार इति यावत् ।
कल्पनयावयवशक्ति कल्पनया योगरूढिकल्पनया वोदित उक्तः । तेन न्यायतौल्यादु-
त्तरेऽपि प्रयोगा ज्वरहरादिनामका ऊह्याः । तत्फलं तु संकल्पादावुपयोग इति सिद्ध्यति ।
॥ ॥ अथास्य स्पष्टतरः प्रयोगविधिरुच्यते-चन्द्रतारादिबलविशिष्टे उदयव्यापिपौर्णमासी-
तिथिवह्न्येव यथाधिकारं वैदिकं तान्त्रिकं च नैत्यकं कर्म समाप्योपोषितः सायाह्ने
पुनः स्नात्वा सायसंध्यां वैदिकीं तान्त्रिकीं च नित्यपारायणान्तां निर्वर्त्य सम्यगुदिते
पूर्णचन्द्रे शुचौ देशे समन्त्रकमासनं प्रसार्य पूर्वाभिमुखस्तस्मिन्नुपविश्याचम्य मूलेन
प्राणानायम्य देशकालौ संकीर्त्य ममान्यस्य वामुकशर्मणोऽमुकगोत्रस्य नीरोगत्वसं-
पत्तिदीर्घायुःसिद्ध्यर्थे श्रीललितासहस्रनामस्तोत्ररूपमालामन्त्रस्य सकृत्पठनेनायुष्करं प्रयो-
गमहं करिष्य इति संकल्प्य चन्द्रमण्डलं पश्यन्नुन्मीलितलोचन एव तन्मध्ये साङ्गां
सावरणां सतिथिनित्यां सगुरुपङ्क्तिं त्रिपुरसुन्दरीमवयवशो ध्यात्वा स्वाभिन्नां विभाव्य
सः ‘श्रीललिताम्बिकायै नमः गन्धान्समर्पयामी’त्येवंरूपैर्मन्त्रैः प्रत्यक्षान्गन्धपुष्पधूपदी-
पनैवेद्योपचारान्नप्रकृतित्वत्सलक्षणान्निवेद्यानुक्तमपि ताम्बूलं संप्रदायवशान्निवेद्य चन्द्र-
मण्डले देवीं पश्यन्नेव प्राथमिकान्यष्टात्रिंशच्छ्लोकान्पठित्वा ऋष्यादिन्यासत्रयं विधाय
ध्यानश्लोकं पठित्वा यथाधिकारं प्रणवमुच्चार्य सुव्यक्ताक्षरमर्थानुसंधानपुरःसरमत्वर-
न्सहस्रनाममन्त्रं श्रीमातेत्यादि ललिताम्बिकेत्यन्तं पठित्वान्ते पुनः प्रणवमुच्चार्यर्ष्यादि-
न्यासत्रयं कुलोत्तरभागं तथैव पठित्वा जपं देवीवामहस्ते जलक्षेपपुरःसरं गुह्येति

सौभाग्यभास्करव्याख्या । २११
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ।
तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ॥ २५७ ॥
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ।
तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ॥ २५८ ॥
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ।
अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात् ॥ २५९ ॥
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ।
यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ॥ २६० ॥
यथाल्ङ्गिँ समर्प्य देवीं स्वात्मत्वेन परिणमय्य चन्द्रबिम्बाद्वृष्टिमवतार्याचम्योत्थाय
सामायिकान्संतर्प्यायमायुष्करः प्रयोगः साङ्गो भवतु तेन च त्रिपुरसुन्दरी प्रीयतामिति
तदाशिषो गृहीत्वा स्वयमपि भुञ्जीतेति । नित्यकर्माणि कुर्वतामेव नैमित्तिकेष्वधिकारः ।
उभयानि कुर्वतामेवेदशेषु काम्येष्वधिकार इति तु तन्त्रान्तरसिद्धोऽर्थो न विस्मर्तव्यः ।
अस्य कर्मण आवृत्तिरपि क्रियमाणा न दुष्यतीति तूक्तमेव प्राक् ॥ २५६ ॥ एवं
सर्वरोगप्रशमनमिति विशेषणचतुष्टयं विविच्य क्रमप्राप्तं सर्वज्वरार्तिशमनं प्रयोगं
विवेचयति—ज्वरेणार्तं पीडितं स्पृष्ट्वा हस्तं ददानएव तत्क्षणात्सद्यः शिरसस्तोदो
व्यथा । ज्वरप्रयुक्तपीडामात्रोपलक्षणमिदम् । प्रयोगविधिस्तु—ज्वराद्यनिमित्तोद्भवदिवसे
कृताह्निकः शुचौ देशे इत्यादिसंकल्पान्तं कुर्यात् । संकल्पे यथालिङ्गमूहः । ज्वरहरं
प्रयोगमिति नामोल्लेखः । ततः स्वदक्षिणभागे उदङ्मुखं ज्वरार्तं निवेश्य भस्मना मन्त्रेण वा
ज्ञापयित्वा पूर्वभागं पठित्वा ज्वरार्तस्य शिरसि हस्तं दत्त्वा तं तथैव स्पृशन्नेव मध्यभागं
पठित्वा हस्तं निष्कास्योत्तरभागं पठित्वा ब्राह्मणभोजनादिकं कुर्यात् । स्वार्थप्रयोगे तु स्वशि-
रस्येव हस्तदानम् । यावत्फलोदयमावृत्तिरपि संप्रदायसिद्धा, 'आवृत्तिरसकृदुपदेशात्'
इत्यधिकरणन्यायसिद्धा च । आवृत्तिपक्षे प्रथमभागं पठित्वा मध्यभागमेव यथासंक-
ल्पमावर्त्य चरमभागं पठेद्दिति विशेषः । एवमुत्तरत्र प्रयोगविधिरूह्यः ॥ २५७ ॥ ज्वरा-
दिसाधारण्येन रोगमात्रहरं प्रयोगान्तरमाह—सर्वेति । सर्वे च ते व्याधयश्च, सर्वेषां
व्याधय इति वा । स्पृष्ट्वा स्पृशन्नेव । इदं नामसहस्रं तस्य मन्त्रितस्य भस्मनो धारणादेव
उद्धूलनमात्रात् ॥ २५८ ॥ अथ क्रमप्राप्ते दीर्घायुष्यप्रदायकमित्यत्रोक्ते ग्रहविषबा-
धानाशने उद्दिश्य द्वौ प्रयोगावाह द्वाभ्याम् । संमन्त्रय कुम्भमुखे हस्तं क्षिपन्नेव स्तोत्रं
पठित्वा । मुने अगस्त्य । अभिषिञ्चेत्स्नापयेत् । मन्त्रितैनैव जलेनति शेषः । ग्रहाः
बालग्रहाद्याः पिशाचा दुष्टस्थानीया नवग्रहाश्च तैर्ग्रस्तान् । पीडया मुमूर्षुकृतान् ॥ २५९॥
श्रीपुरं यत्रयत्रास्ति तत्रतत्रैकः सुधाह्रदोऽस्ति । सगुणब्रह्मोपासकप्राप्यायामपरा-
जिताह्वयनगर्यामरण्याह्वयौ द्वौ सुधाह्रदौ स्तः । ब्रह्मरन्ध्रेऽप्येकोऽस्ति । तेषां मध्ये
विद्यमानत्वेन यथाधिकारं ध्यात्वा ध्यायन्मनसाम्यर्च्येति शेषः । विषं स्थावरजं-

' and 'प्रतीतेः':
धि-का-रा-भा-वा-प्र-ती-तेः -> wait, is it 'भा' then 'व'?
Look at "कुतुकिनोऽधिकाराभावप्रतीत्या":
कुतुकिनोऽधिकाराभावप्रतीत्या - wait, look at 'भाव': भा then व.
In the next word:
अकुतुकिनोऽधिकाराभावाप्रतीतेः -> look at the letter between 'भा' and 'प्र':
Is it 'वा' or 'व'? It's 'व'! Just 'व'!
Wait, look at the top: is there an aa-matra? No, it's just 'व'!
Wait, so is it "अकुतुकिनोऽधिकाराभावप्रतीतेः"?
Wait, why would it be अभाव?
If कुतुकी doesn't have अधिकार (कुतुकिनोऽधिकाराभाव), then अकुतुकी DOES have अधिकार, so अकुतुकिनोऽधिकारप्रतीतेः!
Let's look at the letters:
Does it say: "अकुतुकिनोऽधिकारप्रतीतेः" or "अकुतुकिनोऽधिकाराभावप्रतीतेः"?
Look closely at:
अ कु तु कि नो ऽ धि का रा [?] प्र ती तेः
Wait! Between 'रा' and 'प्रतीतेः':
There is: 'भा' and 'व'?
Wait, look at that character!

सौभाग्यभास्करव्याख्या । २१३
राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ॥ २६३ ॥
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ।
स राजा पारवश्येन तुरंगं वा मतङ्गजम् ॥ २६४ ॥
आरुह्य याति निकटं दासवतप्रणिपत्य च ।
तस्मै राज्यं च कोशं च दद्यादेव वशंगतः ॥ २६५ ॥
निमित्तेन दुःसाध्यतायामेतद्विधिसार्थक्यात् । अस्तिहि हनुगुण्ठपीठमाहात्म्ये इति-
हासः—नारायणाख्यस्य मुनेः चन्द्रवदनाख्या भार्या शक्रात्मजेन सेतुराजेनापहृता मु-
निना देवीमाराध्यैव पुनरानीतेति । अथवा परकायाकर्षणस्य धर्माविरोधेनैव फलान्तरं
कल्प्यम् । अस्तु वा संभोगार्थमेवाकर्षणम् । तथापि तस्य भावनायां भाव्यत्वेनैवा-
न्वयान्न विधेयत्वम् । तदुक्तं तन्त्रवार्तिके ‘फलांशे भावनायाश्च प्रत्ययो न विधायकः ।
वक्ष्यते जैमिनिश्चात्र तस्य नित्यार्थलक्षणे’ति । विहितलाभावाच्च न परकीयाभिलाषस्य
धर्मत्वम् । तत्करणीभूते प्रकृतिप्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु ‘सर्वा-
सामैव योषाणां कौलिकः प्रथमः पति’रित्यादीनि श्यामारहस्यकारैर्लिखितानि वच-
नानि तदर्थनिष्कर्षरीत्या तु धर्मत्वं गुरुमुखादेवावगन्तव्यम् ॥ अत्र त्रिवर्गे मध्यमस्य
कामानन्तरमुपस्थितत्वात्तत्फलेकेषु भूरिषु प्रयोगेषु राजाकर्षणमाह सार्धद्वयेन—राजेति ।
चेदित्यनेनाकर्षणकामनायां सत्यां तदुद्देशेन प्रयोगकरण एवेदं फलं सिध्यति । उत्तरत्र
वक्ष्यमाणानि तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सत्यकामस्यापि
सिध्यन्तीति सूचितम् । राज्ञ आवसथो गृहं खासनस्थलाद्यस्यां दिशि वर्तते तदभिमुख
इत्यर्थः । सामान्यविधानात्प्रागुदङ्मुखतयोः प्राप्तयोरयमपवादः ॥ २६३ ॥ त्रिरात्र-
मित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमाशौचमित्यादौ तथा
दर्शनात् । तेन नित्यकर्मापि संकोच्य लौकिकमप्यावश्यकमात्रमेव कृत्वाऽनवरतमिदं
चतुर्विंशतिप्रहरपर्यन्तं पठेद्रिति सिध्यति । अतएवावृत्तिसंख्याया नियमः । श्रीदेवी-
ध्याने राजानं पाशेन बध्वाङ्कुशेनाकर्षन्त्याः पूर्वोपस्थिताया देव्या ध्याने तत्पर
आसक्तः । नचैवं पूर्वप्रयोगेण गतार्थता । तत्रैका यामचतुष्टयात्मिका रात्रिरेव कालः
प्राङ्मुखोदङ्मुखतयोर्नियमश्च वैकल्पिकः । अत्र तु त्रयोऽहोरात्राः कालः राजगृहदि-
ङ्मुखत्वनियमश्चेति विशेषता । वस्तुतस्तु कालत एवानयोर्वैलक्षण्यम् । आकृष्यमाण-
दिङ्मुखत्वस्याकर्षणमात्रे आवश्यकतायास्तन्त्रान्तरसिद्धत्वात् । तथाच वामकेश्वरतन्त्रे
‘तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः । बध्वा तु क्षोभिणीमुद्रां विद्यामष्टशतं जपे’-
दित्यारभ्य ‘भ्रमन्तीं भावयेन्नारीं योजनानां शतैरपि’ इत्यन्तम् । नित्यातन्त्रेऽपि कुरु-
कुल्लापटले ‘विद्यां त्रयोदशार्णां तु तद्दिग्वक्त्रस्त्रिभिर्दिनैः । स्त्रियमाकर्षये’दित्यादि । ज्ञाना-
र्णवेपि ‘तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपक’ इत्यादि । एवं दक्षिणामूर्तिसंहि-
तादिकमुदाहार्यम् । यो येन मनसोद्दिष्टः स एव राजेत्यर्थः । चोरवदेकाकी नायातीति

रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ।
तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥ २६६ ॥
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ।
तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥ २६७ ॥
यो वाभिचारं कुरुते नामसाहस्रपाठके ।
निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ २६८ ॥
ये क्रूरदृष्ट्या वीक्ष्यन्ते नामसाहस्रपाठकम् ।
तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ॥ २६९ ॥
धनं यो हरते चोरैर्नामसाहस्रजापिनः ।
यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ॥ २७० ॥
द्योतनाय तुरङ्गं वेत्यादि । तस्मै प्रयोक्त्रे वशंगतः तदाज्ञापरवशः सन् ॥ २६४ ॥ २६५ ॥
अथाकर्षणेन वशीकरणादिषट्कर्मणामुपस्थितत्वात्तत्प्रयोगाना

द्य?
No, it's a single letter with ु! It's नु!
Wait, could it be नृत्यान्तरानुगुण्याय? Yes, नृत्यान्तरानुगुण्याय!

  • णगुणनिकापूर्वावलोकनपाठनादिकमनपेक्ष्यैव सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति ।
  • अध्ययनं त्वपेक्षितमेव । विद्याप्राप्तौ गुरोरेवासाधारणकारणत्वादिति भावः ॥ २७४ ॥
    Wait, in line 29: "अध्ययनं त्वपेक्षितमेव ।"
    Look at the image: अध्ययनं त्वपेक्षितमेव?
    Wait, look at line 29, the second word:
    अध्ययनं then त्वपेक्षितमेव?
    Look at the characters:
    अ ध्य य नं then त्व?
    Wait, the letter is ल?
    Look at line 29: अध्ययनं लपेक्षितमेव or त्वपेक्षितमेव?
    Wait! It looks like त्वपेक्षितमेव: त् + व = त्व.
    Wait, does it have a loop? No, look at त्व: in यस्त्वेकवारं (line 9):
    Look at `स्त

यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ।
तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ २७६ ॥
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥ २७७ ॥
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥ २७८ ॥
त्रिरावृत्तेः । अतन्द्रितो निद्राप्रमीलादिरहितः । इदं च सर्वत्राप्यावश्यकमप्यस्मिन्प्रयो-
गेऽप्यावश्यकमिति द्योतनायोक्तं, तेन च निशीथेऽयं प्रयोग इत्यपि सूचितम् । तस्य
तत्कर्तृकात्तत्कर्मकाद्वा अत्र मात्रपदाभावेन संकल्पे स्त्रीणां वशीकरणार्थमित्युल्लेखः
कार्य इति ध्वन्यते ॥ २७५ ॥ एवमर्थकामानुक्त्वा धर्मप्रदान्प्रयोगान्बहुभिः प्रकारै-
र्वक्तुमुपक्रममाणः प्रथमप्रयत्नसाध्यं धर्ममाह—य इति । जन्ममध्य इत्यनेन याव-
ज्जीवषण्मासैकमासैकपक्षाणां पक्षाणामपवादः । एकवारमित्यस्यैवानुवृत्त्या सिद्धावपि
मण्डूकप्लुत्या त्रिवारपदानुवृत्तिशङ्का मा प्रसाङ्क्षीदिति सकृदित्यनेन प्रतिप्रसवः । तद्दृष्टि-
गोचराः तत्कर्तृकचाक्षुषप्रत्यक्षविषयाः सर्वे प्राणिन इति शेषः ॥ २७६ ॥ अथ दान-
क्रियासंप्रदानकारकनिष्ठपात्रताशरीरघटकत्वेन धर्मप्रदलमाह चतुर्भिः—य इति ।
देयमित्यत्र ललितोपासकेनेति शेषः । श्रीदेवीप्रीतिमिच्छतेत्युत्तरग्रन्थानुसारत् । तेना-
नुपासकेनान्येभ्योऽपि देयं संप्रदानत्वाविशेषादिति सिध्यति । 'प्रवृत्ते शाम्भवीचक्रे
सर्वे वर्णा द्विजातय'इति कुलार्णववचनेन ब्राह्मणधर्मातिदेशो न श्रुतिस्मृतिप्राप्तसं-
प्रदानत्वविषयः, अपितु यागसमयेऽस्पृश्यतादिधर्ममात्रपर इत्याशयेनाह—द्विजन्मन
इति । ब्राह्मणायेत्यर्थः । अन्नमित्यादिदेयमात्रोपलक्षणम् । अन्येभ्यः सहस्रनामख-
नादरशीलेभ्य उपासकाभासब्राह्मणेभ्यः कदाचन श्रुतिस्मृतिविहितार्त्विज्यश्राद्धादिका-
लेऽपि न दद्यादित्यर्थः । तत्राप्युपास्तिपरा एवावश्यका इत्याशयः ॥ २७७ ॥ मन्त्र-
राजं श्रीविद्याम् । अत्र त्रयाणां समुच्चये सत्पात्रतां, अन्यतमाभावे तारतम्यं, त्रया-
णामप्यभावे पात्रत्वाभावश्चेति न्यायत एव सिद्ध्यति । तदयं निष्कर्षः—संप्रदानता-
वच्छेदकानामेषां त्रयाणां विशेषणानां मध्ये एकैकविशेषणकास्त्रयो द्विविशेषणका
अपि त्रयस्त्रिविशेषणक एकस्त्रयाभाववानन्य इत्यष्टविधा ब्राह्मणाः प्रस्ताररीत्या भासन्ते
यद्यपि तथापि चक्रराजार्चकत्वस्य मन्त्रराजवेत्तृत्वव्याप्यत्वेन तन्मन्त्रविशेषणको न संभा-
व्यते । अतएव च मन्त्रेतरविशेषणद्वयमात्रकोऽपि खपुष्पमेव । तेन षाड्विध्यमेव
ब्राह्मणानाम् । तेषु त्रिगुणक, उत्तमः, द्विगुणकौ मध्यमौ । तयोरपि मध्ये मन्त्रवेत्तृत्व-
चक्रार्चकत्वरूपगुणद्वयशालीनमपेक्ष्य मन्त्रवेत्तृत्वनामकीर्तनरूपगुणद्वयशाली श्रेष्ठः, एक-
गुणकौ कनिष्ठौ । तयोरपि मध्ये मन्त्रवेदनमात्रगुणको वरीयान् । नामकीर्तनमात्र-
गुणकः कनिष्ठतरः । मन्त्रराहित्ये नामकीर्तनेऽधिकाराभावेनानधिकारिनिष्ठस्य गुणस्यापि
शूद्राधीतवेदवाक्यन्यायेनाप्रयोजकत्वात् । अभावत्रयवांस्तु नैव पात्रमिति विवेकः

"?
Wait, what if it's "ललिताचक्रार्चन"?
Wait, look at:
Is it "ललिताचर्चना"? No.
Let's look at the letters:
Letter 1: च
Letter 2: ै
Letter 3: र्च
Letter 4: ना
Wait, could it be "ललिताचैर्चनाम"?
Wait, what if it is "ललिताचर्चनाम" with broken type?
Wait, let's search Google / Sanskrit texts for the exact phrase:
"तच्च ललिताच"
In Saubhagyabhaskara:
"विद्याविषये विद्वत्त्वं नाम याथातथ्येनोपास्तिशालित्वम् । तच्च ललिताचर्चनानामकीर्तनसाहित्ये..." or "ललितार्चननामकीर्तनसाहित्ये"?
Wait, in Sanskrit:
Lalita worship = ललितार्चन (Lalitārcana).
Why would it be "ललिताच..."?
Wait! Could it be "ललिताया अर्चन"? No, compound is ललितार्चन.
Wait, what if it's "ललिताचक्रार्चन"?
Wait! Is it "ललिताचक्रार्चन"?
Look at the text in line 20-21:
"विद्यावत्त्वेऽपि चक्रार्चननामकीर्तनयोरधिकारसत्त्वेऽप्यकरणाद्विद्यमानाप्य

२१८ ललितासहस्रनाम ।
देवता ललितातुल्या यथा नास्ति घटोद्भव ॥ २८१ ॥
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ।
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २८२ ॥
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ॥ २८३ ॥
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते ।
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥ २८४ ॥
न्तरविरहद्वारात्युत्तमत्वं ध्वनयंस्तेषां सत्पात्रतावच्छेदकतायां कथन्ताशङ्कामपाकरोति
सार्धेन । अत्र यथातथेत्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ॥ २८१ ॥ इदानीमनुपासक-
स्याप्येतत्स्तोत्रं धर्मप्रदमित्याह । यस्तु यः कश्चिदपि उपासकोऽनुपासको वेत्यर्थः । अनुपा-
सकस्य नामकीर्तनेऽधिकाराभावेऽपि तत्पुस्तकार्चनेऽधिकारस्य निराबाधत्वात् ॥ २८२ ॥
सदा यावज्जीवं तस्य अनुपासकस्यापि किमुतोपासकस्येति भावः । यद्यप्यनेनैव न्यायेन
पुस्तकार्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन एव तात्पर्यम् ।
तस्मात्कीर्तयेदित्युत्तरोपसंहारो युज्यत इति सुवचं, तथापि 'स्वाध्यायोऽध्येतव्य'इति
वचनेऽध्ययनपदस्य गुरुमुखोच्चारणानूच्चारणे शक्तत्वेऽपि तत्करणकार्थज्ञानभाव्यकभावना-
विधानपरत्ववदिहापि नामानि कीर्तयेदिति विधेरप्यर्थज्ञानपर्यन्तता निर्विवादा । तेन
'अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः । सोऽपि श्रीललितालोके कल्पकोटीर्वसेन्नर'
इति देवीपुराणे, 'अनधीतमविज्ञातं निगदेनैव पद्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति
कर्हिचि'दिति स्मृत्यन्तरेषु च वचनान्यर्थज्ञानाज्ञानयोः प्रशंसानिन्दापराणि संगच्छन्ते ।
अर्थज्ञानान्तसामर्थ्याभावे तु निगदमात्रपरापि सा भावना भवितुमर्हति । 'आख्याता-
नामर्थं ब्रुवतां शक्तिः सहकारिणी'ति न्यायात् । अतएव 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते
नाकमिति ज्ञानविधूतपाप्मे'ति श्रुतावर्थज्ञानप्राप्यफले सकललविशेषणेन शब्दज्ञानमात्रेण
किंचिद्विकलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेन शब्दपाठेऽप्यसमर्थस्य पुस्तक-
संग्रहमात्रमपि न्यायलभ्यम् । उच्चारणस्य जन्मान्तरे अर्थज्ञानप्रदत्ववत्पुस्तकसंग्रहस्या-
प्युच्चारणप्रदत्वं जन्मान्तरे संभवतीति सुवचम् । अतएव तन्त्रराजादिष्वसंप्रदायेनाङ्ग-
हीनापि कृतोपासना जन्मान्तरे साङ्गसंप्रदायशुद्ध्यै कल्पत इत्युक्तम् । तेन पुस्तकार्चन-
मात्रमपि धर्म एव । सचानुपासकस्याप्यनिषिद्धत्वाज्जन्मान्तरे उपासनाप्राप्त्यर्थं कर्तव्य
एव । उपासकस्य तु नामपाठेऽप्यसमर्थस्य नाम पठेदिति विधेर्यावच्छक्तिपरिपालनाया-
वश्यकतम एव । नच 'कुलपुस्तकानि गोपये'दिति कल्पसूत्रोक्तविधिविरोधादनुपासकस्य
कथं पुस्तकार्चनेऽधिकार इति वाच्यम् । तस्यार्थज्ञानविदूषकदुर्जनपरत्वेन भाविकोपास-
नेच्छुसज्जनपरत्वाभावात् । तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नामपाठ-
शक्तानां पुस्तकार्चनमात्रं नावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदर्थज्ञानो-

सौभाग्यभास्करव्याख्या । २१९
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ।
पद्मैर्वा तुलसीपुष्पैः कह्लारैर्वा कदम्बकैः ॥ २८५ ॥
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ।
उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥ २८६ ॥
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ।
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥ २८७ ॥
पायभूतभाष्याध्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते । 'अम्ब त्वत्पदयोः
समर्पितमिदं भाष्यं त्वया कारितं लन्नामार्थविकासकं तव मुदे भूयादथ त्वां भजन् । यो
नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा संग्रहं न करोति तस्य ललितोपास्तिर्वृथा
जायता'मिति । एवमनुपासकानामपि रक्षकम्, उपासकान्त्रक्षेद्दिति किमु वक्तव्यमित्याशयेन
मध्य एव निगमयति सार्धेन ॥ २८३ ॥ २८४ ॥ अथात्युत्कृष्टधर्मप्रदं पूर्वोक्तराशिश्र-
द्धादिक्रमेण बुद्ध्याप्यपरिच्छेद्यफलं योगमाह चतुर्भिः—एभिरिति । नामसाहस्रैरिति
बहुवचनं नाम्नां प्रत्येकं करणत्वद्योतनाय । लक्षपूजादौ पुनःपुनरावृत्तिद्योतनार्थं च ।
नामानि प्रातिपदिकानि सहस्रं येषु श्रीमात्रेनम इत्यादिललिताम्बिकायैनम इत्यन्तेषु
चतुर्थीनमोन्तमन्त्रेषु तैर्नामसाहस्रैरिति वा । संप्रदायाच्च पुष्पप्रक्षेपावृत्तिः । तेन 'चतुरु-
ल्ख्यणुभिर्वक्रं' 'चतुर्भिरभ्रिमादत्त' इत्यादाविव समुच्चयो माभूत् । अत्र पद्मकह्लारोत्प-
लानां परस्परवैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुल्लमञ्जरीभिः नतु
तत्पत्रैः । सुन्दरीविषये तुलसीनिषेधस्यैतद्दलादेव पत्रपरत्वौचित्यात् । अतएव स्पष्टमुक्तं
नीलातन्त्रे 'नानोपहारबलिभिर्नानापुष्पैर्मनोरमैः । अपामार्गदलैर्भृङ्गैरतुलसीदलवर्जितैः ।
पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तय'इति । यत्तु तत्रैव 'देवीपूजा सदा शस्ता
जलजैः स्थलजैरपि । विहितैश्च निषिद्धैर्वा भक्तियुक्तेन चेतसे'ति । तत्र निषिद्धस्वीकारो
भक्त्यावश्यकत्वद्योतनाय । 'पुष्पाणामप्यलाभे तु तत्पत्रैरर्चयेच्छिवा'मिति कालीपुराण-
वचनं नित्यकर्मपरम् । काम्ये कर्मणि प्रतिनिध्यभावस्य षष्ठाधिकरणसिद्धत्वात् ।
सुन्दरीविषये तुलसीनिषेधस्यैतद्दलादेव पत्रपरत्वौचित्यात्पत्रान्तरपरं च । पद्मादिषु तु
सुसदृशत्वात् पूरणायकह्लारादीनां ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य तत्पूरणार्थमु-
पादानस्य लिङ्गपुराणे कथनाल्लिङ्गात् । कदम्बकैः अविशेषाद्विविधैरपि ॥ २८५ ॥ जाति-
कुसुमैरित्यत्र 'ङ्यापोः संज्ञाछन्दसोर्बहुलं'मिति ह्रस्वः । जाती मालती । मल्लिका विच-
किलं । करवीरं हयमारः । कुन्दं माघ्यं । केसरं काश्मीरं । पाटलं श्वेतरक्तं तिलपुष्पस-
दृशम् ॥ २८६ ॥ सुगन्धिपदमहिफेनाहिदुर्गन्धुकुसुमानामेव निरासाय । निर्गन्धानांमपि
जपादीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुसुरभिभ्य'इति समासान्तम् ।
माधवी वासन्ती । मुखपदेन पुंनागबकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्यमा-
दित्यपुराणकालिकापुराणयोर्द्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेषः 'पुष्पं वा यदि वा पत्रं

२२० ललितासहस्रनाम ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ।
अन्ये कथं विजानीयुर्ब्रह्माद्याः खल्पमेधसः ॥ २८८ ॥
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ।
रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ॥ २८९ ॥
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ।
फलं नेष्टमधोमुखम् । दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पयेत् । अधोमुखार्पणं नेष्टं
पुष्पाञ्जलिविधिं विना । लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् । समुदायेन चेत्पूजा
लक्षपुष्पार्पणं न तदि'ति । अत्र हिः द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकाद-
शप्रयाजान्यजती'त्यत्र संहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् ।
ततश्च सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाध्व्यादीनां च द्वन्द्ववशाच्च
समुच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वश्लोकयोर्वाकारः । सोऽपि च प्रतिपु-
ष्पमन्वयितव्य इति ध्वनयितुं द्विर्द्विः प्रयुक्तः । तथाच निरपेक्षकरणताबोधकतृतीया-
विभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु चतुर्थः तस्याप्य-
सर्वज्ञत्वादुक्तमसमर्थ्यं पूर्वोक्तराशिशङ्खादिगुणनोपायेन मनुष्याणां ज्ञातुं वक्तुं च साम-
र्ध्याभावः कैमुतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः ॥ २८७ ॥ अतएव
सर्वज्ञैकपरिच्छेद्यमित्याह—सेति । ब्रह्मादीनामज्ञातृत्वे परिकरालंकारेण हेतुगर्भं
विशेषणम् । खल्पमेधस इति खल्पा मेधा धारणात्मिका बुद्धिर्येषां ते । 'नित्यमसिच्
प्रजामेधयो'रिति समासान्तः । ननु राशिशङ्खवेद्यफलं कठिनतरं प्रयोगमपेक्ष्यास्य
पुष्पार्पणप्रयोगस्य सुलभत्वेन ततोऽप्यनवधिकफलकत्वे कठिनतरप्रयोगे कस्यापि प्रवृत्त्ययो-
गादनुष्ठानलक्षणमप्रामाण्यं प्रसज्येतेति चेत् भ्रान्तोऽसि । कठिनतरप्रयोगस्यानिशानित्या-
दिपदघटितविधिबोध्यत्वेनाकरणे प्रत्यवायबोधनेन नित्यत्वात् । नित्याकरणे आयुष्यकरा-
दिपुष्पार्पणादिकाम्यप्रयोगेष्वधिकाराभावस्योक्तत्वात् । नित्यस्यापि वचनबलात्काम्यत्वं
त्वग्निहोत्रादिन्यायेन न विरुद्धमिति न प्रवृत्तिपराहतता । अथ प्रयोगविधौ विशेषः ।
चक्रार्चनारम्भ एवापरिमितपुण्यप्राप्त्यर्थममुककुसुमैर्देवीं पूजयिष्यामीति संकल्प्य प्रसन्न-
पूजोत्तरं पूर्वभागं पठित्वा न्यासत्रयं कृत्वा प्रणवमुच्चार्य द्विताराद्यैर्नमोन्तैश्चतुर्थ्यन्तना-
ममन्त्रैः 'ह्रीं श्रीं श्रीमात्रे नमः' इत्यादिरूपैरेकैकं पुष्पमेकैक मन्त्रान्ते यथोत्पन्नं तथा बिन्दौ
विनिक्षिप्य विजातीयपुष्पामिश्रणेन सजातीयैरेव संख्यां पूरयित्वा तदन्ते प्रणवमुच्चार्य
न्यासत्रयं कृत्वा फलश्रुतिं पठित्वा पूजाशेषं समापयेदिति ॥ २८८ ॥ इत्थमियता
प्रबन्धेन त्रिवर्गप्रदत्वमुक्त्वा क्रमप्राप्तं चतुर्थपुरुषार्थप्रदायकत्वमनेकधा दिदर्शयिषुः
प्रथमं कैवल्याख्यपञ्चममुक्तिप्रदं प्रयोगमाह द्वाभ्याम्—प्रतीति । प्रतिपौर्णमासीति
विहाय प्रतिमासमित्युक्त्या यावज्जीवमित्यर्थबोधाय । तस्यापि प्रयोजनमुत्तरत्र यावज्जीवा-
र्थकप्रतिमासपदानुवृत्तिः । एभिः पूर्वोक्तान्यतमैः कुसुमैः ॥ २८९ ॥ सकृदर्चनस्य

सौभाग्यभास्करव्याख्या । २२१
न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ॥ २९० ॥
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ।
ललितैकवेद्यफलकत्वे पुनःपुनरावृत्तार्चनस्य ललितैकरूपत्वं फलं न्यायलब्धमेवाह—
स एवेति । परस्परप्रतियोगिकतादात्म्यबोधनायोद्देश्यविधेयभाववैपरीत्येनाप्याह—
तद्रूपेति । वास्तविकभेदे सत्यप्युपमेयोपमालंकारेणाप्येषोक्तिः सुसमर्थेति भ्रमं
निरस्यति—न तयोरिति । देवीभक्तयोरित्यर्थः । भेदः वास्तविक इति शेषः । नात्र
तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव भेदोऽस्त्वित्याग्रहणं
दण्डयति—भेदकृदिति । देवीभक्तौ परस्परप्रतियोगिकसत्यभेदवन्तौ । मर्त्यामर्त्यत्व-
पूज्यपूजकभावादिरूपविरुद्धधर्माधिकरणत्वादित्यादिभेदसाधकानुमानप्रयोक्तेत्यर्थः । अद्वै-
तप्रतिपादकशास्त्रविरोधेन प्राण्यङ्गत्वहेतुकाशुचित्वानुमानप्रयोक्तृवदुपहसनीयतामाह—
पापकृदिति । हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वाच्च पापिष्ठ इत्यर्थः । मरणभ्रमो-
ऽपि 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त'इति श्रुत्यैव निरस्त इति भावः
॥ २९० ॥ अथेतोऽपि सुलभं चतुर्विधमुक्तिफलं प्रयोगमाह—महानवम्यामिति ।
यावज्जीवार्थकं प्रतिमासपदं रात्रिपदं चानुवर्तनीयम् । नवरात्रस्य चरमदिवसद्वयं महा-
नवमीत्युच्यते। तच्च शिवशक्तिसामरस्यरूपम् । तत्र सर्वजातीयानां देवीपूजनेऽधिकारः ।
तथाहि—नवरात्रं द्विविधं शारदं वासन्तं चेति । 'शरत्काले महापूजा क्रियते या च
वार्षिकी' इति मार्कण्डेयपुराणस्थवचने वार्षिकीति पदस्य वर्षस्य वत्सरस्यादौ भवेति
सांप्रदायिकैर्व्याख्यानात् , चकारादुभयोः समुच्चयस्य स्वरसतोऽवगमात् , चातुर्मास्याख्य-
वर्षर्तौ भवेति व्याख्यायाः शरदश्च वर्षर्तुत्वापादिकायाः क्लिष्टत्वात् , प्रतिवर्षं क्रियमाणेति
व्याख्यायामपि विशेषणवैयर्थ्यात् , 'वासन्ते नवरात्रेऽपि पूजयेद्रक्तदन्तिका'मिति
रुद्रयामले स्पष्टं नवरात्रद्वैविध्यकथनाच्च । देवीभागवते तृतीयस्कन्धे कामबीजोपासकं
सुदर्शनं प्रति देवीवाक्यम् 'शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रोत्सवं
राजन्विधिवत्परिकल्पय । चैत्रे चाश्वयुजे मासि त्वया कार्यो महोत्सवः । नवरात्रे
महाराज मम प्रीतिविधायक' इत्यादि । सौभाग्यरत्नाकरे त्वाषाढपौषयोरपि नवरात्र-
मुक्तम् । तत्र शारदनवरात्रस्याष्टमीनवम्यौ महापूर्वे । तदुक्तं कालिकापुराणे 'आश्वि-
नस्य तु शुक्लस्य या भवेदष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ।
ततोऽनु नवमी या स्यात्सा महानवमी स्मृता । सा तिथिः सर्वलोकानां पूजनीया शिव-
प्रिये'ति । धौम्योऽपि 'आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी । सा महत्यष्टमी
ज्ञेया तत्र देवी कृतालया' । ब्रह्माण्डपुराणेऽपि 'कन्यासमाश्रिते भानौ या स्यान्मूलेन
चाष्टमी । सा महत्यष्टमी ज्ञेया न मुग्धानवमीयुता' । मूलयोगोक्तिस्तु संभवाभिप्राया । तेन
पूर्वाषाढायुतापि महाष्टम्येव 'मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः। मूलाभावेऽपि कर्तव्या
यदि स्यात्तोयसंयुते'ति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रद्वयान्यतरयोगे