सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 235, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 235

सौभाग्यभास्करव्याख्या । २०७
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ॥ २५२ ॥
नित्यं संकीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ।
संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ॥ २५३ ॥
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ।
हित्याभावे फलानुत्पत्तिवदिहापि तथेति सूचितम् । इयांस्तु विशेषः—आग्नेयादीनां
दर्शपूर्णमासवाक्येन सहितानामेकफलसाधनत्वावगमादन्यतमाभावेऽपि फलोत्पत्तिरेव न
भवति । इह तु सहस्रनामपाठाभावेऽप्यन्येभ्यः प्रधानेभ्यस्तत्तत्फलान्युत्पत्तुमर्हन्त्येव ।
नच प्रधानान्तरसाहित्याभावमात्रेण सहस्रनामपाठस्य नैष्फल्यं कथं सुवचमिति वाच्यम् ।
ईदृशप्रयोगजन्यफलविशेषस्य प्रमाणाभावादनुत्पत्तावपि नामस्मरणजन्यफलान्तराणां व-
चनान्तरादधिगतानां संभवेन नैष्फल्यायोगादिति दिक् ॥ २५१ ॥ इदानीमुपास्तिशरी-
रघटकत्वादप्येतदावश्यकमित्याहार्धेन—अकीर्तयन्निति । उपासकानामुपास्यदेवताप्री-
तिजननमपेक्ष्य पुरुषार्थान्तराभावात्तज्जनककर्मण्यनादरे कथं भक्तता । अपितु न कथं-
चिदपीत्यर्थः । अयं भावः—'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो
जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभेति' स्मृत्युक्तानां चतुर्विधानां भक्तानां मध्ये आर्तानां
पापनिवृत्त्यर्थं, जिज्ञासुभक्तानां निष्कामानामपि चित्तशुद्ध्यर्थं, अर्थार्थिभक्तानामर्थसि-
द्ध्यर्थं, ज्ञानिभक्तानां लोकसंग्रहार्थं, कीर्तनस्यावश्यकत्वादङ्गतावच्छेदकशरीरघटकं
नामकीर्तनम् । तदिदं 'महापातकिनां त्वार्ता'वित्याद्यधिकरणेषु भक्तिमीमांसाभाष्ये
स्पष्टमिति ॥ २५२ ॥ इदानीमुक्तविशेषणचतुष्टये तृतीयविशेषणाशक्तान्प्रति पक्षान्त-
रमनुकल्पमाह द्वाभ्याम्—नित्यमिति । पुण्यवासरे कपिलाषष्ठ्यर्धोदयादिदिवसे ।
वक्ष्यमाणसंक्रान्त्यादेरेव वा सामान्येन कीर्तनमिदम् । विषुवे मेषतुलाराश्योः सूर्यप्रवेश-
दिने । स्वजन्मत्रितये स्वस्य स्वभार्यायाः स्वपुत्रस्य च जन्मनक्षत्रेषु, स्वस्य जन्मकालीनं
नक्षत्रं तत्पूर्वपरनक्षत्रे द्वे इत्येवं त्रितये वा, स्वस्य जन्मनक्षत्रमारभ्य गणनायां
प्रथमदशमैकोनविंशनक्षत्रत्रयदिवसेषु वा, स्वजन्मदिवसदीक्षादिवसपूर्णाभिषेकदिनत्रये
वा । एवं व्याख्यावैचित्र्यस्थले यथासंप्रदायं व्यवस्था । 'तन्त्राणां बहुरूपत्वात्कर्तव्यं
गुरुसंमत'मिति वचनात् । अयने कर्कमकरयोः सूर्यप्रवेशदिने । संक्रान्त्यैव सिद्धे
विषुवायनयोर्ग्रहणं गोबलीवर्दन्यायेन पुण्यतरत्वद्योतनेनात्यावश्यकताद्योतनाय वा,
तत्तत्संक्रमणेभ्यः पूर्वे कतिपयैर्दिवसैस्तत्तदयनं ज्योतिःशास्त्रे प्रसिद्धं तदेव वेहायनप-
देन विवक्षितम् ॥ २५३ ॥ नवम्यां वेति वाकारोऽष्टमीसंग्रहार्थः । सितायामिति
नवम्यादिषु तिसृष्वन्वेति । चतुर्दश्यामेव वा शुक्लपक्षीयायामित्यर्थः । अत्र चकारा-
द्यावज्जीवं प्रत्यहं कीर्तनाशक्तस्यैतेषु दिवसेषु समुच्चित्य कीर्तनम् । अत्राप्यशक्तश्चे-
दन्यतमं दिवसं परित्यजेदिति द्योतनाय वाकारः । अन्यतमस्य परित्यागपक्षेऽपि