ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 238, कुल 272 में से
संदर्भ में पढ़ें२१० ललितासहस्रनाम ।
सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ।
अयमायुष्करो नाम प्रयोगः कल्पनोदितः ॥ २५६ ॥
इष्टं विशिनष्टि—सर्वे रोगा इति । नश्यतिरिह ध्वंसप्रागभावादिसाधारणाभाव-
मात्रपरः । दीर्घायुष्यं अपमृत्युकालमृत्युद्वयाभावौ । चकारात्संपदां ग्रहणम् । तेन
रोगसामान्याभावविशिष्टसंपन्नचिरतरजीवित्वं भाव्यं सिध्यति । तेन रोगिण इव
नीरोगस्यापि रोगप्रागभावपरिपालनोद्देशेनास्मिन्प्रयोगेऽधिकारः सिद्धः । संकल्पव्य-
वहारादावुपयोगित्वेन नामधेयं दर्शयति—अयमायुष्कर इति । करोतीति करः
पचाद्यच् । आयुषः कर आयुष्करः । कस्कादेराकृतिगणत्वाद्विसर्गस्य षत्वम् । नामेत्यव्ययं
संज्ञाकृतप्रसिद्ध्यर्थकम् । कल्पनोदितः कल्पे कल्पसूत्रे परशुरामकृते नोदितः सूचितः ।
कल्पसूत्राणां सर्वेषामितस्ततो विप्रकीर्णपरशाखापठिताङ्गजातोपसंहारेण प्रयोगविधि-
कल्पनार्थत्वात्तत्र नित्यार्चादिकतिपयप्रयोगकथनेनेतरे प्रयोगास्तत्रानुक्ता अपि सूचिता
एवेत्यर्थः । यद्वा कल्पसूत्रतुल्येषु तन्त्रेषु नोदितः कण्ठरवेणोक्तः । अथवा कल्पनेन
भाव्यकरणयोः कार्यकारणभावकल्पनेन उदितः समर्थितः । यद्वा कल्पेऽपि प्रलयका-
लेऽपि नोदितो विहितः । प्रलयाव्यवहितपूर्वकालीनैः साधकैरूत्तरत्र संघातमरणनि-
श्चयेऽपि दीर्घायुःकामनया कृतोऽयं प्रयोगः प्रलयकालेऽपि तान्रक्षतीत्यर्थः । अथवा
अयमायुष्कर इत्याकारको नाम्नां प्रयोगः प्रयुज्यमानता । व्यवहार इति यावत् ।
कल्पनयावयवशक्ति कल्पनया योगरूढिकल्पनया वोदित उक्तः । तेन न्यायतौल्यादु-
त्तरेऽपि प्रयोगा ज्वरहरादिनामका ऊह्याः । तत्फलं तु संकल्पादावुपयोग इति सिद्ध्यति ।
॥ ॥ अथास्य स्पष्टतरः प्रयोगविधिरुच्यते-चन्द्रतारादिबलविशिष्टे उदयव्यापिपौर्णमासी-
तिथिवह्न्येव यथाधिकारं वैदिकं तान्त्रिकं च नैत्यकं कर्म समाप्योपोषितः सायाह्ने
पुनः स्नात्वा सायसंध्यां वैदिकीं तान्त्रिकीं च नित्यपारायणान्तां निर्वर्त्य सम्यगुदिते
पूर्णचन्द्रे शुचौ देशे समन्त्रकमासनं प्रसार्य पूर्वाभिमुखस्तस्मिन्नुपविश्याचम्य मूलेन
प्राणानायम्य देशकालौ संकीर्त्य ममान्यस्य वामुकशर्मणोऽमुकगोत्रस्य नीरोगत्वसं-
पत्तिदीर्घायुःसिद्ध्यर्थे श्रीललितासहस्रनामस्तोत्ररूपमालामन्त्रस्य सकृत्पठनेनायुष्करं प्रयो-
गमहं करिष्य इति संकल्प्य चन्द्रमण्डलं पश्यन्नुन्मीलितलोचन एव तन्मध्ये साङ्गां
सावरणां सतिथिनित्यां सगुरुपङ्क्तिं त्रिपुरसुन्दरीमवयवशो ध्यात्वा स्वाभिन्नां विभाव्य
सः ‘श्रीललिताम्बिकायै नमः गन्धान्समर्पयामी’त्येवंरूपैर्मन्त्रैः प्रत्यक्षान्गन्धपुष्पधूपदी-
पनैवेद्योपचारान्नप्रकृतित्वत्सलक्षणान्निवेद्यानुक्तमपि ताम्बूलं संप्रदायवशान्निवेद्य चन्द्र-
मण्डले देवीं पश्यन्नेव प्राथमिकान्यष्टात्रिंशच्छ्लोकान्पठित्वा ऋष्यादिन्यासत्रयं विधाय
ध्यानश्लोकं पठित्वा यथाधिकारं प्रणवमुच्चार्य सुव्यक्ताक्षरमर्थानुसंधानपुरःसरमत्वर-
न्सहस्रनाममन्त्रं श्रीमातेत्यादि ललिताम्बिकेत्यन्तं पठित्वान्ते पुनः प्रणवमुच्चार्यर्ष्यादि-
न्यासत्रयं कुलोत्तरभागं तथैव पठित्वा जपं देवीवामहस्ते जलक्षेपपुरःसरं गुह्येति