ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 233, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । २०५
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ॥ २४७ ॥
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ।
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥ २४८ ॥
बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत ।
अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ २४९ ॥
यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
कोटिकोटिगुणितौ कृत्वा जातौ संख्यापिण्डौ पुनः परस्परं गुणयेदिति सिद्ध्यति ।
तेन च तं महाराशिं कोटिसंख्यया गुणयित्वा जातं पिण्डं पुनः कोटिसंख्ययैव गुणये-
दिति फलति । तं महाराशिं समुद्रसंख्यया गुणयेदिति तु निष्कर्षः । समुद्रो नाम
कोटिसंख्यायाः कृतिसंज्ञकः समद्विघातः । कोटिगुणिता कोटिरिति यावत् । तदुक्तं
वायुपुराणे—'सहस्रं तु सहस्राणां कोटीनां दशधा पुनः । गुणितं चेत्समुद्रं तं प्राहुः
संख्याविदो जना'इति । इदं च पुण्यपदस्य गुणकस्थाने गुण्यस्थाने चेति द्विःप्रयोगाल्ल-
भ्यते । पुण्यकोट्येति व्यस्तानुक्तिबलात्कोटिभिर्गुणितमिति बहुवचनान्तेन विग्रह इति
च लभ्यते । सर्वमिदं फलमुपक्रमानुसारात्स्तोत्रपाठस्यैवेति भ्रमो माप्रसञ्जीयत आह—
नाम्नोऽप्येकस्येति ॥ २४६ ॥ इदानीं पुण्यराशिजनकत्ववत्पापराशिनाशकत्वमप्येकैकस्य
नाम्नः फलमित्याह । अपिशब्द उपपातकादेः कैमुतिकन्यायेन वाचकतया वाच्यतया
वा समुच्चायकः ॥ २४७ ॥ तानि च पापानि यद्यपि 'विहितस्याननुष्ठानान्निन्दितस्य च
सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छती'ति स्मृतौ निमित्तत्रैविध्यात्त्रिविधानि
प्रतिपाद्यन्ते, तथापीन्द्रियनिग्रहस्तदभावयोर्विहितप्रतिषिद्धत्वाभ्यां तज्जन्यपापानामुक्त-
विधयोरेवान्तर्भाव इत्यभिप्रेत्य द्वैविध्येनैव गणयति । तत्तद्वर्णाश्रमभेदेन श्रुतिस्मृतितन्त्रेषु
विहितान्यकरणे प्रत्यवायफलकानि संध्यावन्दनोपरागस्नानादीनि नित्यकर्माणि । तेनैव
नैमित्तिकानामपि संग्रहात् । कलञ्जभक्षणादीनि निषिद्धानि । द्रुतं प्रायश्चित्तान्तरान-
पेक्षम् ॥ २४८ ॥ एतज्जन्यपुण्यराशेरिवैतन्नाश्यपापराशेरपीयत्ता बुद्धिमद्भिरवोध्येत्याशयेन
शिष्यं पुनरपि सावधानीकुर्वन्नाह सार्धेन—कलशीति । जातिलक्षणो ङीष् ।
तन्निवर्त्यं तया शक्त्या नाश्यं अघं पापं नालं न समर्थाः लोकाः जनाः चतुर्दश चतुर्द-
शभुवनगताः समस्तभुवनगताः । समस्ताः प्राणिनः प्रतिक्षणमासुप्तेरामृतेश्च कोटिकोटि-
जन्मभिरुच्चावचानि पापानि कुर्वन्ति चेद्यावान्पापराशिः स्यात्ततोऽप्यनवधिकोऽधिक
एकैकनाम्नो निवर्त्यस्तस्य सहस्रगुणनेन संपूर्णस्तोत्रपाठफलत्वमित्यूह्यमिति भावः
॥ २४९ ॥ यस्तावच्छ्रीविद्योपासक ईदृशं पापनाशनोपायमनादृत्य स्मार्तानि प्रायश्चि-
त्तानि चिकीर्षति तस्यैतदनादरजन्यः पापराशिस्तैरप्यनपोद्य आपततीति वृश्चिकभया-
१८