सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 237, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 237

सौभाग्यभास्करव्याख्या । २०९
पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥ २५५ ॥
सम्यक्त्वेन स्वात्मदेवतयोरैक्यं विभाव्यम् । एतदेव ह्युपचारान्प्रति प्रधानं 'अश्वमेध-
सहस्राणि वाजपेयशतानि च । ललितापूजनस्यैते लक्षांशेनापि नो समाः । स दाता
स मुनिर्यष्टा स तपस्वी स तीर्थगः । यः सदा पूजयेद्देवीं गन्धपुष्पानुलेपनै'रिति
पद्मपुराणीये विधिवाक्ये पूजायाः फलसंयोगदर्शनात् । उपचाराणां तु फलवदफ-
लन्यायेन तदङ्गत्वम् । अतएव 'गन्धपुष्पानुलेपनै'रिति 'पञ्चोपचारै'रिति च तृतीया ।
यानि च पाद्म एव 'गन्धानुलेपनं कृत्वा ज्योतिष्टोमफलं लभे'दित्यादीनि तत्तदुपचारेषु
फलश्रवणानि तानि तु पर्णतान्यान्येवार्थवादः । यानि तु 'चन्दनागरुकर्पूरैः सूक्ष्मपिष्टैः
सकुङ्कुमैः ।