सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

९० ललितासहस्रनाम ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ १२४ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ १२५ ॥
लालसा सतृष्णा ॥ १२३ ॥ ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वात्काम्या ।
कृष्णपक्षद्वादशीरात्रिरूपा वा । बिन्दुत्रयं हार्धकला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्च-
रमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते । तस्याः स्वरूपं ‘स्फुटशिवशक्ति-
समागमबीजाङ्कुररूपिणी पराशक्ति’रित्यारभ्य ‘कामः कमनीयतया कला च दहनेन्दु-
विग्रहौ बिन्दू’इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः । कामो योनिः कमलेति
वा । तदुक्तं त्रिपुरासिद्धान्ते । ‘तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति । कलाख्या
सविलासा च ख्याता कामकलेति से’ति । कामा चासौ कलारूपा चेति वा । कामपद-
मात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् ‘कामार्थमागता यस्मान्मया सार्धं महा-
गिरौ । कामाख्या प्रोच्यते देवी नीलकूटरहोगता । कामदा कामिनी काम्या कान्ता
कामाङ्गदायिनी । कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यत’इति । कदम्बकुसुमानि
नीपपुष्पाणि प्रियाणि यस्याः सा । मङ्गलस्वरूपत्वात्कल्याणी । पाद्मे देवीपुराणे च
‘कल्याणी मलयाचल’इति परिगणितमूर्तिविशेषरूपा । शुभात्मका वाणी कल्या तामेवा-
णति शब्दायतेऽसौ कल्याणी । जगत्याः कन्दः पूरणं मूलं वा यस्याः सा । ‘कन्दः
स्यात्पूरणे सस्यमूले जलधरेऽपिचे’ति यादवः । करुणैव रसो येषु तादृशाः सागराः
यस्यां सा । सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत् । तत्पुरुषपक्षे कन्दसागरपदयोः
परवल्लिङ्गतया पुंस्त्वापत्तिः ॥ १२४ ॥ चतुःषष्टिसंख्याः कला अस्यां सन्तीति कला-
वती । कल एवालापो भाषणं यस्याः । कलो मञ्जुल आलापो यस्या इति वा । ‘ध्वनौ
तु मधुरास्फुटे । कल’इत्यमरः । कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभः आपः
प्राप्तिर्यस्याः सकाशादिति वा । कं लालापं लालाजलप्रायं ययेति वा । अपां समूह
आपं ‘ऋक्पूरब्धू’रिति समासान्तो वा । कान्ता कमनीयत्वात् । कं ब्रह्मौवान्तः
सिद्धान्तो यस्या इति वा । कृष्णैकादशीरात्रिरूपा वा । कादम्बरी उत्तमा मदिरा सैव
प्रिया यस्याः । अतएव श्रुतिः ‘परिस्रुतं झषमायं पलं च भक्तानि योनीः सुपरिष्कृ-
तानि । निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेती’ति । ब्रह्मविष्ण्वादिभ्य
उपासकेभ्यो वरानूदत्त इति वरदा । तदुक्तं मात्स्यपाद्मयोर्नारदेन । ‘यच्चाहमुक्तवानस्या
उत्तानकरतां सदा । उत्तानो वरदः पाणिरेश देव्याः सदैव तु । सुरासुरमुनिव्रातवरदेयं
भविष्यती’ति । अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तं । वस्तुतो
देवकामनापूर्तिमात्रे तात्पर्यं नतु वरदमुद्राधारणेऽपि । भगवत्पादाचार्यैः ‘त्वदन्यः
पाणिभ्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया’ इत्युक्ते ‘वरा-

सौभाग्यभास्करव्याख्या । ९१
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ १२६ ॥
र्थिभ्यः सुरादिभ्यः कामान्पूरयतीश्वरी । धातुर्वृञ् वरणे प्रोक्तस्तेन सा वरदा स्मृते'ति
देवीभागवताच्च । वाराहेऽपि वेत्रासुरवधप्रकरणे 'नवम्यां च सदा पूज्या इयं देवी
समाधिना । वरदा सर्वलोकानां भविष्यति न संशय'इति । वामानि सुन्दराणि नयनानि
नेत्राणि प्रमाणानि वा यस्याः । वामं मार्गविशेषं नयतीति वा । अथवा कर्मजन्यफलं
वाममित्युच्यते । 'एष उ एव वामनि'रिति श्रुतौ संयद्वामादिश्रुतौ च वामपदस्य तथा
व्याख्यानदर्शनात्तन्नयति प्रापयतीति वामनयना । वरुणस्येयं वारुणी सास्यास्तीति
वारुणीमान्सहस्रफणः शेषः । शेषं प्रकृत्य विष्णुपुराणे 'उपास्यते स्वयं कान्त्या यो
वारुण्या च मूर्त्तये'ति पाठात्स यथा भूधरणे विह्वलो न भवति तद्वदविह्वला । यद्वा
खर्जूरीसमुद्भवो रसो वरुणप्रियत्वाद्वारुणी तस्या मदेन पानजन्यानन्देन विह्वला बाह्य-
पदार्थविस्मरणशीला । स्वात्मानन्दैकचर्वणवतीति यावत् । वारुणीमन्तः अविह्वला
ययेति वा । वारुण्याख्यां वायुदेवत्यां नाडीं जितवन्तो वारुणीमन्त इत्युच्यन्ते । उक्तं
च योगशास्त्रे 'अधश्चोर्ध्वं स्थिता नाडी वारुणी सर्वगामिनी । पूषा दिग्देवता प्रोक्ता
वारुणी वायुदेवते'ति ॥ १२५ ॥ विश्वस्मात्क्षित्यादिशिवान्तादधिकोत्कृष्टा । 'विश्वाधिको
रुद्रो महर्षि'रिति श्रुतेः । वेदै ऋग्यजुःसामाथर्वणैर्वेद्या ज्ञेया । 'वेदैश्च सर्वैरहमेव वेद्य'
इति श्रुतेः स्मृतेश्च । यद्वा चिन्तामणिगृहस्य चत्वारि द्वाराणि चतुर्वेदरूपाणि । द्वार-
प्रवेशमन्तरेण देवतादर्शनाभावाद्वैदैकवेद्यत्वम् । तथाच श्रुतिः । 'ऋचां प्राची महती
दिगुच्यते दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीचीं साम्नामुदीची महती
दिगुच्यत'इति । शुद्धविद्यादिभिः सौभाग्यादिभिर्लोपामुद्रादिभिस्तुरीयाम्बादिभिश्चर्ग्य-
जुषाथर्वसामदेवताभिर्वेद्येत्यप्यर्थः । विन्ध्याख्ये अचले पर्वते निवसतीति तथा । तथाच
पाद्मे देवीक्षेत्रगणनायां 'त्रिकूटे च तथा सीता विन्ध्ये विन्ध्याधिवासिनी'ति । पाञ्च-
रात्रलक्ष्मीतन्त्रेऽपि 'वैवस्वतेन्तरे तौ च पुनः शुम्भनिशुम्भकौ । उत्पत्स्येते वरान्मत्तौ देवोपद्र-
वकारिणौ । नन्दगोपकुले जाता यशोदागर्भसंभवा । तावहं नाशयिष्यामि नन्दाख्या
विन्ध्यवासिनी'ति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः । विदधाति धारयति पोषयति
वा जगदिति विधात्री । 'धात्री माता समाख्याता धारणाच्चोपगीयत' इति देवीपुरा-
णात् । विधातुर्ब्रह्मणः पत्नी वा । विशिष्टा विशेषप्रीतिविषया धात्री आमलकी यस्या
इति वा । वेदानां जननी उत्पादिका । 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेद' इत्यादिश्रुतेः । 'ऋचः सामानि जज्ञिर'इत्यादिश्रुतेश्च । देवीपुराणे तु 'यतः
शृङ्गाटकाकारकुण्डलिन्याः समुद्गताः । स्वराश्च व्यञ्जनानीति वेदमाता ततः स्मृते'-
त्युक्तं । विष्णोर्व्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि माया आवरणकर्त्री ।
परिच्छेदिकेति यावत् । तत्संबन्धिनी मायेति वा । 'दैवी ह्येषा गुणमयी मम माया
दुरत्यये'ति भगवद्वचनात् । कालिकापुराणेऽप्युक्तं । 'अव्यक्तव्यक्तरूपेण रजःसत्वतमो-

९२ ललितासहस्रनाम ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ १२७ ॥
गुणैः । विभज्य यार्थे कुरुते विष्णुमायेति सोच्यत'इति । विलासो विक्षेपशक्तिरस्या
अस्तीति तथा । पीठशक्तिविशेषरूपा वा । 'नित्या विलासिनी दोग्ध्री'त्यादिना तासु
परिगणनात् । बिले ब्रह्मरन्ध्रे आस्त इति वा विलासिनी । तदुक्तं स्वच्छन्दतन्त्रे । 'तत्र
ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदैर्वृत'मिति प्रस्तुत्य 'ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगा-
मिनी । द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिते'ति ॥ १२६ ॥ अथ परिभाषाया-
मष्टत्रिंशन्नामानि विभजते ॥ मृगजो द्विर्वालः खे जीवाभं पञ्चपादार्थम् ।
गुणभूवरतेजोर्धं रतिगुणलेशो दहेदृणं दुरितम् ॥ १६ ॥ द्विरित्यष्टाक्षरे
द्वे नामनी ॥ १६ ॥ क्षेत्रं कामरूपादिकं वसुधादिशिवान्तषट्त्रिंशत्तत्वात्मकं शरीरं वा ।
तत्स्वं निजं रूपं यस्याः सा । तथाच लैङ्गे । 'विभर्ति क्षेत्रतां देवी त्रिपुरान्तक-
वल्लभा । क्षेत्रज्ञत्वमजो धत्ते भगवानन्तकान्तक'इति क्षेत्रस्य शरीरस्येशः शिवस्त-
स्येयं क्षेत्रेशी । क्षेत्रज्ञो जीवस्तं क्षेत्रं च पालयतीति क्षेत्रक्षेत्रज्ञपालिनी । तथाच विष्णु-
स्मृतौ 'इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति त-
द्विदः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते'ति गीताख्यप्येवमेव कौन्तेयभार-
तसंबोधनाभ्यां घटितमिदमेव । लैङ्गेपि 'चतुर्विंशतितत्त्वानि क्षेत्रशब्देन सूरयः ।
आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथे'ति । वायुपुराणे तु 'अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा
क्षेत्रज्ञ उच्यत' इत्युक्तम् । ब्रह्मपुराणेऽपि । 'क्षेत्राख्यानि शरीराणि तेषां चैव यथा-
सुखम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यत'इति । मनुस्मृतौ तु । 'योऽस्या-
त्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु ।
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ।
असंख्या मूर्तयस्तस्य निःपतन्ति शरीरात् । उच्चावचानि भूतानि

सौभाग्यभास्करव्याख्या । ९३
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ १२८ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाखण्डा सदाचारप्रवर्तिका ॥ १२९ ॥
त्पत्तिः । तेन सम्यगर्चिता ॥ १२७ ॥ विशिष्टो जयो यस्याः सा विजया संविद्रूपा
वा । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'विजयं चैव काश्मीर' इति गणित इति शिवस्वरूपा
वा । तत्रैव निर्वचनाध्याये 'विजित्य पद्मनामानं दैत्यराजं महाबलम् । त्रिषु लोकेषु
विख्याता विजया चापराजिते'ति विश्वकर्मशास्त्रप्रसिद्धविजयाख्यगृहविशेषरूपा वा ।
विजयाख्यो मुहूर्त्त उक्तश्चिन्तामणौ 'आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स
कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिद' इति । रत्नकोशे तु 'ईषत्संध्यामतिक्रान्तः
किंचिदुन्निद्रतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः । एकादशो मुहूर्तो यो
विजयः परिकीर्तितः । तस्मिन्यात्रा विधातव्या सर्वैर्विजयकाङ्क्षिभि'रिति तादृशकालरूपे-
त्यर्थः । विगतो मल आविद्यको यस्याः सा विमला । पाद्मे 'विमला पुरुषोत्तमे' इति देवीतीर्थेषु
परिगणितमूर्तिविशेषरूपा वा । गृहविशेषरूपा वा । तदुक्तं विश्वकर्मशास्त्रे गृहानधिकृत्य
'ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा । सुमुखं विमलं नन्दं निधनं च मनोरममि'-
ति । वन्दितुं योग्या वन्द्या । योग्यतामेवाह-वन्दार्विति । वन्दन्ते ते वन्दारवः ।
'शृवन्द्योरारु'रित्यारुप्रत्ययः । तादृशान् जनान्वत्सवल्लालयत्यनुगृह्णाति 'वत्सांसाभ्यां
कामबल' इति लप्रत्ययो वा । वाचं वदतीति वाग्वादिनी काचिद्देवता तद्रूपा वा । वाचं
वादयतीति वा । एतन्निर्वचनं च त्रिपुरासिद्धान्ते । 'सर्वेषां च स्वभक्तानां वादरूपेण
सर्वदा । स्थिरलाष्ट्रा च विख्याता लोके वाग्वादिनीति से'ति । 'शब्दानां जननी त्वमेव
भुवने वाग्वादिनीत्युच्यस' इति लघुस्तवेऽपि । वामाः सुन्दराः केशा यस्याः सा । वामा
एव वामकास्तेषामीशः शिवः । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'जटे वामेश्वरं विद्यादि'ति
प्रतिपादितस्तस्य स्त्री वा । वामकेशेन प्रोक्तं तन्त्रं वामकेशं तत्र प्रतिपाद्यतया
तत्संबन्धिनी वा । वह्नेर्मण्डलं मूलाधारे परमाकाशे वा विद्यमानं तत्र वसतीति
तथा । वह्निशब्दस्त्रित्वसंख्यावच्छिन्नपरो वा । तेन सोमसूर्याग्निमण्डलत्रयवासि-
नीत्यर्थः ॥ १२८ ॥ भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात् ।
अथवा ईषदसमाप्तौ कल्पप्प्रत्ययेनाऽपूर्णभक्ता भक्तिमत्कल्पाः तेषां लतिकेव
विस्तारकारिणी । कस्तूरिकेवामोदयित्री वा । 'ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयो-
र्लते'ति रभसः । अर्धभक्तानां भक्तिपूर्तिदानद्वारा संतोषिकेति यावत् । तदुक्तं शक्ति-
रहस्ये 'अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम् । जन्मान्तरे क्रमप्राप्त्यै पूर्णभक्त्यै
च कल्पत'इति । अभेदज्ञानरूपविद्याविहीनाः पशवः । तदुक्तं बृहदारण्यके 'योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु'रिति । इह योन्यां त्रिकोणचक्र-

इत्यर्थः । 'तस्मिन् हिरण्मये कोशे त्र्यरे त्रिप्रतिष्ठित'इति श्रुत्यन्तरात् । ईदृशानां
पशूनां विद्याविहीनानां पाशे पिपासाऽशनाये विशिष्य मोचयतीति तथा । पिवतेरशा-
तेश्च धातुद्वयस्य पाशपदेन निर्देशः । पातेरश्नातेश्च क्विपि पा अश् हलन्ताट्टापि तयोः
समाहारे पाशमिति रूपम् । तावन्मात्रवत्त्वादेव हि पशुत्वं निर्विद्यानां । तथाच श्रूयते
'अथेतरेषां पशूनामशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न
विदुः श्वस्तनं न लोकालोका'विति । अथवा पशु इत्यव्ययं सम्यगर्थे 'लोधं नयन्ति
पशु मन्यमाना'इति श्रुतौ तथा व्याख्यानदर्शनात् । पशु यथाभवति तथा पाशान्
वरुणपाशान् विमोचयतीति । यद्वा सम्यक्पाशानक्षान्पातयतीति । शिवेन सह द्यूतक्री-
डायां सम्यक्पाशान् फलके पातयित्वा शिवं जयतीति यावत् । अथवा पशुपस्य पर-
शिवस्याशा प्रेप्सा येषां ते पशूपाशास्तान् विशेषेण मोचयति प्राप्तशिवांस्तनोतीति ।
अथवा ब्रह्मादिस्थावरान्ताः पशुसमानधर्मत्वात्पशवः तेषां बन्धसाधनत्वादविद्यैव पाशः ।
तदुक्तं सौरसंहितायामविद्यानामनिर्वचनप्रकरणे 'सर्वाधारतयाधारः पाशोर्बन्धस्य हेतु-
त'इति । तद्विकारास्तत्त्वादयो वा पाशास्तान् शिवभक्त्या मोचयति । तदुक्तं लैङ्गे ।
'ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः ।
चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति । विषया अपि कीर्त्यन्ते पाशाजीवनिबन्धनात् ।
तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिन'इति । अथवा अविद्याऽस्मिता रागो द्वेषोऽभि-
निवेशश्चेतिं पञ्चविधः क्लेशः । आत्मानात्मविवेकाभावोऽविद्या । अनात्मनि देहादावा-
त्मत्वविपर्ययोऽस्मिता । तेनच देहोपभोगकरणे स्रक्चन्दनादावभिलाषो रागः । तत्प्रा-
प्तिपरिपन्थिनि क्रोधो द्वेषः । तदिदमहितमिति ज्ञात्वाप्यज्ञवत्तदपरित्यागोऽभि-
निवेश इति । तदिदं योगसूत्रे प्रथमपादोपान्त्यसूत्रेणोद्देशमात्रं कृत्वा द्वितीयपादे पञ्चभिः
सूत्रैः सलक्षणमुक्तम् । यत्तूक्तं देवीभागवते 'तमोविवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा । मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मन'इति । तत्र तमःप्रभृतीन्यविद्यादीनामेव नामा-
न्तराणि । मरणशब्दो मिथ्याभिनिवेशपरः । तदिदमुक्तं लैङ्गे । 'अविद्यामस्मितां रागं
द्वेषं च द्विपदां वर । वदन्त्यभिनिवेशं च क्लेशान्पाशालमागतान् । तमो मोहो महामो-
हस्ततामिस्रमथ पण्डिताः । अन्धतामिस्रमित्याहुः क्लेशान्वै पञ्चधास्थितान् । अविद्या तम
इत्याहुरस्मिता मोह इत्यपि । रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि । अन्धतामिस्रकं
मिथ्याभिनिवेशं प्रचक्षत'इति । एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव 'तमसोऽष्ट-
विधो भेदो मोहश्चाष्टविधः स्मृतः । महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः । अष्टाँ
विधास्तथा प्राहुस्तामिस्रस्य विचक्षणाः । अन्धतामिस्रभेदाश्च तथाष्टादश कीर्तिता'इति
संहृत्य द्विपञ्चाशत् । तामिस्रस्याप्यष्टादशविधलमाश्रित्य द्विषष्टिः पाशा इति केचित् ।
एते च क्लेशा वैषयिकयोगित्वज्ञरूपपशुत्रैविध्यात्तांस्तान्प्रति विलक्षणाः । तदुक्तं देवीभागवते
'प्रमुक्तास्तत्त्ववेत्तॄणां दग्धदेहास्तु योगिनाम् । अविच्छिन्नोदाररूपाः क्लेशा विषयसङ्गि-

ना'मिति । यत्तु कुलार्णवे 'घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी । कुलं शीलं च
जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः' इति तदविद्यादिक्लेशपञ्चकस्योक्तेष्वेव द्विपञ्चाशद्भेदेषु क-
तिपयानामवगुल्यानुवादः । तेच भेदा विस्तरभयान्नोक्ताः । इत्थंच मूले पशुशब्द उक्त-
परिभाषयैकपञ्चाशत्संख्यापरोऽपि प्रत्यासत्तिसंबन्धेन लक्ष्णया द्विपञ्चाशतपरः । 'नित्या-
नन्दवपुर्निरन्तरगलत्पञ्चाशद्वर्णैः क्रमा'दितिशारदातिलकश्लोके पञ्चाशतपदस्येदृशलक्षणयैव
हर्षदीक्षितादिभिरेकपञ्चाशतपरत्वेन व्याख्यानात् । तेन पशुसंख्यान् द्विपञ्चाशतपाशान्वि-
मोचयतीत्यर्थः । तदुक्तं शिवरहस्ये 'पञ्चक्लेशैर्द्विपञ्चाशतपाशैर्बध्नाति यः पशून् । स एव
मोचकस्तेषां भक्त्या सम्यगुपासित

९६ ललितासहस्रनाम ।
संछन्नो मायाकर्मावृतो विभुः । शरीरशिवतत्वज्ञो भेदैकसिको लघुः । सर्वदा कर्मकर्ता
च स्वकर्मफलभोजकः । नित्यं विषयसंरक्तः सकलः पशुरुच्यत' इति । अत्र मलमायाश-
ब्दावणुभेदपरौ । एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः । तत्र ये पक्व-
मलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशन्मन्त्रेश्व-
रतामाप्ता वर्तन्ते । ते च शतरुद्राख्या अष्टौ शतमण्डलिनोऽष्टौ क्रोधभट्टारकादयो वीरेश्वरः
श्रीकण्ठश्चेति द्वाविति । अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्कमलत्रयांस्तु
भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव । तदुक्तं 'मलादीनाम-
पाके तु सामान्यानुग्रहो भवेत् । अधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः । पशवस्त्रिप्र-
कारास्तु प्राप्नुयुः परमेश्वरी'ति । 'नानायोनिषु पाकाय नियुङ्क्तेऽनुजिघृक्षये'ति च ।
अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः ।
तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते । आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भव-
न्ति । तदुक्तं स्वच्छन्दसंग्रहे । 'मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः । पुर्यष्टक-
शरीराश्च पृथक्कर्मवशात्प्रिये । सर्वयोनिषु संप्राप्य भोगाय स्वस्वकर्मणाम् । भुक्त्वा भोगानि
तेषां तु कर्मसाम्ये शिवः स्वयम् । सुपक्वमलकर्मांस्तान्किंचिदनुगृह्य च । जलतत्त्वादि-
तत्त्वानां मध्ये लोकेश्वराभिधे'ति । आणवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं 'मल-
मात्रेण संवद्धः पशुर्विज्ञानकेवलः । सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये' इति ।
तेऽपि समाप्तकलुषा असमाप्तकलुषाश्चेति द्विविधाः । तत्राद्या विद्येश्वराः । अन्यास्तु
सप्तकोटिमहामन्त्रात्मकाः । नच तेषां जडत्वमिति शङ्क्यम् । शब्दरूपशरीराणां जड-
त्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः । अतएव मृगेन्द्रसंहितायाम् । 'अथाना-
दिमलापेतः सर्वकृत्सर्वदृक् शिवः । पूर्वं व्यत्वासितस्याणोः पाशजालमपोहती'ति ।
आगमिका अप्याहुः । 'भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम् । जडवर्गस्य विधत्ते
सर्वानुग्राहकः शंभु'रिति । अपक्वाणवमलत्वजीवत्वादेव मन्त्राणामणुसंज्ञापि । एवं षड्वि-
धानामपि पशूनां मलपाकतारतम्यान्यान्यदानन्ता भेदाः । तेषां च तत्तत्तारतम्यार्हयो-
निप्रापणैश्वर्यदानान्धपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव । तथाच पशू-
नामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमो-
चिनी । नच मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम् । मोचक-
त्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृत्ताया अन्वयव्यतिरेकाभ्यां शक्तावेव
स्वीकर्तुं युक्तत्वात् । तदुक्तमभियुक्तैः 'शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत'इति । किंच स्वातन्त्र्यं हि कर्तृत्वं । 'स्वतन्त्रः कर्ते'ति
पाणिनिसूत्रात् । तच्च शक्तिगतमेव । तथाच शक्तिसूत्रं 'चितिः स्वतन्त्रा विश्वसिद्धिहेतु'रिति ।
यत्तु 'चैतन्यमात्मे'ति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलङ्गबलाच्च कर्तृत्वादिधर्माभा-
वपरम् । यत्तु 'चितिः स्वतन्त्रा विश्वसिद्धिहेतुरित्याद्यसूत्रं किल शक्तिशास्त्रे । चैतन्य-
मात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेव तस्मा'दित्यभियुक्तैरुच्यते तत्तु शक्तिम-

सौभाग्यभास्करव्याख्या । ९७
तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ॥ १३० ॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
तोरभेदाभिप्रायेणेति तु शैवरहस्यनिष्कर्षः । संहता नाशिता अशेषाः समस्ताः पाख-
ण्डा यया सा तथोक्ता । पाखण्डस्वरूपं च लैङ्गे ‘वेदवाह्याव्रताचाराः श्रौतस्मार्तबहि-
ष्कृताः । पाखण्डिन इति ख्याता न संभाष्या द्विजातिभि’रिति । ब्रह्मवैवर्तेऽपि
‘पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतु-
र्दशे'ति परिगणितानि विद्यास्थानान्यधिकृत्य ‘एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पि-
तम् । दैत्यानां मोहनार्थाय महामोहेन निर्मित’मिति । ‘पाशब्देन तु वेदार्थः पाख-
ण्डास्तस्य खण्डका’इति तु निरुक्तिः । अतएवाह सदाचारप्रवर्तिके

९८ ललितासहस्रनाम ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंततिः ॥ १३१ ॥
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानस हंसिका ॥ १३२ ॥
महावासिष्टे । तत्त्वमस्यादिमहावाक्यघटकतत्पदस्य जगज्जन्मादिकर्तृत्वविशिष्टं शबलं
ब्रह्म वाच्योऽर्थः । तद्देवेह स्तूयमानं धर्मिमात्रं तु शुद्धं ब्रह्म लक्ष्योऽर्थः । अनयोश्च
विशिष्टकेवलोयोस्तादात्म्यं संबन्धः । तदेतदाह । तदितिपदेन लक्षणीयोऽर्थः यस्याः
यत्तादात्म्यापन्नः सा तत्पदलक्ष्यार्था । धर्मिमात्रपरत्वे तु तत्पुरुषापत्त्या 'परवल्लिङ्गं
द्वन्द्वतत्पुरुषयो'रिति नियमात्पुंलिङ्गतापत्तिः । ननु केवलमपि रूपमानन्दादिधर्मविशिष्ट-
मेवेति वाच्यमेवास्त्वत आह । चिता सहैको रसः स्वरूपं येषां, चिदेव मुख्यो रसो
येषां तानि चिदेकरसानि रूपाण्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरू-
पिणी । स्वाभिन्नधर्मवतीतियावत् । उक्तंच पञ्चपादिकायां, 'आनन्दो विषयानुभवो
नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त'इति । तथाच शक्य-
तावच्छेदकभूतसृष्टिकर्तृत्वादिवर्माणं स्वरूपानन्तर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभे-
देन शक्यतावच्छेदकलाभावाद्भागत्यागलक्षणावश्यकीति भावः । यद्वा केवलं ब्रह्म
नेश्वरस्य धर्मेति तयोर्भेदादुक्तः संबन्धो न घटत इल्यत आह । चिदेकरसं चिन्मात्रा-
भिन्नं रूपमस्या एवेत्यर्थः । तयोर्भेदेऽप्यभेदस्यापि सत्त्वाद्भेदसमानाधिकरणाभेदस्यैव
तादात्म्यरूपत्वादुक्तसंबन्धो घटत एवेति भावः । ननु सृष्टिकर्तृत्वादिवर्माणं स्वरूपा-
नन्तर्गतत्वेऽपि शक्यतावच्छेदकत्वसंभवात्तद्विशिष्टस्यैव तत्पदेन प्रतिपादेन तदभेद एव
वाक्यार्थोऽस्तु । वचनबलाद्विशिष्टयोरपि तादात्म्यस्वीकारसंभवात् । 'यो यच्छ्रद्धः स
एव स'इत्यादिवचनानामुपास्योपासकत्वादिविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात् ।
एतेनैतदन्यथानुपपत्त्या कल्प्यमानस्य निर्गुणस्यापि निरासादिशिष्टकेवलयोः संभवन्नपि
संबन्धोऽप्रयोजक एवेत्यत आह—स्वात्मेति । स्वस्या आत्मरूपो य आनन्दस्तस्य
लवीभूता इन्द्राद्यानन्दबिन्दुपर्यालोचनया सागरायमाणत्वेनाल्पा अपि देव्यानन्दसाग-
रस्य लवाः संपद्यमानाः ब्रह्मादीनां सृष्टिकर्तृत्वादिविशिष्टानां ब्रह्मविष्णुरुद्राणामान-
न्दाना संततयः सम्यक्समूहा यस्याः सा । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रा-
मुपजीवन्ती'ति श्रुतेः । तैत्तिरीये मानुषानन्दमारभ्योत्तरोत्तराधिक्येन वर्ण्यमानानामा-
नन्दानां मध्ये परिगणितानां प्रजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्नब्रह्मा-
नन्दतोऽल्पत्वेन पुरुषार्थत्वायोगादपरिच्छिन्नानन्दस्य निर्गुणस्य सिद्धत्वाच्च पुरुषार्थ-
साधनज्ञानोपक्रमादितात्पर्यनिर्णायकप्रमाणाविरोदाय तत्पदस्य निर्धर्मकात्मलक्षकत्वमेव
युक्तमित्याशयः । 'लवो लेशे विलासे चे'ति विश्वः ॥ १३१ ॥ ननु शब्दार्थयोस्तादा-
त्म्यस्यैव शक्तिपदार्थत्वान्निर्गुणस्यापि ब्रह्मणः शब्दब्रह्माभिन्नत्वेन किमिति तत्र सत्यादि-
शब्दानां लक्षणेत्याशङ्क्य वैखर्यात्मकपदानां विराट्पुरुषेणैव सह तादात्म्येन शुद्धब्रह्म-

सौभाग्यभास्करव्याख्या । ९९
तादात्म्यं नास्त्येवेति समाधित्सया वाचं विभजते । अत्रेदं बोध्यम् । प्रलये सृज्य-
मानप्राणिकर्मणामपरिपाकद्शायां तादृशकर्माभिन्नमायावच्छिन्नं ब्रह्म घनीभूतमित्यु-
च्यते । कालवशात्कर्मणां परिपाके सति विनश्यदवस्थः परिपाकप्राग्भावो विचिकीर्षे-
त्युच्यते । ततः परिपाकक्षणे मायावृत्तिरुत्पद्यते तादृशं परिपक्वकर्माकारपरिगणित-
मायाविशिष्टं ब्रह्माव्यक्तपदवाच्यम् । अतएव तस्योत्पत्तिरपि स्मर्यते 'तस्मादव्यक्तमुत्पन्नं
त्रिगुणं द्विजसत्तमे'ति । स एव जगदङ्कुरकन्दरूपत्वात्कारणबिन्दुपदेन व्यवह्रियते ।
तदुक्तं प्रपञ्चसारे 'विचिकीर्षुर्घनीभूता सा चिदभ्येति बिन्दुता'मिति । अस्माच्च कारण-
बिन्दोः सकाशात्क्रमेण कार्यबिन्दुस्ततो नादस्ततो बीजमिति त्रयमुत्पन्नम् । तदिदं
परसूक्ष्मस्थूलपदैरप्युच्यते । चिदंशश्चिदचिन्मिश्रोऽचिदंशश्चेति तेषां रूपाणि । तदुक्तं
रहस्यागमे 'कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य
त्रैविध्यमिष्यते । स बिन्दुनादबीजत्वभेदेन च निगद्यत' इति । एते च कारणबिन्द्वा-
दयश्चत्वारोऽधिदैवतमव्यक्तेश्वरहिरण्यगर्भविराड्रूपाः, शान्तावामाज्येष्ठारौद्रीरूपा
अम्बिकेच्छाज्ञानक्रियारूपाश्च । अधिभूतं तु कामरूपपूर्णगिरिजालन्धरोड्र्याणपीठरूपा
इति तु नित्याहृदये स्पष्टम् । अध्यात्मं तु कारणबिन्दुः शक्तिपिण्डकुण्डल्यादिशब्दवाच्यो
मूलाधारस्थः 'शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां ज्ञात्वेत्थं न पुनर्विशन्ति
जननीगर्भेऽर्भकत्वं नरा' इत्यादिरीत्याचार्यैर्व्यवहृतः सोयमविभागावस्थः कारणबिन्दुः ।
अयमेव च यदा कार्यबिन्द्वादित्रयजननोन्मुखो भिद्यते तद्दशायामव्यक्तः शब्दब्रह्मा-
भिधेयो रवस्तत्रोत्पद्यते । तदप्युक्तम् । 'बिन्दोस्तस्माद्भिद्यमानादव्यक्तात्मा रवोऽभवत् ।
स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति गीयत'इति । सोयं रवः कारणबिन्दुतादात्म्यापन्न-
त्वात्सर्वगतोऽपि व्यञ्जकयत्नसंस्कृतपवनवशात्प्राणिनां मूलाधार एवाभिव्यज्यते । तदुक्तं
'देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः । विवक्षोरिच्छयोत्थेन प्रयत्नेन सुसंस्कृतः ।
स व्यञ्जयति तत्रैव शब्दब्रह्मापि सर्वग'मिति । तदिदं कारणबिन्द्वात्मकमभिव्यक्तं शब्द-
ब्रह्म स्वप्रतिष्ठतया निष्पन्दं तदेव च परावागित्युच्यते । अथ तदेव नाभिपर्यन्तमा-
गच्छता तेन पवनेनाभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपकार्य-
बिन्दुमयं सत्पश्यन्तीवागुच्यते । अथ तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभि-
व्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दप्रकाशरूपनादमयं सन्मध्यमा-
वागित्युच्यते । अथ तदेव वदनपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानम-
कारादिवर्णरूपपरं श्रोत्रग्रहणयोग्यस्पष्टतरप्रकाशरूपबीजात्मकं सद्वैखरीवागुच्यते ।
तदुक्तमाचार्यैः 'मूलाधारात्प्रथममुदितो यश्च भावः परा

१०० ललितासहस्रनाम ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ १३३ ॥
वैखर्यात्म्य' इत्यादि । इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः
स्थूलदृशो वैखरीमेव वाचं मन्वते । तथाच श्रुतिः 'तस्याद्यद्वाचो नाप्तं तन्मनुष्या
उपजीवन्ती'ति । अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थ इति वेदभाष्ये । श्रुत्यन्तरेऽपि
'चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता
नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ती'ति । स्कान्दे यज्ञवैभवखण्डेऽपि 'अपदं पदमापन्नं
पदं चाप्यपदं भवेत् । पदापदविभागं च यः पश्यति स पश्यती'ति । अपदं गतिरहितं
निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं
ब्रह्मैव भवतीति तदर्थः।एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् 'ते विभक्त्यन्ताः
पद'मिति गौतमसूत्रेण, 'सुप्तिङन्तं पद'मिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणा-
न्तर्गतसुप्प्रत्ययादेरपि चातुर्विध्यात्परात्मकतदपदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन
ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभावेन वैखर्यात्मकतत्पदस्य कैमुतिकन्यायेन दूरापास्तं
तत्तातदात्म्यमिति शब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव
स्वीकार्यैति भावः । मातृकाभेदेषु तिसृभ्यः परत्वात्परा । त्रिपुरासिद्धान्ते तु प्रकारा-
न्तरैरपि निरुक्तिरुक्ता 'श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा । परानन्दाभिधे तन्त्रे
प्रसिद्धत्वाच्च सा परा । प्रासादरूपिणी चेति परा सा शांभवीपरे'ति । प्रतिकूलं
स्वात्माभिमुखमञ्चतीति प्रतीची साच सा चिती च प्रत्यक्चिती अव्यक्तसंज्ञं ब्रह्म
सैव रूपं यस्यास्तथा । चिनोतेः क्विबन्तात् 'कृदिकारादि'ति ङीष् । पश्यतीति पश्यन्ती ।
अस्या एवोत्तीर्णेत्यपि संज्ञा । उक्तंच सौभाग्यसुधोदये 'पश्यति सर्वे स्वात्मनि करणानां
सरणिमपि यदुत्तीर्णा । तेनेयं पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते माते'ति । परा उत्कृष्टा चासौ
देवता च परदेवता । उपास्येश्वरस्वरूपेत्यर्थः । मध्ये स्थिता मध्यमा । तदुक्तं 'पश्यन्तीव
न केवलमुत्तीर्णा नापि वैखरीव बहिः । स्फुटतरनिखिलावयवा वायुरूपा मध्यमा
तयोरस्मा'दिति । विशेषेण खरः कठिनस्तस्येयं वैखरी सैव रूपं यस्याः । घनभाव-
मापन्नेति यावत् । वै निश्चयेन खं कर्णविवरं राति गच्छतीति व्युत्पत्तिः सौभाग्यसुधोदये
कथिता । 'प्राणेन विखराह्वयेन प्रेरिता वैखरी पुन'रिति योगशास्त्रवचनाद्विखरवायु-
नुन्नेति वा । भक्तानां मानसे चित्ते श्लेषभित्तिकाभेदाध्यवसायेन सरोविशेषे हंसीव
हंसिका । परैरज्ञातत्वात्कप्रत्ययः ॥ १३२ ॥ कामेश्वरस्य शिवकामस्य प्राणनाडी
जीवनाडीव । तदुक्तमाचार्यभगवत्पादैः 'करालं यत्क्ष्वेलं कवलितवतः कालकलना न
शंभोस्तन्मूलं तव जननि ताटङ्कमहिमे'ति । कृते सुकृतदुष्कृते जानातीति कृतज्ञा ।
'सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मणो नव साक्षिण'
इत्युक्तनवकाभिन्नेति वा । कृतस्योपकारस्य ज्ञानेन प्रत्युपकर्त्री वा । कृतवत् ज्ञा ज्ञानं

सौभाग्यभास्करव्याख्या । १०१
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ १३४ ॥
यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं ह्रासात्कृते यथा पूर्णं ज्ञानं
तादृशज्ञानवतीत्यर्थः । यद्वा द्यूतशास्त्रे कृतत्रेताद्वापरकलिसंज्ञानि चत्वारि द्यूतानि प्रसि-
द्धानि । तानि चतुस्त्रिद्व्येकाङ्कघटितान्यपि दशपदद्रव्येकरूपाणि । पूर्वपूर्वद्यूते उत्तरोत्तरद्यू-
तानामन्तर्भावात् । तथाच श्रूयते ‘ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृत’मिति
दशानां कृतसंज्ञा । अतएव कृतद्यूतं जितवता त्रेतादिद्यूतत्रयमपि जितं भवतीति
द्यूतशास्त्रमर्यादापि । श्रूयते च ‘कृतायविजितायाधरेऽयाः संयन्ती’ति । अयो द्यूतक्रीडा-
कृतरूपोऽयो विजितो येन तस्मै अधरे तदधस्तना अयास्त्रेतादिक्रीडाः संयन्ति उपनमन्ते
जिता भवन्तीति तदर्थात् । तेन कृतं यथा सर्वव्यापकमेवं सर्वविषयकं ज्ञानं यस्या
इत्यर्थः । कृतं जानातीति वा । शिवेन सह द्यूतक्रीडायामवश्यं कृतज्ञत्वाद्देव्या एव
जय इति ध्वन्यम् । कामेन मन्मथेन पूजितोपासिता । अतएव वारुणोपनिषदि ‘पुत्रो
निर्ऋत्या वैदेह अचेता यश्च चेतनः । स तं मणिमविन्द’दिति श्रूयते । लक्ष्म्याः पुत्रोऽनङ्गो
विद्यारत्नं प्राप्तवानित्यर्थः । शृङ्गाराद्यैरसेन सम्यक् पूर्णा । अथवा उत्तरत्र जाल-
न्धरोड्याणपीठयोः परामर्शदर्शनादनयोर्नाम्नोः कामरूपं पूर्णगिरिपरत्वं नामैकदेश-
न्यायेनास्थेयम् । सम्यक् पूर्णे आस्ते इति संपूर्णास् । आस्तेः क्विपि रुत्वयत्वलोपाः ।
शृङ्गपदेन द्विसंख्या । अपरपदेन दलम् । रसाः षट् । द्विदलंषट्कं द्वादशदलमनहत-
चक्रमिति यावत् । अधिभूतं प्रसिद्धस्य पीठचतुष्कस्याध्यात्मं मूलाधारानाहतविशुद्ध्याज्ञा-
स्थिते तन्त्रेषु कथनाद्द्वादशदलेति पूर्णगिरिविशेषणम् । यद्वा शृङ्गं प्रधानभूतं अररं कवाटं
आवरकाविद्येति यावत् यस्याः सा शृङ्गाररा । संपूर्णेन ब्रह्मणा सहिता ससंपूर्णा ।
उभयोः कर्मधारये शबलब्रह्मशुद्धब्रह्मोभयवतीति यावत् । जयरूपत्वाज्जया । पाद्मे
‘जया वराहशैले त्वि’ति परिगणिता । जालन्धरे पीठविशेषे स्थिता । पाद्मे ‘जालन्धरे
विष्णुमुखी’ति प्रतिपादितविष्णुमुखव्याख्या ॥ १३३ ॥ अथ नामपरिभाषामण्डले चतु-
श्चत्वारिंशत्पदानि विभजते ॥ द्वेद्वे चेद्वेद्वेभवदोहदभुविलेशशीलजलमोहैः ।
द्यर्धचतुर्भवगाः स्सो भुवि जलशोभा भगोलः खे ॥ १७ ॥ अत्र तृतीयं द्वे
इति पदं षडक्षरनामद्वयपरं इतराणि त्वष्टाक्षरपराणि । चतुःपदं चतुरक्षरनामचतु-
ष्टयपरम् ॥ १७ ॥ ओड्याणाख्यं पीठमेव निलयो वासस्थानं यस्याः । बिन्दुरेव मण्डलं
सर्वानन्दमयात्मकं चक्रवालं तत्र वसति । बिन्दुः शुक्लं तस्य मण्डलं ब्रह्मरन्ध्रमित्यन्ये ।
‘सहस्रारे पद्मे सह रहसि पत्या विहरसे’ इत्याचार्योक्तेः । रहसि विविक्ते क्रियमाणो
यागश्चिदमौ अनच्ककुण्डलन्यधिष्ठिते पुंन्यादिहोमाष्टकरूपो रहोयागस्तस्य क्रमेण प्रयो-
गेणाराध्या । ‘यज देवपूजासंगतिकरणदानेष्वि’ति धातुपाठादेकान्तसंगतिरेव वा
रहोयागः तत्र क्रमेण पादविक्षेपेणाराध्या प्राप्या । यदाहापस्तम्बः ‘न शब्दशास्त्रा-

१०२ ललितासहस्रनाम ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ १३५ ॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ १३६ ॥
भिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य । न भोजनाच्छादनतत्परस्य न लोकचित्त-
ग्रहणे रतस्य । एकान्तशीलस्य दृढव्रतस्य मोक्षो भवेत्प्रीतिनिवर्तकस्य । अध्यात्मयोगे
निरतस्य सम्यङ्मोक्षो भवेन्नित्यमहिंसकस्ये'ति । अरुणोपनिषदपि 'यदि प्रविशेत् मिथो
चरित्वा प्रविशेदिति । श्रीविद्योपासनामार्गे रहःसंपाद्यैव प्रविशेदिति तदर्थः । 'मिथो-
ऽन्योन्यं रहस्यपी'तिकोशात् 'प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनी स्रुचम् । धर्माधर्म-
कलास्नेहं पूर्णवह्नौ जुहोम्यह'मिति । मन्त्रोक्तार्थविभावनं 'अन्तर्निरन्तरनिरिन्धनमे-
धमाने मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासभूमौ विश्वं
जुहोमि वसुधादिशि वा वसान'मिति । मन्त्रार्थविभावनं च रहस्तर्पणं तेन तर्पिता
॥ १३४ ॥ तादृशयागतर्पणाभ्यां सद्यस्तदात्व एव प्रसीदतीति तथा । विश्वस्य द्रष्ट्री
साक्षादव्यवधानेन स्वरूपात्मकबोधेनेति विश्वसाक्षिणी । 'साक्षाद्द्रष्टरि संज्ञाया'मितीन् ।
सर्वसाक्षिण्याः साक्ष्यन्तरायोगात्साक्षिवर्जिता । षडवयवकान्यङ्गानि हृदयशिरःशिखा-
नेत्रकवचास्त्राणि तेषां देवताभिः शक्तिभिर्युक्ता आवृता । ज्ञानार्णवादिषु 'अथाङ्गावरणं
कुर्याच्छ्रीविद्यामनुसंभवम् । षडङ्गावरणाद्वाह्यसमीपे क्रमतोऽर्चयेत् । परिवारार्चनं
पश्चादादावङ्गावृत्तः प्रिये'इत्यादिव्यवहारदर्शनेन तासामप्यावरणदेवतात्वात्, ताभिः
सहैव नवावरणसंख्यापूर्तेः संभवाच्च । षण्णामङ्गानामधिष्ठात्री देवता महेश्वर एव ।
तेन युक्ता वा । उक्तंच देवीभागवते 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्त-
शक्तिः । अनन्तता चेति विधेर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्ये'ति । शिक्षाकल्पादि-
षडङ्गाभिमानिदेवतासाहित्याच्छ्रुतिस्वरूपेति वार्थः । संधिविग्रहयानासनद्वैधीभावसमा-
श्रयाणां कामन्दकोक्तानामैश्र्वर्यधर्मयशःश्रीज्ञानवैराग्याणां पुराणप्रसिद्धानां वा षण्णां
गुणानां समूहः षाङ्गुण्यं तेन परितः पूरिता ॥ १३५ ॥ नित्यं दयया क्लिन्ना सार्द्रा ।
तृतीयातिथिनित्या नित्यक्लिन्नेत्युच्यते । इयं गरुडपुराणे 'नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां
भुक्तिमुक्तिदा'मित्यादिना प्रपञ्चिता तद्रूपा वा । निर्गतोपमा सादृश्यं यस्याः सा
निरुपमा । 'न तस्य प्रतिमास्ती'तिश्रुतेः । निर्गतं बाणं शरीरं यस्मिंस्तदशरीरम् ।
'एतद्वाणमवष्टभ्ये'तिश्रुतौ वेदान्तिभिर्गीर्वाणपदे च मीमांसकैर्बाणशब्दस्य शरीरपरत्वेन
व्याख्यानात् । 'शरीरे बाणमुद्गला'वित्यमरशेषाच्च । अशरीरं इयत्तानवच्छिन्नं सुखं
मोक्षाख्यं ददातीति तथा । कौर्मे हिमवन्तंप्रति देवीवाक्यं 'मामनादृत्य परं निर्वा-
णममलं पदम् । प्राप्यते नहि शैलेन्द्र ततो मां शरणं व्रज । एकत्वेन पृथक्त्वेन तथाचो-
भयतोऽपि वा । मामुपास्य महाराज ततो यास्यसि तत्पद'मिति । षोडशैव षोडशिकाः

सौभाग्यभास्करव्याख्या । १०३
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ १३७ ॥
नित्याश्च ताः षोडशिकाश्च कामेश्वर्यादित्रिपुरसुन्दर्यन्तास्तासां रूपाणि यस्याः सा । उक्तं
च तन्त्रराजे 'आद्याया ललितायाः स्युरन्याः पञ्चदशाङ्गगाः । ललिताखिलरूपेण
सर्वासामात्मविग्रहे'ति । षोडश्येव षोडशिकेति वा । नित्यो विकल्पसहित आसमन्ता-
त्षोडशिको ग्रहयागाभ्यासविशेषो येषु क्रतुषु तैरासमन्ताद्रूप्यते प्रीयत इति वा ।
अतिरात्रे विकल्पितस्यापि षोडशिग्रहस्योत्तरेऽहन् द्विरात्रस्य गृह्यत' इत्यादिवचनैरुत्तर-
क्रतुषु नित्यत्वात् । उक्तंच शक्तिरहस्ये 'कोटिभिर्वाजपेयानां यथा षोडशकोटिभिः ।
प्रीयतेऽम्बा तथैकेन षोडश्युच्चारणेन से'ति । श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठः शिवस्त-

१०४ ललितासहस्रनाम ।
परमा उत्कृष्टा च सेश्वरी स्वामिनी च । मूलस्य श्रीविद्यामन्त्रस्य प्रकृतिः कारणभूत-
प्रकाशविमर्शाख्याक्षरद्वयरूपा । सांख्यमतप्रसिद्धा वा मूलप्रकृतिः । यदाहुः 'मूल-
प्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः
पुरुष'इति । मृगेन्द्रसंहितायां तु 'महदादिससकरूपसुषुम्णावेष्टिता कुण्डलिन्येवाष्टप्रकृति-
रूपा मूलप्रकृतिरुच्यत' इत्युक्तं तेन तद्रूपा वा । अथवा पृथिव्यादीनामाकाशान्तानां
मध्ये पूर्वपूर्वस्य विकृतिभूतस्योत्तरोत्तरं भूतं प्रकृतिः । आकाशस्य तु ब्रह्मैव प्रकृतिः ।
'आत्मन आकाशः संभूत'इति श्रुतेः । तस्य तु न प्रकृत्यन्तरमतो मूलस्थानीया प्रथमा
प्रकृतिरित्यर्थः । अतएव पञ्चरात्रागमे शिववाक्यम् 'प्रादुरासीज्जगन्माता वेदमाता सर-
स्वती । यस्या न प्रकृतिः सेयं मूलप्रकृतिसंज्ञिता । तस्यामहं समुत्पन्नस्तत्त्वैस्तैर्महदादि-
भि'रिति । अत्रेदं बोध्यम् । नियतकालपरिपाकानां हि कर्मणां मध्ये परिपक्काना-
मुपभोगेन क्षयादितरेषां च पक्कानां भोगसंभवेन तदर्थायाः सृष्टेरनुपयोगात्प्राकृतप्रलयो
भवति । तदा ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठे परमशिवे निष्कले विलीना सती
यावदवशिष्टकर्मपरिपाकं तथैव तिष्ठति । तदुक्तं 'प्रलये व्याप्यते तस्यां चराचरमिदं
जग'दिति । विष्णुपुराणेऽपि 'जगतप्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः
प्रलीयन्ते तेजो वायौ प्रलीयते । वायुः प्रलीयते व्योम्नि तदव्यक्ते प्रलीयते । अव्यक्तं
पुरुषे ब्रह्मन्निष्कले संप्रलीयत' इति । अव्यक्तं माया । तस्याश्च लयो नाम मुक्ताविव
नात्यन्तिको नाशः किंतु सुषुप्तावन्तःकरणवृत्तीनामिव मायावृत्तीनामनुदयादत्यन्तनिर्वि-
कल्पात्मनः परमात्मप्रकाशस्य बलाद्द्वानसत्वेऽप्यप्रतिभातप्रायत्वम् । सर्वथा भानाभावे
वस्तुन एवाभावापत्तेः । इष्टापत्तावुत्तरत्र सर्गानुषपत्तेः । अवशिष्टैः प्राणिकर्मभिश्च तस्यां
मायायां विलीयैव क्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परशिवस्य सिसृक्षात्मिका
मायावृत्तिरुत्पाद्यते । सैषा मायावस्था ईक्षणकामतपोविचिकीर्षादिशब्दैरुच्यते । 'स
ईक्षत लोकान्नु सृजा' इत्यैतरेये । 'तदैक्षत बहु स्यां प्रजायेये'ति छान्दोग्ये । 'सो-
ऽकामयत बहु स्यां प्रजायेये'ति तैत्तिरीये । 'तपसा चीयते ब्रह्मे'ति मुण्डके । तादृश-
वृत्तिविषयतया सविकल्पकत्वेन मायाया यत्स्फुरणं सोऽयमबुद्धिपूर्वकस्तमसः सर्गः
प्रथमः । 'नासदासीन्नो सदासी'दित्यत्त्य ‘तम आसीत्तमसा गूळ्हमग्र' इत्यन्ता श्रुतिः
'तस्मादव्यक्तमुत्पन्न'मित्यादिस्मृतिरप्येतत्परैव । एतस्मादविभागापन्नगुणत्रयादव्यक्त्ततमः-
पदवाच्यादन्तर्विभागस्थगुणत्रयात्मकस्येषद्व्यक्तस्य महतः सर्गो द्वितीयः । तदुक्तं 'अव्य-
क्तादन्तरुदितत्रिभेदग्रहणात्मकम् । महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथे'ति । तस्मा-
द्बहिर्विभागगुणत्रयावस्थस्याहंकारस्य सर्गस्तृतीयः । 'वैकारिकस्तैजसश्च भूतादिश्चैव
तामसः । त्रिविधोऽयमहंकारो महत्तत्त्वादजायते'तिवचनात् । अत्र भूतादेस्तामसत्वेन
विशेषणादन्ययोः सात्विकराजसत्वे सूचिते । तत्र भूतादिनामकात्तामसाहंकाराद्रज-
सावष्टम्भात्तन्मात्रारणां सर्गश्चतुर्थः । वैकारिकनाम्नः सात्विकादहंकाराद्रजोवष्टम्भादे-
कादशेन्द्रियगणस्य सर्गः पञ्चमः । राजसात्तैजसादहंकारादुभयाधिष्ठातृदिग्वातार्कप्रचेतो-
ऽश्व्यादिदेवतासर्गः षष्ठः । यदाहुः सांख्याः 'सात्विक एकादशकः प्रवर्तते वैकृतादहं-

सौभाग्यभास्करव्याख्या । १०५

कारात् । भूतादेस्तामसत्तस्तन्मात्रं तैजसादुभय’मिति । शैवमते तु सात्विकादहमो मनो
राजसादहमो दशेन्द्रियाणीति विशेषः । यदाहुः शैवाः ‘सात्विकराजसतामसभेदेन स
जायते पुनस्त्रेधा । सच तैजसवैकारिकभूतादिकनामभिः समुल्लसति । तैजसतस्तत्र
मनो वैकारिकतो भवन्ति चाक्षाणि । भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतत्सा’दिति ।
एते च षट्सर्गाः प्राकृताः । वृक्षादिरूर्ध्वस्रोतो रूपः पश्चादिस्तिर्यक्स्रोतो रूपो भूतप्रे-
तादिरर्वाक्स्रोत इति त्रयो वैकृताः । प्राकृतवैकृतात्मक एकः कौमारसर्ग इति ।
तदुक्तं विष्णुभागवते ‘आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमो यत्र
द्रव्यज्ञानक्रियोदयः । भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः
सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः

१०६ ललितासहस्रनाम ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥ १३८ ॥
व्यष्टिं मुनीश्वरा' इति नृसिंहपुराणात् । त्रयोविंशतितत्वप्रकृतिरूपा वा । 'त्रयोविंशति-
तत्वानि व्यक्तशब्देन सूरयः । वदन्त्यव्यक्तशब्देन प्रकृतिं च परां तथे'ति ब्रह्माण्ड-
पुराणात् । अथवा व्यक्ताव्यक्ते च व्यक्ताव्यक्तं चेति पुनरेकशेषान्तरेण व्यक्तमव्यक्तं
व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेत्यर्थः । तल्लक्षणानि ब्रह्मवैवर्तपुराणे 'स्वायंभुवं बाण-
लिङ्गं शैललिश्रमिति त्रिधा । कीर्तितं व्यक्तमव्यक्तं व्यक्ताव्यकमिति क्रमात् । व्यक्तं
मुक्तिप्रदं मुक्तिप्रदमव्यक्तमुच्यते । मुक्तिमुक्तिप्रदं लिङ्गं व्यक्ताव्यक्तं प्रचक्षते । द्वित्रि-
तुलां समारूढं वृद्धिमेति न हीयते । तद्वाणलिङ्गमुदितं शेषं शैलं विदुर्बुधा' इति ।
अथवा पक्वमलेषु सुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । तदुक्तं शक्तिरहस्ये शक्ति-
पातशब्दार्थनिरूपणावसरे 'व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् । ऊर्ध्वा-
दधोगतिः पातो मूर्तस्यासर्वगस्य च । सत्यं सा व्यापिनी नित्या सहजा शिववत्स्थिता ।
किं त्वियं मलकर्मादिपाशबद्धेषु संवृता । पक्वदोषेषु सुव्यक्ता पतितेत्युपचर्यत' इति
॥ १३७ ॥ अहंकारत्रयकार्यरूपावशिष्टप्राकृतसर्गत्रित्यात्मकतया परिणामाद्व्यापिनी ।
सर्वजगद्व्यापिका वा ॥ इति भास्कररायेण कृते सौभाग्यभास्करे । चतुर्थ-
शतकेनाभूत्पञ्चमी ज्वालिनी कला ॥ ४०० ॥ इति श्रीमल्ललिता-
सहस्रनामभाष्ये चतुर्थशतकं नाम पञ्चमी कला ॥ ५ ॥
प्राकृता वैकृताः सर्गाः कौमारसर्गश्चेत्येवं विविधा आकारा यस्याः सा । 'विद्यां
चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' इति श्रुतौ
प्रसिद्धे विद्याविद्ये । विद्या स्वात्मरूपं ज्ञानम् । अविद्या चरमवृत्तिरूपं ज्ञानम् । तदुभयं
स्वरूपमस्याः । उक्तंच बृहन्नारदीये 'तस्य शक्तिः परा विष्णोर्जगत्कार्यपरिक्षमा ।
भावाभावरूपा सा विद्याविद्येति गीयत' इति । देवीभागवतेऽपि 'ब्रह्मैव साति
दुष्प्रापा विद्याविद्यास्वरूपिणी'ति । तत्रैव स्थलान्तरे 'विद्याविद्येति देव्या द्वे रूपे
जानीहि पार्थिव । एकया मुच्यते जन्तुरन्यया बध्यते पुन'रिति । यद्वा । विद्यैव
चरमवृत्तिरूपं ज्ञानं । अविद्या भेदभ्रान्तिरूपं ज्ञानं । खः परब्रह्मात्मकं ज्ञानं । खप-
'दस्यात्मवाचित्वात् । 'खो ज्ञातावात्मनी'ति कोशात् । एतत्त्रयं रूपमस्याः । उक्तंच
लैङ्गे 'भ्रान्तिर्विद्या परं चेति शिवरूपमिदं त्रयम् । अर्थेषु भिन्नरूपेषु विज्ञानं भ्रान्ति-
रुच्यते । आत्माकारेण संवित्तिर्बुधैर्विद्येति कथ्यते । विकल्पसहितं तत्वं परमित्यभि-
धीयत' इति । महांश्चासौ कामेशश्चेति वा महाकामो महेच्छो महाशयश्चासावीशश्चेति
वा महाकामेशस्तस्य नयने एव कुमुदे कैरवे रक्तपङ्कजे वा तयोराह्लादे विकासे सुखा-
तिशयकृतनिमीलने वा कौमुदी चन्द्रिकेव । कार्तिकपूर्णिमेवेति वा । 'कुमुदं कैरवे रक्त-
पङ्कजे कुमुदः कपौ । कामुदः कार्तिके मासि चन्द्रिकायां च कौमुदी'ति यादवः ।
अथवा । कुत्सिता नश्वरत्वाधिकदुःखसंमिश्रलादिहेतुभिर्निन्द्या मृत्प्रीतिर्येषां ते कुमुदो

सौभाग्यभास्करव्याख्या । १०७
भक्तह हार्दतमोभेदभानुमद्भानुसंततिः ।
शिवदूती शिवारोध्या शिवमूर्त्तिः शिवंकरी ॥ १३९ ॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ १४० ॥
वैषयिकाः अतएव तेषामनुकम्प्यत्वाभिप्रायेण 'कृपणे कुनुदे कुमुदि'ति शाश्वतः । 'स्या-
त्कुमुत्कृपणेऽन्यवदि'ति विश्वश्च । तेषामासमन्ताद्भासो हादः सुखातिशयो मोक्षरूप इति
यावत् । सच महाकामेशंप्रति नयनेन प्रापणेनेति तृतीयासमासः । शिवप्रापणजन्यस्य
वैषयिकनिष्ठस्य सुखस्य कौमुदी प्रकाशिका ॥ १३८ ॥ भक्तानां हृदि भवानि यानि
तमांस्यावरणशक्तिमन्त्यज्ञानानि तेषां भेदे नाशने भानुमतः सूर्यस्य भानुसंततिः किरण-
परम्परेव । 'हृदयस्य हल्लेखयदण्लासेष्वि'ति हृदादेशः । 'तत्र भव'इत्यण् । शिवो
दूतोऽल्पं यथाभवति तथा संदेशप्रापको यस्याः सा शिवदूती । 'दूञ् उपतापे' ।
यथोक्तवक्तृत्वा दूतोऽप्युपतापकर । 'दूती संचारिके समे' इति कोशे संचारशब्दोऽपि
संदेशसंचारपरः । दुनोतेर्निष्ठायां 'द्रुतनिभ्यां दीर्घश्चे'ति दीर्घः । 'कादल्पाख्याया' मिति
ङीप् । बहुव्रीहेः क्तान्ताददन्तादल्पत्वे द्योत्ये स्त्रियां ङीधिति तदर्थः । उक्तंच मार्क-
ण्डेयपुराणे 'यंतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोके-
ऽस्मिंस्ततः सा ख्यातिमागते'ति । एतद्व्याख्याकारास्तु शिवेन संदेशं प्रापयतीति शिव-
दूती । गौरादेराकृतिगणत्वात्ङीष् बहुव्रीहौ तु टाप् स्यादित्याहुस्तच्चिन्त्यम् । इयं च
पुष्कराख्ये तीर्थे स्थिता । तदुक्तं पद्मपुराणे पुष्करखण्डे 'अथ तेऽन्याः प्रवक्ष्यामि
पुष्करे या व्यवस्थिता' इति प्रकृत्य 'शिवदूती तथा वेदी क्षेमा क्षेमंकरी सदे'त्यादि ।
शिवेनाराध्योपास्या । तदुक्तं ब्रह्माण्डपुराणे 'शिवोऽपि यां समाराध्य ध्यानयोगबलेन च।
ईश्वरः सर्वसिद्धीनामर्धनारीश्वरोऽभवदि'ति । शंकरोपासितचतुष्कूटविद्यास्वरूपा वा ।
शिव एव मूर्त्तिः स्वरूपं यस्याः शिवशक्त्योरभेदात् । तदुक्तं 'एको रुद्रः सर्वभूतेषु गूढो
माया रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्ना ह्येतज्ज्ञात्वैवामृतत्वं
व्रजन्ती'ति । शिवा मङ्गलमयी मूर्त्तिर्यस्या इति वा । शिवो मोक्ष एव रूपं यस्या वा ।
मोक्षस्यात्ममात्रस्वरूपत्वात् । तदुक्तं सौरसंहितायां चतुर्दशाध्याये 'अथ मुक्तेः स्वरूपं
ते प्रवक्ष्यामि समासतः' इत्यारभ्य 'तस्मादात्मस्वरूपैव परा मुक्तिरविद्यया । प्रतिबद्ध्वा
विशुद्धस्य विद्यया व्यज्यतेऽनघे'त्यन्तम् । भक्तं शिवमेव करोति अविद्यापाशनिरासेन
मुक्तप्राप्यं ब्रह्म करोतीवेत्युपचारात् । मङ्गलं करोतीति वा शिवंकरी । 'कृञो हेतु-
ताच्छील्यानुलोम्येष्वि'ति टः । 'शिवशमरिष्टस्य कर' इति मुम् ॥ १३९ ॥ शिवस्य
प्रिया । शिवः प्रियो यस्या इति वा । शिवात्परा शिवस्य शक्त्यधीनात्मलाभकत्वात् ।
शिवः परो यस्या इति वा । शिवप्रतिपादकत्वाद्वा शिवपरा । अयं शिवशब्द एतत्पर
इत्यत्रैवमेव व्याख्यादर्शनात् । शिष्टान्वनुशिष्टानि विहितकर्माणि इष्टानि इच्छाविषयाः
प्रियाणि यस्याः सा शिष्टेष्टा । 'इषु इच्छाया'मिति धातोः कर्मणि निष्ठायाम्राष्टमिति

१०८ | ललितासहस्रनाम ।

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।

रूपम् । यद्वा शिष्टैर्विहितकर्मभिरिष्टा पूजिता । यजतेर्निष्ठायां संप्रसारणे 'व्रश्चे'ति षत्वे
च रूपम् । 'स्वस्ववर्णाश्रमैर्धर्मैः सम्यग्भगवदर्पितैः । यत्पूजनं न तद्गन्धमाल्यादीनां
समर्पणै'रिति वचनात् । 'आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत'इति महाभारतबृह-
न्नारदीययोर्वचनाच्च । यद्वा 'न पाणिपादचपलो न नेत्रचपलो भवेत् । नच वागङ्ग-
चपल इति शिष्टस्य गोचरः । पारंपर्यागतो येषां वेदः सपरिवृंहणः । ते शिष्टा ब्राह्मणा
ज्ञेयाः श्रुतिप्रत्यक्षहेतव' इति वसिष्ठसूत्रोक्तलक्षणकाः शिष्टास्ते इष्टा यस्याः सा । यद्वा
शिष्टैरिष्टा पूजिता । इममेवार्थं स्पष्टमाचष्टे शिष्टपूजिता । प्रमातुं योग्या प्रमेया प्रमेया
न भवतीत्यप्रमेया । अकारार्थैर्ब्रह्मविष्ण्वादिभिः प्रमेया वा । अप्सु प्रमेया वा । 'मम
योनिरप्स्वन्तःसमुद्र'इति श्रुतेः । स्वः आत्माभिन्नः प्रकाशो यस्याः । दृश्यत्वाभावेन
पराप्रकाश्यत्वात् । 'अत्रायं पुरुषः स्वयंज्योति'रिति श्रुतेः । सुषु अप्सु प्रकाशो यस्या
वा । मनांसि च वाचश्च मनोवाचस्तेषां तासां चागोचरा अविषयः । 'यतो वाचो
निवर्तन्ते । अप्राप्य मनसा सहै'ति श्रुतेः । विष्णुपुराणे प्रह्लादवचनंच 'यातीतगोचरा
वाचां मनसां चाविशेषणा । ज्ञानज्ञानपरिच्छेद्या वन्दे तामीश्वरीं परा'मिति । 'स्त्री-
शूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरे'त्यादाविव गो

सौभाग्यभास्करव्याख्या । १०९

गायत्री व्याहृतिः संध्या द्विजवृन्दनिषेविता ॥ १४१ ॥

यास्कस्मृतेः । 'चिदिति चोपमार्थे प्रयुज्यमान' इति पाणिनिस्मरणाच्च । 'द्वे अक्षरे
ब्रह्मपरे अनन्ते विद्याऽविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्या-
ऽविद्ये ईशते यस्तु सोऽन्य' इति श्वेताश्वतरनिर्दिष्टं विद्यापदेनोच्यते । अविद्यानिवारकत्व-
रूपं सामर्थ्यं चैतन्यापरपर्यायं वा चिच्छक्तिः । देवीभागवते पञ्चमस्कन्धे 'वर्तते
सर्वभूतेषु शक्तिः सर्वात्मना नृप । शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चि-
च्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव ही'ति । तदेवाह चेतनारूपा । 'चिच्छक्तिः
परमेश्वरस्य विमला चैतन्यमेवोच्यत'इति संक्षेपशारीरकाचार्याः । 'चैतन्यस्वरूपा शक्ति'-
रिति गौडपादीयसूत्रं च । देवीभागवते प्राथमिकश्लोकेऽपि 'सर्वचैतन्यरूपां तामाद्यां
विद्यां च धीमहि । बुद्धिं या नः प्रचोदया'दिति । इयं च त्रिचरणा गायत्री । अतएव
मात्स्ये 'गायत्र्या च समारम्भस्तद्वै भागवतं विदु'रिति । 'सैषानन्दस्य मीमाꣳसा
भवती'ति श्रुतिरपि । आनन्दस्य ब्रह्मणः सैषा चिद्रूपा शक्तिर्मीमांसा भवति विम-
र्शात्मिका भवतीति शंकरारण्यचरणैर्विद्यारत्ने व्याख्यानदर्शनात् । स्रष्टव्यजगदात्मक-
शक्यप्रतियोगिको मायापरिणामविशेषो जडशक्तिः । सृज्यशक्तिमात्रोपलक्षणमेतत् ।
उक्तं च विष्णुपुराणे 'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । शतशो ब्रह्मणस्तास्तु
सर्गाद्या भावशक्तयः । भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता । निमित्तमात्रमेवासौ
सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रं मुक्त्वैकं
नान्यत्किंचिदपेक्षते । नीयते तपसां श्रेष्ठ स्वशक्त्या वस्तुवस्तु ता'मिति । जडं दृश्य-
मात्रमात्मा स्वरूपं यस्या मायायाः सा जडात्मिका । चतुर्विंशत्यक्षरं छन्दो गायत्री ।
'गायत्री छन्दसामह'मिति गीतः । 'गायत्री छन्दसामसी'ति कौर्मे देवीस्तवे च ।
यद्वा गायत्र्याख्या गोपकन्या ब्रह्मणः कनिष्ठपत्नी । तदुक्तं पद्मपुराणे पुष्करक्षेत्रे
ब्रह्मणि यागं कुर्वतिसति समाहूता सावित्री, लक्ष्म्यादिका अद्यापि नागतास्ताभिः
सहागच्छामीत्युत्तरमदात् । तेन वचनेन कुपितो ब्रह्मा शक्तिहस्तात्कांचिद्गोपकन्यामा-
नाय्य विष्णुं प्रत्युक्तवानिति प्रकृत्य 'तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं च नः ।
दैवी चैषा महाभाग गायत्री नामतः प्रभो । एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम् ।
तदेनामुद्वहस्वाद्य मया दत्तां तव प्रभो । गान्धर्वेण विवाहेन विकल्पं मा कृथाश्चिरम् ।
गृहाण गोपकन्याया अस्याः पाणिमनाकुलम् । गान्धर्वेण ततो गोपीमुपयेमे पितामहः'
इत्यादि । तेन तादृशगोपकन्यारूपेत्यर्थः । अथवा 'गायन्तं त्रायते यस्माद्गायत्री तेन
कथ्यत'इति गायत्रीकल्पे भरद्वाजस्मृत्युक्तनिर्वचनाद्वेदमातरि प्रसिद्धो गायत्रीशब्दस्तदभे-
दादम्बाया अपि वाचकः। 'आतोऽनुपसर्गे क'इति कः। गौरादित्वात्ङीष्। तदुक्तं पद्मपुराणे
'विशेषात्पुष्करे ज्ञात्वा जपेन्मां वेदमातरम् । अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विद'
म्मिति । देवीपुराणेतु 'गायनाद्गमनाद्वापि गायत्री त्रिदशार्चिते'त्युक्तम् । 'गायति च त्रायते
१०