सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 124, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 124

९६ ललितासहस्रनाम ।
संछन्नो मायाकर्मावृतो विभुः । शरीरशिवतत्वज्ञो भेदैकसिको लघुः । सर्वदा कर्मकर्ता
च स्वकर्मफलभोजकः । नित्यं विषयसंरक्तः सकलः पशुरुच्यत' इति । अत्र मलमायाश-
ब्दावणुभेदपरौ । एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः । तत्र ये पक्व-
मलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशन्मन्त्रेश्व-
रतामाप्ता वर्तन्ते । ते च शतरुद्राख्या अष्टौ शतमण्डलिनोऽष्टौ क्रोधभट्टारकादयो वीरेश्वरः
श्रीकण्ठश्चेति द्वाविति । अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्कमलत्रयांस्तु
भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव । तदुक्तं 'मलादीनाम-
पाके तु सामान्यानुग्रहो भवेत् । अधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः । पशवस्त्रिप्र-
कारास्तु प्राप्नुयुः परमेश्वरी'ति । 'नानायोनिषु पाकाय नियुङ्क्तेऽनुजिघृक्षये'ति च ।
अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः ।
तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते । आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भव-
न्ति । तदुक्तं स्वच्छन्दसंग्रहे । 'मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः । पुर्यष्टक-
शरीराश्च पृथक्कर्मवशात्प्रिये । सर्वयोनिषु संप्राप्य भोगाय स्वस्वकर्मणाम् । भुक्त्वा भोगानि
तेषां तु कर्मसाम्ये शिवः स्वयम् । सुपक्वमलकर्मांस्तान्किंचिदनुगृह्य च । जलतत्त्वादि-
तत्त्वानां मध्ये लोकेश्वराभिधे'ति । आणवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं 'मल-
मात्रेण संवद्धः पशुर्विज्ञानकेवलः । सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये' इति ।
तेऽपि समाप्तकलुषा असमाप्तकलुषाश्चेति द्विविधाः । तत्राद्या विद्येश्वराः । अन्यास्तु
सप्तकोटिमहामन्त्रात्मकाः । नच तेषां जडत्वमिति शङ्क्यम् । शब्दरूपशरीराणां जड-
त्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः । अतएव मृगेन्द्रसंहितायाम् । 'अथाना-
दिमलापेतः सर्वकृत्सर्वदृक् शिवः । पूर्वं व्यत्वासितस्याणोः पाशजालमपोहती'ति ।
आगमिका अप्याहुः । 'भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम् । जडवर्गस्य विधत्ते
सर्वानुग्राहकः शंभु'रिति । अपक्वाणवमलत्वजीवत्वादेव मन्त्राणामणुसंज्ञापि । एवं षड्वि-
धानामपि पशूनां मलपाकतारतम्यान्यान्यदानन्ता भेदाः । तेषां च तत्तत्तारतम्यार्हयो-
निप्रापणैश्वर्यदानान्धपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव । तथाच पशू-
नामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमो-
चिनी । नच मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम् । मोचक-
त्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृत्ताया अन्वयव्यतिरेकाभ्यां शक्तावेव
स्वीकर्तुं युक्तत्वात् । तदुक्तमभियुक्तैः 'शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत'इति । किंच स्वातन्त्र्यं हि कर्तृत्वं । 'स्वतन्त्रः कर्ते'ति
पाणिनिसूत्रात् । तच्च शक्तिगतमेव । तथाच शक्तिसूत्रं 'चितिः स्वतन्त्रा विश्वसिद्धिहेतु'रिति ।
यत्तु 'चैतन्यमात्मे'ति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलङ्गबलाच्च कर्तृत्वादिधर्माभा-
वपरम् । यत्तु 'चितिः स्वतन्त्रा विश्वसिद्धिहेतुरित्याद्यसूत्रं किल शक्तिशास्त्रे । चैतन्य-
मात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेव तस्मा'दित्यभियुक्तैरुच्यते तत्तु शक्तिम-