ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 135, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १०७
भक्तह हार्दतमोभेदभानुमद्भानुसंततिः ।
शिवदूती शिवारोध्या शिवमूर्त्तिः शिवंकरी ॥ १३९ ॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ १४० ॥
वैषयिकाः अतएव तेषामनुकम्प्यत्वाभिप्रायेण 'कृपणे कुनुदे कुमुदि'ति शाश्वतः । 'स्या-
त्कुमुत्कृपणेऽन्यवदि'ति विश्वश्च । तेषामासमन्ताद्भासो हादः सुखातिशयो मोक्षरूप इति
यावत् । सच महाकामेशंप्रति नयनेन प्रापणेनेति तृतीयासमासः । शिवप्रापणजन्यस्य
वैषयिकनिष्ठस्य सुखस्य कौमुदी प्रकाशिका ॥ १३८ ॥ भक्तानां हृदि भवानि यानि
तमांस्यावरणशक्तिमन्त्यज्ञानानि तेषां भेदे नाशने भानुमतः सूर्यस्य भानुसंततिः किरण-
परम्परेव । 'हृदयस्य हल्लेखयदण्लासेष्वि'ति हृदादेशः । 'तत्र भव'इत्यण् । शिवो
दूतोऽल्पं यथाभवति तथा संदेशप्रापको यस्याः सा शिवदूती । 'दूञ् उपतापे' ।
यथोक्तवक्तृत्वा दूतोऽप्युपतापकर । 'दूती संचारिके समे' इति कोशे संचारशब्दोऽपि
संदेशसंचारपरः । दुनोतेर्निष्ठायां 'द्रुतनिभ्यां दीर्घश्चे'ति दीर्घः । 'कादल्पाख्याया' मिति
ङीप् । बहुव्रीहेः क्तान्ताददन्तादल्पत्वे द्योत्ये स्त्रियां ङीधिति तदर्थः । उक्तंच मार्क-
ण्डेयपुराणे 'यंतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोके-
ऽस्मिंस्ततः सा ख्यातिमागते'ति । एतद्व्याख्याकारास्तु शिवेन संदेशं प्रापयतीति शिव-
दूती । गौरादेराकृतिगणत्वात्ङीष् बहुव्रीहौ तु टाप् स्यादित्याहुस्तच्चिन्त्यम् । इयं च
पुष्कराख्ये तीर्थे स्थिता । तदुक्तं पद्मपुराणे पुष्करखण्डे 'अथ तेऽन्याः प्रवक्ष्यामि
पुष्करे या व्यवस्थिता' इति प्रकृत्य 'शिवदूती तथा वेदी क्षेमा क्षेमंकरी सदे'त्यादि ।
शिवेनाराध्योपास्या । तदुक्तं ब्रह्माण्डपुराणे 'शिवोऽपि यां समाराध्य ध्यानयोगबलेन च।
ईश्वरः सर्वसिद्धीनामर्धनारीश्वरोऽभवदि'ति । शंकरोपासितचतुष्कूटविद्यास्वरूपा वा ।
शिव एव मूर्त्तिः स्वरूपं यस्याः शिवशक्त्योरभेदात् । तदुक्तं 'एको रुद्रः सर्वभूतेषु गूढो
माया रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्ना ह्येतज्ज्ञात्वैवामृतत्वं
व्रजन्ती'ति । शिवा मङ्गलमयी मूर्त्तिर्यस्या इति वा । शिवो मोक्ष एव रूपं यस्या वा ।
मोक्षस्यात्ममात्रस्वरूपत्वात् । तदुक्तं सौरसंहितायां चतुर्दशाध्याये 'अथ मुक्तेः स्वरूपं
ते प्रवक्ष्यामि समासतः' इत्यारभ्य 'तस्मादात्मस्वरूपैव परा मुक्तिरविद्यया । प्रतिबद्ध्वा
विशुद्धस्य विद्यया व्यज्यतेऽनघे'त्यन्तम् । भक्तं शिवमेव करोति अविद्यापाशनिरासेन
मुक्तप्राप्यं ब्रह्म करोतीवेत्युपचारात् । मङ्गलं करोतीति वा शिवंकरी । 'कृञो हेतु-
ताच्छील्यानुलोम्येष्वि'ति टः । 'शिवशमरिष्टस्य कर' इति मुम् ॥ १३९ ॥ शिवस्य
प्रिया । शिवः प्रियो यस्या इति वा । शिवात्परा शिवस्य शक्त्यधीनात्मलाभकत्वात् ।
शिवः परो यस्या इति वा । शिवप्रतिपादकत्वाद्वा शिवपरा । अयं शिवशब्द एतत्पर
इत्यत्रैवमेव व्याख्यादर्शनात् । शिष्टान्वनुशिष्टानि विहितकर्माणि इष्टानि इच्छाविषयाः
प्रियाणि यस्याः सा शिष्टेष्टा । 'इषु इच्छाया'मिति धातोः कर्मणि निष्ठायाम्राष्टमिति