ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 134, कुल 272 में से
संदर्भ में पढ़ें१०६ ललितासहस्रनाम ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥ १३८ ॥
व्यष्टिं मुनीश्वरा' इति नृसिंहपुराणात् । त्रयोविंशतितत्वप्रकृतिरूपा वा । 'त्रयोविंशति-
तत्वानि व्यक्तशब्देन सूरयः । वदन्त्यव्यक्तशब्देन प्रकृतिं च परां तथे'ति ब्रह्माण्ड-
पुराणात् । अथवा व्यक्ताव्यक्ते च व्यक्ताव्यक्तं चेति पुनरेकशेषान्तरेण व्यक्तमव्यक्तं
व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेत्यर्थः । तल्लक्षणानि ब्रह्मवैवर्तपुराणे 'स्वायंभुवं बाण-
लिङ्गं शैललिश्रमिति त्रिधा । कीर्तितं व्यक्तमव्यक्तं व्यक्ताव्यकमिति क्रमात् । व्यक्तं
मुक्तिप्रदं मुक्तिप्रदमव्यक्तमुच्यते । मुक्तिमुक्तिप्रदं लिङ्गं व्यक्ताव्यक्तं प्रचक्षते । द्वित्रि-
तुलां समारूढं वृद्धिमेति न हीयते । तद्वाणलिङ्गमुदितं शेषं शैलं विदुर्बुधा' इति ।
अथवा पक्वमलेषु सुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । तदुक्तं शक्तिरहस्ये शक्ति-
पातशब्दार्थनिरूपणावसरे 'व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् । ऊर्ध्वा-
दधोगतिः पातो मूर्तस्यासर्वगस्य च । सत्यं सा व्यापिनी नित्या सहजा शिववत्स्थिता ।
किं त्वियं मलकर्मादिपाशबद्धेषु संवृता । पक्वदोषेषु सुव्यक्ता पतितेत्युपचर्यत' इति
॥ १३७ ॥ अहंकारत्रयकार्यरूपावशिष्टप्राकृतसर्गत्रित्यात्मकतया परिणामाद्व्यापिनी ।
सर्वजगद्व्यापिका वा ॥ इति भास्कररायेण कृते सौभाग्यभास्करे । चतुर्थ-
शतकेनाभूत्पञ्चमी ज्वालिनी कला ॥ ४०० ॥ इति श्रीमल्ललिता-
सहस्रनामभाष्ये चतुर्थशतकं नाम पञ्चमी कला ॥ ५ ॥
प्राकृता वैकृताः सर्गाः कौमारसर्गश्चेत्येवं विविधा आकारा यस्याः सा । 'विद्यां
चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' इति श्रुतौ
प्रसिद्धे विद्याविद्ये । विद्या स्वात्मरूपं ज्ञानम् । अविद्या चरमवृत्तिरूपं ज्ञानम् । तदुभयं
स्वरूपमस्याः । उक्तंच बृहन्नारदीये 'तस्य शक्तिः परा विष्णोर्जगत्कार्यपरिक्षमा ।
भावाभावरूपा सा विद्याविद्येति गीयत' इति । देवीभागवतेऽपि 'ब्रह्मैव साति
दुष्प्रापा विद्याविद्यास्वरूपिणी'ति । तत्रैव स्थलान्तरे 'विद्याविद्येति देव्या द्वे रूपे
जानीहि पार्थिव । एकया मुच्यते जन्तुरन्यया बध्यते पुन'रिति । यद्वा । विद्यैव
चरमवृत्तिरूपं ज्ञानं । अविद्या भेदभ्रान्तिरूपं ज्ञानं । खः परब्रह्मात्मकं ज्ञानं । खप-
'दस्यात्मवाचित्वात् । 'खो ज्ञातावात्मनी'ति कोशात् । एतत्त्रयं रूपमस्याः । उक्तंच
लैङ्गे 'भ्रान्तिर्विद्या परं चेति शिवरूपमिदं त्रयम् । अर्थेषु भिन्नरूपेषु विज्ञानं भ्रान्ति-
रुच्यते । आत्माकारेण संवित्तिर्बुधैर्विद्येति कथ्यते । विकल्पसहितं तत्वं परमित्यभि-
धीयत' इति । महांश्चासौ कामेशश्चेति वा महाकामो महेच्छो महाशयश्चासावीशश्चेति
वा महाकामेशस्तस्य नयने एव कुमुदे कैरवे रक्तपङ्कजे वा तयोराह्लादे विकासे सुखा-
तिशयकृतनिमीलने वा कौमुदी चन्द्रिकेव । कार्तिकपूर्णिमेवेति वा । 'कुमुदं कैरवे रक्त-
पङ्कजे कुमुदः कपौ । कामुदः कार्तिके मासि चन्द्रिकायां च कौमुदी'ति यादवः ।
अथवा । कुत्सिता नश्वरत्वाधिकदुःखसंमिश्रलादिहेतुभिर्निन्द्या मृत्प्रीतिर्येषां ते कुमुदो