सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 118, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 118

९० ललितासहस्रनाम ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ १२४ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ १२५ ॥
लालसा सतृष्णा ॥ १२३ ॥ ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वात्काम्या ।
कृष्णपक्षद्वादशीरात्रिरूपा वा । बिन्दुत्रयं हार्धकला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्च-
रमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते । तस्याः स्वरूपं ‘स्फुटशिवशक्ति-
समागमबीजाङ्कुररूपिणी पराशक्ति’रित्यारभ्य ‘कामः कमनीयतया कला च दहनेन्दु-
विग्रहौ बिन्दू’इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः । कामो योनिः कमलेति
वा । तदुक्तं त्रिपुरासिद्धान्ते । ‘तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति । कलाख्या
सविलासा च ख्याता कामकलेति से’ति । कामा चासौ कलारूपा चेति वा । कामपद-
मात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् ‘कामार्थमागता यस्मान्मया सार्धं महा-
गिरौ । कामाख्या प्रोच्यते देवी नीलकूटरहोगता । कामदा कामिनी काम्या कान्ता
कामाङ्गदायिनी । कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यत’इति । कदम्बकुसुमानि
नीपपुष्पाणि प्रियाणि यस्याः सा । मङ्गलस्वरूपत्वात्कल्याणी । पाद्मे देवीपुराणे च
‘कल्याणी मलयाचल’इति परिगणितमूर्तिविशेषरूपा । शुभात्मका वाणी कल्या तामेवा-
णति शब्दायतेऽसौ कल्याणी । जगत्याः कन्दः पूरणं मूलं वा यस्याः सा । ‘कन्दः
स्यात्पूरणे सस्यमूले जलधरेऽपिचे’ति यादवः । करुणैव रसो येषु तादृशाः सागराः
यस्यां सा । सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत् । तत्पुरुषपक्षे कन्दसागरपदयोः
परवल्लिङ्गतया पुंस्त्वापत्तिः ॥ १२४ ॥ चतुःषष्टिसंख्याः कला अस्यां सन्तीति कला-
वती । कल एवालापो भाषणं यस्याः । कलो मञ्जुल आलापो यस्या इति वा । ‘ध्वनौ
तु मधुरास्फुटे । कल’इत्यमरः । कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभः आपः
प्राप्तिर्यस्याः सकाशादिति वा । कं लालापं लालाजलप्रायं ययेति वा । अपां समूह
आपं ‘ऋक्पूरब्धू’रिति समासान्तो वा । कान्ता कमनीयत्वात् । कं ब्रह्मौवान्तः
सिद्धान्तो यस्या इति वा । कृष्णैकादशीरात्रिरूपा वा । कादम्बरी उत्तमा मदिरा सैव
प्रिया यस्याः । अतएव श्रुतिः ‘परिस्रुतं झषमायं पलं च भक्तानि योनीः सुपरिष्कृ-
तानि । निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेती’ति । ब्रह्मविष्ण्वादिभ्य
उपासकेभ्यो वरानूदत्त इति वरदा । तदुक्तं मात्स्यपाद्मयोर्नारदेन । ‘यच्चाहमुक्तवानस्या
उत्तानकरतां सदा । उत्तानो वरदः पाणिरेश देव्याः सदैव तु । सुरासुरमुनिव्रातवरदेयं
भविष्यती’ति । अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तं । वस्तुतो
देवकामनापूर्तिमात्रे तात्पर्यं नतु वरदमुद्राधारणेऽपि । भगवत्पादाचार्यैः ‘त्वदन्यः
पाणिभ्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया’ इत्युक्ते ‘वरा-