सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 128, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 128

१०० ललितासहस्रनाम ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ १३३ ॥
वैखर्यात्म्य' इत्यादि । इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः
स्थूलदृशो वैखरीमेव वाचं मन्वते । तथाच श्रुतिः 'तस्याद्यद्वाचो नाप्तं तन्मनुष्या
उपजीवन्ती'ति । अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थ इति वेदभाष्ये । श्रुत्यन्तरेऽपि
'चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता
नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ती'ति । स्कान्दे यज्ञवैभवखण्डेऽपि 'अपदं पदमापन्नं
पदं चाप्यपदं भवेत् । पदापदविभागं च यः पश्यति स पश्यती'ति । अपदं गतिरहितं
निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं
ब्रह्मैव भवतीति तदर्थः।एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् 'ते विभक्त्यन्ताः
पद'मिति गौतमसूत्रेण, 'सुप्तिङन्तं पद'मिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणा-
न्तर्गतसुप्प्रत्ययादेरपि चातुर्विध्यात्परात्मकतदपदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन
ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभावेन वैखर्यात्मकतत्पदस्य कैमुतिकन्यायेन दूरापास्तं
तत्तातदात्म्यमिति शब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव
स्वीकार्यैति भावः । मातृकाभेदेषु तिसृभ्यः परत्वात्परा । त्रिपुरासिद्धान्ते तु प्रकारा-
न्तरैरपि निरुक्तिरुक्ता 'श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा । परानन्दाभिधे तन्त्रे
प्रसिद्धत्वाच्च सा परा । प्रासादरूपिणी चेति परा सा शांभवीपरे'ति । प्रतिकूलं
स्वात्माभिमुखमञ्चतीति प्रतीची साच सा चिती च प्रत्यक्चिती अव्यक्तसंज्ञं ब्रह्म
सैव रूपं यस्यास्तथा । चिनोतेः क्विबन्तात् 'कृदिकारादि'ति ङीष् । पश्यतीति पश्यन्ती ।
अस्या एवोत्तीर्णेत्यपि संज्ञा । उक्तंच सौभाग्यसुधोदये 'पश्यति सर्वे स्वात्मनि करणानां
सरणिमपि यदुत्तीर्णा । तेनेयं पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते माते'ति । परा उत्कृष्टा चासौ
देवता च परदेवता । उपास्येश्वरस्वरूपेत्यर्थः । मध्ये स्थिता मध्यमा । तदुक्तं 'पश्यन्तीव
न केवलमुत्तीर्णा नापि वैखरीव बहिः । स्फुटतरनिखिलावयवा वायुरूपा मध्यमा
तयोरस्मा'दिति । विशेषेण खरः कठिनस्तस्येयं वैखरी सैव रूपं यस्याः । घनभाव-
मापन्नेति यावत् । वै निश्चयेन खं कर्णविवरं राति गच्छतीति व्युत्पत्तिः सौभाग्यसुधोदये
कथिता । 'प्राणेन विखराह्वयेन प्रेरिता वैखरी पुन'रिति योगशास्त्रवचनाद्विखरवायु-
नुन्नेति वा । भक्तानां मानसे चित्ते श्लेषभित्तिकाभेदाध्यवसायेन सरोविशेषे हंसीव
हंसिका । परैरज्ञातत्वात्कप्रत्ययः ॥ १३२ ॥ कामेश्वरस्य शिवकामस्य प्राणनाडी
जीवनाडीव । तदुक्तमाचार्यभगवत्पादैः 'करालं यत्क्ष्वेलं कवलितवतः कालकलना न
शंभोस्तन्मूलं तव जननि ताटङ्कमहिमे'ति । कृते सुकृतदुष्कृते जानातीति कृतज्ञा ।
'सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मणो नव साक्षिण'
इत्युक्तनवकाभिन्नेति वा । कृतस्योपकारस्य ज्ञानेन प्रत्युपकर्त्री वा । कृतवत् ज्ञा ज्ञानं