ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 131, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १०३
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ १३७ ॥
नित्याश्च ताः षोडशिकाश्च कामेश्वर्यादित्रिपुरसुन्दर्यन्तास्तासां रूपाणि यस्याः सा । उक्तं
च तन्त्रराजे 'आद्याया ललितायाः स्युरन्याः पञ्चदशाङ्गगाः । ललिताखिलरूपेण
सर्वासामात्मविग्रहे'ति । षोडश्येव षोडशिकेति वा । नित्यो विकल्पसहित आसमन्ता-
त्षोडशिको ग्रहयागाभ्यासविशेषो येषु क्रतुषु तैरासमन्ताद्रूप्यते प्रीयत इति वा ।
अतिरात्रे विकल्पितस्यापि षोडशिग्रहस्योत्तरेऽहन् द्विरात्रस्य गृह्यत' इत्यादिवचनैरुत्तर-
क्रतुषु नित्यत्वात् । उक्तंच शक्तिरहस्ये 'कोटिभिर्वाजपेयानां यथा षोडशकोटिभिः ।
प्रीयतेऽम्बा तथैकेन षोडश्युच्चारणेन से'ति । श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठः शिवस्त-