सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 129, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 129

सौभाग्यभास्करव्याख्या । १०१
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ १३४ ॥
यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं ह्रासात्कृते यथा पूर्णं ज्ञानं
तादृशज्ञानवतीत्यर्थः । यद्वा द्यूतशास्त्रे कृतत्रेताद्वापरकलिसंज्ञानि चत्वारि द्यूतानि प्रसि-
द्धानि । तानि चतुस्त्रिद्व्येकाङ्कघटितान्यपि दशपदद्रव्येकरूपाणि । पूर्वपूर्वद्यूते उत्तरोत्तरद्यू-
तानामन्तर्भावात् । तथाच श्रूयते ‘ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृत’मिति
दशानां कृतसंज्ञा । अतएव कृतद्यूतं जितवता त्रेतादिद्यूतत्रयमपि जितं भवतीति
द्यूतशास्त्रमर्यादापि । श्रूयते च ‘कृतायविजितायाधरेऽयाः संयन्ती’ति । अयो द्यूतक्रीडा-
कृतरूपोऽयो विजितो येन तस्मै अधरे तदधस्तना अयास्त्रेतादिक्रीडाः संयन्ति उपनमन्ते
जिता भवन्तीति तदर्थात् । तेन कृतं यथा सर्वव्यापकमेवं सर्वविषयकं ज्ञानं यस्या
इत्यर्थः । कृतं जानातीति वा । शिवेन सह द्यूतक्रीडायामवश्यं कृतज्ञत्वाद्देव्या एव
जय इति ध्वन्यम् । कामेन मन्मथेन पूजितोपासिता । अतएव वारुणोपनिषदि ‘पुत्रो
निर्ऋत्या वैदेह अचेता यश्च चेतनः । स तं मणिमविन्द’दिति श्रूयते । लक्ष्म्याः पुत्रोऽनङ्गो
विद्यारत्नं प्राप्तवानित्यर्थः । शृङ्गाराद्यैरसेन सम्यक् पूर्णा । अथवा उत्तरत्र जाल-
न्धरोड्याणपीठयोः परामर्शदर्शनादनयोर्नाम्नोः कामरूपं पूर्णगिरिपरत्वं नामैकदेश-
न्यायेनास्थेयम् । सम्यक् पूर्णे आस्ते इति संपूर्णास् । आस्तेः क्विपि रुत्वयत्वलोपाः ।
शृङ्गपदेन द्विसंख्या । अपरपदेन दलम् । रसाः षट् । द्विदलंषट्कं द्वादशदलमनहत-
चक्रमिति यावत् । अधिभूतं प्रसिद्धस्य पीठचतुष्कस्याध्यात्मं मूलाधारानाहतविशुद्ध्याज्ञा-
स्थिते तन्त्रेषु कथनाद्द्वादशदलेति पूर्णगिरिविशेषणम् । यद्वा शृङ्गं प्रधानभूतं अररं कवाटं
आवरकाविद्येति यावत् यस्याः सा शृङ्गाररा । संपूर्णेन ब्रह्मणा सहिता ससंपूर्णा ।
उभयोः कर्मधारये शबलब्रह्मशुद्धब्रह्मोभयवतीति यावत् । जयरूपत्वाज्जया । पाद्मे
‘जया वराहशैले त्वि’ति परिगणिता । जालन्धरे पीठविशेषे स्थिता । पाद्मे ‘जालन्धरे
विष्णुमुखी’ति प्रतिपादितविष्णुमुखव्याख्या ॥ १३३ ॥ अथ नामपरिभाषामण्डले चतु-
श्चत्वारिंशत्पदानि विभजते ॥ द्वेद्वे चेद्वेद्वेभवदोहदभुविलेशशीलजलमोहैः ।
द्यर्धचतुर्भवगाः स्सो भुवि जलशोभा भगोलः खे ॥ १७ ॥ अत्र तृतीयं द्वे
इति पदं षडक्षरनामद्वयपरं इतराणि त्वष्टाक्षरपराणि । चतुःपदं चतुरक्षरनामचतु-
ष्टयपरम् ॥ १७ ॥ ओड्याणाख्यं पीठमेव निलयो वासस्थानं यस्याः । बिन्दुरेव मण्डलं
सर्वानन्दमयात्मकं चक्रवालं तत्र वसति । बिन्दुः शुक्लं तस्य मण्डलं ब्रह्मरन्ध्रमित्यन्ये ।
‘सहस्रारे पद्मे सह रहसि पत्या विहरसे’ इत्याचार्योक्तेः । रहसि विविक्ते क्रियमाणो
यागश्चिदमौ अनच्ककुण्डलन्यधिष्ठिते पुंन्यादिहोमाष्टकरूपो रहोयागस्तस्य क्रमेण प्रयो-
गेणाराध्या । ‘यज देवपूजासंगतिकरणदानेष्वि’ति धातुपाठादेकान्तसंगतिरेव वा
रहोयागः तत्र क्रमेण पादविक्षेपेणाराध्या प्राप्या । यदाहापस्तम्बः ‘न शब्दशास्त्रा-