ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
वशात्"?
Wait, look at the letter between 'द' and 'व':
Wait, is it 'द' + 'ि' = 'दि'?
No, look at:
स, त्, र, ी - स्त्री
ल, ि, ङ्ग, त्, व, ा - लिङ्त्वा... wait, ङ्ग is there: स्त्रीलिङ्गत्वा
Then: 'द' (da)
Then: 'ि' (i-matra on what?)
The i-matra is on 'व'!
Wait, is that 'वि'?
Look closely: the loop goes over 'व'?
Wait, look at line 30:
स्त्रीलिङ्गत्वा - then:
द, िव, श, ा, द... wait!
Could it be "स्त्रीलिङ्गत्वादिवशात्"?
Wait, let's read the characters one by one:
- स्त्री
- लि
- ङ्ग
- त्वा
- दि (da with i-matra? No, i-matra is on da: 'दि')
- ह (ha)
- व (va)
- शा (shaa)
- द (da)
Wait, is #6 'ह'?
Could it be "स्त्रीलिङ्गत्वादिह विशेषणसाम्याद्"? No, after 'ह' is clearly 'व', 'शा', 'द'!
Wait, what if it is "स्त्रीलिङ्गत्वाद् दिवशा
पदेन ध्वन्यते । एतदपि च न वेदानां सामर्थ्यादपि तु मातुराज्ञयैवेति च्विप्रत्ययेन
ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे । 'सर्वज्ञाः श्रुतयोऽपि याः परशिव
त्वत्प्राणरूपाः प्रियाः शृङ्गाग्राहिकया त्रपाभृत इव त्वां न प्रजल्पन्ति ताः । अन्यानेव तु
नेतिनेति बहुशो वाचा निषेधन्ति चेत्कोऽन्यस्त्वामिदमित्यमिलनुवदेत्तत्रापि माहग्जन'
इति । विधिमुखेन प्रतिपादयन्तस्त्वागमाः स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव
निर्दिशन्तीत्याह । सकलाश्च ते आगमा वेदाश्च तेषां संदोहाः समूहा एव शुक्तयस्ताभिः
संपुटं पुटितं गर्भिकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा तथोक्ता । मौक्तिकपदं
समीपवर्तिसृष्ट्यादिधर्मोपलक्षकं स्थूलतारकासाम्यात्तन्मयायस्मारकं च । अम्बामुख-
समीपवर्त्यसाधारणं मौक्तिकाद्येव वेदैः
यन्त्रपटले 'एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनान्यलि'त्युपक्रम्य हल्लेखाघटकाक्षरेषु हका-
रादिषु 'व्योमबीजे महेशानि कैलासादिप्रतिष्ठित'मित्यादिना प्रत्येकं भुवनादिसद्भावं
प्रतिपाद्य 'अतएव महेशानी भुवनाधीश्वरी स्मृते'त्युपसंहृत्य 'हकाराद्व्योमतुर्येण खरेणा-
निलसंभव'इत्यादिना भुवनजनकत्वमप्युक्त्वा 'अतएव महेशानी भुवनेशीति कथ्यत'
इत्युपसंहारेण द्वेधा निरुक्तम् । अम्बैवाम्बिका । जगन्माताभारतीपृथ्वीरुद्राण्यात्मके-
च्छाज्ञानक्रियाशक्तीनां समष्टिरम्बिकेत्युच्यते तद्रूपा वा । रात्रिरूपा निद्रारूपा वा ।
'अम्बिका कैतवे सिद्धे निद्रायां निशि कीर्त्यत'इति विश्वः । उक्तंच नवरात्रदीपे
स्कान्दे । 'रात्रिरूपा महादेवी दिवारूपो महेश्वर' इति । हरिवंशेऽपि 'या ह्येषा गह्नरी
माया निद्रेति जगति स्थिता । तस्यास्तनु
सौभाग्यभास्करव्याख्या । ४७
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ १२१ ॥
सलिलाद्युत्तमाम्भःपर्यन्तानि नामानि तारादिसमुदितान्तानि सिद्धिनामानि चाकर एव
द्रष्टव्यानि । सिद्धिरष्टविधा । ऊहादिभेदात् । उपदेशानपेक्षमेवार्थोन्नयनमूहसिद्धिः ।
प्रासङ्गिकाच्छब्दश्रवणादर्थज्ञानं शब्दसिद्धिः । गुरूपदेशादेव ततो विवेकअर्थज्ञानमध्य-
यनसिद्धिः । आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखत्रयविघातात्मिकास्तिस्रः सि-
द्धयः । सुहृत्प्राप्तितोऽर्थसिद्धिरेका विद्वत्पक्षिशुश्रूषालभ्यार्थसिद्धिरेकेत्यष्टौ सिद्धयो नव
तुष्टयश्च । एतासां सप्तदशानां विपर्ययोऽपि सप्तदशविधः । अस्नेत्यादिप्रमुदितान्तानि
तन्नामान्याकरे द्रष्टव्यानि । एतेऽप्यशक्तिबुद्धिपदवाच्याश्चेति सप्तदश । एकादशभि-
रिन्द्रियशक्तिभिः सहाष्टाविंशतिर्विधा इति । एतेषां च व्यवस्थोक्ता वायुपुराणे 'अष्ट-
मोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव
च । स्थावरेषु विपर्यासात्तिर्यग्योनिखशक्तितः । सिद्धात्मना मनुष्येषु तुष्ट्या देवेषु
कृत्स्नश' इति दिक् । हरिव्रह्मेन्द्रविष्णुविधिशक्रैः सेवितोपासिता । श्रीनगरोऽष्टादश-
सप्तदशप्राकारयोर्मध्ये विष्णोः सप्तदशषोडशयोर्मध्ये ब्रह्मणः पञ्चदशचतुर्दशयोर्मध्ये
चेन्द्रादिलोकपालानां देवीसेवार्थं निवासस्मरणात् । देवीभागवतेपि । 'ब्रह्मा विष्णुस्तथा
शंभुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च लष्टा पूषाश्विनौ भगः । आदित्या वसवो
रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणी'मिति । एतेन
विष्णुब्रह्मादिमात्रविषयकागमद्रष्टृणां विष्ण्वादिविषयक तत्त्वज्ञानाभावात्तदुपासनायां प्र-
वृत्तावपि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः । नहि भिक्षुको
भिक्षुकान्याचितुमर्हति सत्यस्मिन्नभिक्षुक इति न्यायविरोधादिति ध्वन्यते । तदिद-
मुक्तमस्माभिः शिवस्तवे 'लद्धत्तैश्वर्यभाजः परमशिव कथंकारमन्यानमर्त्यान् याचे देहीति
शक्रद्रुहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम् । अज्ञोऽपि द्वादशाहक्रतुविकृतितोक्थ्याङ्ग-
भूतोपि चोक्थ्यो ज्योतिष्टोमोक्थ्य
८८ ललितासहस्रनाम ।
वधूवरभाव एव विवक्षितः । पितृपुत्रीभावरूपसंबन्धस्यापि तत्रोदाहरणदर्शनात् ।
तेनेह भ्रातृभगिनीभावरूपे पुंयोगे ङीप् । नारायणभगिनीत्यर्थः । अतएव 'नारायणी-
सहचराय नमः शिवाये'त्यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहाभेदादपि नारा-
यणी । तदुक्तं कूर्मपुराणे गुणिशिवेन 'अहं नारायणो गौरी जगन्माता सनातनी ।
विभज्य संस्थितो देवः स्वात्मानं परमेश्वरः । न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ।
एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव चे'ति। देवीपुराणेतु 'जलायनानले(१) कुर्यात्स-
मुद्रशयनाथवा । नारायणी समाख्याता नरनारीः प्रकुर्वती'ति । इयं च सुपार्श्वक्षेत्रे
प्रसिद्धा । उक्तंच पाद्मे देवीक्षेत्राध्याये 'नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी'ति ।
ह्रींकारादिषु बिन्दोरूर्ध्वर्धचन्द्ररोधिनीनादनादान्तशक्त्व्यापिका समनोन्मन्याख्याः
सूक्ष्मसूक्ष्मतरासूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वर्णो नाद इत्युच्यते ।
तत्स्वरूपं च महास्वच्छन्दतन्त्रे 'रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः । पद्म-
किञ्जल्कसंकाशः सूर्यकोटिसमप्रभः । पुरैः परिवृतोऽसंख्यै'रित्यारभ्य 'तस्योत्सङ्गगता-
मूर्ध्वगामिनीं परमां शिवाम् । ध्याये'दित्यन्तं तादृशे नादे रूपं यस्याः सा । नाद एव
रूपं यस्या इति वा । सन्ति हि परस्परविवेकेन चिदचिद्ग्रन्थिरूपेण भासमानानि जगतः
पञ्च रूपाणि । 'अस्ति भाति प्रियं नाम रूपं चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं
जगद्रूपं ततो द्वय'मित्यभियुक्तैर्विवेचितानि । तत्र जगद्रूपयोर्नामरूपयोर्मिथ्यात्वात्ताभ्यां
विवर्जिता । असत्यसत्योः संबन्धस्यापि मिथ्यात्वेन वास्तविक्स्ताभ्यां संबन्धः
सत्येन स भवतीति भावः । आमनन्ति च छन्दोगाः । 'आकाशो ह वै नाम नाम-
रूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मे'ति । चिच्छक्तिरूप आकाश एव नामरूपयोर्निर्वा-
हकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव ब्रह्मेति तदर्थः ॥ इति भास्कर-
रायेण कृते सौभाग्यभास्करे । मरीच्याख्या कला तुर्या जाता नाम्नां
शतत्रयात् ॥ ३०० ॥ इति श्रीपदवाक्येत्यादिभास्कररायोन्नीते ललिता-
सहस्रनामभाष्ये तृतीयशतकं नाम चतुर्थी मरीचिः कला ॥ ४ ॥
ह्रीं लज्जां करोतीति ह्रींकारी । कर्मण्यणन्तान्ङीप् । द्वितीयाया अलुक् । यद्वा ह्रीमिति
खरादेराकृतिगणत्वादव्ययम् । अतएव त्रिशत्यामेकोनशततमस्य नाम्नश्चतुर्थ्यन्तो ह्रीं-
नम इत्येव प्रयोगः । तस्यार्थस्तु स्वतन्त्रतन्त्रे व्याकुलाक्षरश्लोकेनोक्तः । 'त्वंकामाग्रान-
प्रशव्यो नानमप्तन्निमालग्रारोमईयोकार्विशंतानन्तफाडुलनान्निर्वं' इति । 'देवतार्थ-
गो मूक इति यो वेत्ति न क्रमम् । स व्याकुलाक्षरे मूको देवतार्थगोऽपि सन्नि'ति तु
वाचनक्रमः । सृष्टिस्थितिसंहारास्तदर्थत्वेन पर्यवस्यन्ति तान्करोतीति ह्रींकारी । अथवा
वर्णात्कारप्रत्ययोयम् । गौरादेराकृतिगणत्वान्ङीप् । भुवनेश्वरीबीजरूपेत्यर्थः । हीरस्या
अस्तीति ह्रीमती । तथाच श्रूयते 'लज्जामती तुष्टिरिष्टा च पुष्टे'ति ॥ अथ परि-
भाषायामष्टत्रिंशन्नामानि विभजते ॥ राजतरेखितलिङ्गैरहरचैर्द्विर्विभू-
रत्नौ रेतः । हालामदभुविरक्तो गुणदंभो वाजिगीर्ण द्विः ॥ १५ ॥
सौभाग्यभास्करव्याख्या । ८९
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ १२२ ॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ १२३ ॥
द्विर्द्विरिति चतुश्चतुरक्षरे द्वेद्वे नामनी ॥ १५ ॥ हृदि भवा हृद्या मुनिहृन्निवासिनी,
रमणीया वा । हातुमुपादातुं च योग्ये हेयोपादेये ताभ्यां वर्जिता । प्रवृत्तिनिवृत्ति-
बोधकशास्त्राणामविद्यावद्विषयत्वात् ॥ १२१ ॥ राजराजो मनुः कुबेरश्च ताभ्यामर्चितो-
पासिता, कुबेरादिविद्यारूपा वा । अतएव चतुर्दशपञ्चदशप्रकारयोर्मध्यभूमिं वर्णयतोक्तं
दुर्वासमुनिना 'तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्या-
नम्बाचरणावलम्बिनो यक्षानि'ति । तल्लोकेति तत्पदस्य वायुरर्थः । राजराजेश्वरस्य पट्ट-
महिषीत्वाद्वाज्ञी । रम्या सौन्दर्यवती । राजीवशब्देन पद्मं हरिणो मत्स्यो वा गृह्यते ।
तद्वल्लोचने यस्याः सा राजीवलोचना । 'राजीवाह्वा मृगे मत्स्ये पद्मे राजोपजीविनी'ति
विश्वः । राजोपजीविनो लोचयति पश्यतीति वा । भक्तानरञ्जयतीति रञ्जनी । 'शुद्धस्फ-
टिकसंकाशं परमशिवमरुणादेवीजपाकुसुमवत्सांनिध्यमात्रेण रञ्जयतीति वा । भक्ता-
न्रमयति तैः सह क्रीडतीति रमणी । 'जक्षन् क्रीडन् रममाण'इति श्रुतेः । रसयितु-
मास्वादितुं योग्या रस्या । 'रसो वै स' इति श्रुतेः । रणन्त्यः किङ्किण्यः क्षुद्रघण्टिका
यस्यां तादृशी मेखला रशना यस्याः सा ॥ १२२ ॥ सूतसंहितायां 'लक्ष्मीवागादि-
रूपेण नर्तकीव विभाति ये'त्युक्तरीत्या लक्ष्मीरूपत्वाद्रमा । 'कलाहीने सानुमतिः
पूर्णे राका निशाकरे ।' इत्याग्नेयपुराणस्थकोशवलाद्राकेन्दुवत्पूर्णचन्द्रवद्वदनं यस्याः ।
रतिरेव रूपं यस्याः कामपत्नीत्वात् । रमा ईकारः । राकेन्दुवदना अनुस्वारसहिता
चेद्रतिरूपा कामकला भवतीत्युद्धारः । रतिः कामपत्नी रतं वा प्रियं यस्याः । रक्षा
रक्षणं भस्म वा तत्कर्तृत्वाद्रक्षाकरी स्थितिसंहारकर्त्री । रक्षांस्येव राक्षसांस्तान्हन्तीति
राक्षसघ्नी । रामा स्त्रीमात्रस्वरूपा । रमन्तेऽस्यां योगिन इति वा 'ज्वलतिकसन्तेभ्यो ण'
इति णः । 'स्त्रीलिङ्गमखिलं गौरी'ति लैङ्गात् । तत्रैव स्थलान्तरे 'शंकरः पुरुषाः सर्वे
स्त्रियः सर्वा महेश्वरी । पुंलिङ्गशब्द्वाच्या ये ते च रुद्राः प्रकीर्तिताः । स्त्रीलिङ्गशब्द-
वाच्या याः सर्वा गौर्या विभूतयः । एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभुतय' इति ।
विष्णुपुराणेपि 'देवतैर्यङ्मनुष्यादौ पुंनाम्नि भगवान्हरिः । स्त्रीनाम्नि लक्ष्मीमैत्रेय नान-
योर्विद्यते पर'मिति । ब्रह्मवैवर्तेपि । 'यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चय'इति । अतएव बृहत्पराशरस्मृतौ 'स्त्रिय-
स्तुष्टाः स्त्रियो रुष्टास्तुष्टा रुष्टाश्च देवताः । वर्धयन्ति कुलं तुष्टा नाशयन्त्यपमानिता'इति ।
निखिलस्त्रीरूपत्वादेव स्वस्वरमणेषु पतिषु रमणे संभोगे वा क्रीडायां वा लम्पटा
९० ललितासहस्रनाम ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ १२४ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ १२५ ॥
लालसा सतृष्णा ॥ १२३ ॥ ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वात्काम्या ।
कृष्णपक्षद्वादशीरात्रिरूपा वा । बिन्दुत्रयं हार्धकला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्च-
रमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते । तस्याः स्वरूपं ‘स्फुटशिवशक्ति-
समागमबीजाङ्कुररूपिणी पराशक्ति’रित्यारभ्य ‘कामः कमनीयतया कला च दहनेन्दु-
विग्रहौ बिन्दू’इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः । कामो योनिः कमलेति
वा । तदुक्तं त्रिपुरासिद्धान्ते । ‘तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति । कलाख्या
सविलासा च ख्याता कामकलेति से’ति । कामा चासौ कलारूपा चेति वा । कामपद-
मात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् ‘कामार्थमागता यस्मान्मया सार्धं महा-
गिरौ । कामाख्या प्रोच्यते देवी नीलकूटरहोगता । कामदा कामिनी काम्या कान्ता
कामाङ्गदायिनी । कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यत’इति । कदम्बकुसुमानि
नीपपुष्पाणि प्रियाणि यस्याः सा । मङ्गलस्वरूपत्वात्कल्याणी । पाद्मे देवीपुराणे च
‘कल्याणी मलयाचल’इति परिगणितमूर्तिविशेषरूपा । शुभात्मका वाणी कल्या तामेवा-
णति शब्दायतेऽसौ कल्याणी । जगत्याः कन्दः पूरणं मूलं वा यस्याः सा । ‘कन्दः
स्यात्पूरणे सस्यमूले जलधरेऽपिचे’ति यादवः । करुणैव रसो येषु तादृशाः सागराः
यस्यां सा । सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत् । तत्पुरुषपक्षे कन्दसागरपदयोः
परवल्लिङ्गतया पुंस्त्वापत्तिः ॥ १२४ ॥ चतुःषष्टिसंख्याः कला अस्यां सन्तीति कला-
वती । कल एवालापो भाषणं यस्याः । कलो मञ्जुल आलापो यस्या इति वा । ‘ध्वनौ
तु मधुरास्फुटे । कल’इत्यमरः । कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभः आपः
प्राप्तिर्यस्याः सकाशादिति वा । कं लालापं लालाजलप्रायं ययेति वा । अपां समूह
आपं ‘ऋक्पूरब्धू’रिति समासान्तो वा । कान्ता कमनीयत्वात् । कं ब्रह्मौवान्तः
सिद्धान्तो यस्या इति वा । कृष्णैकादशीरात्रिरूपा वा । कादम्बरी उत्तमा मदिरा सैव
प्रिया यस्याः । अतएव श्रुतिः ‘परिस्रुतं झषमायं पलं च भक्तानि योनीः सुपरिष्कृ-
तानि । निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेती’ति । ब्रह्मविष्ण्वादिभ्य
उपासकेभ्यो वरानूदत्त इति वरदा । तदुक्तं मात्स्यपाद्मयोर्नारदेन । ‘यच्चाहमुक्तवानस्या
उत्तानकरतां सदा । उत्तानो वरदः पाणिरेश देव्याः सदैव तु । सुरासुरमुनिव्रातवरदेयं
भविष्यती’ति । अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तं । वस्तुतो
देवकामनापूर्तिमात्रे तात्पर्यं नतु वरदमुद्राधारणेऽपि । भगवत्पादाचार्यैः ‘त्वदन्यः
पाणिभ्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया’ इत्युक्ते ‘वरा-
सौभाग्यभास्करव्याख्या । ९१
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ १२६ ॥
र्थिभ्यः सुरादिभ्यः कामान्पूरयतीश्वरी । धातुर्वृञ् वरणे प्रोक्तस्तेन सा वरदा स्मृते'ति
देवीभागवताच्च । वाराहेऽपि वेत्रासुरवधप्रकरणे 'नवम्यां च सदा पूज्या इयं देवी
समाधिना । वरदा सर्वलोकानां भविष्यति न संशय'इति । वामानि सुन्दराणि नयनानि
नेत्राणि प्रमाणानि वा यस्याः । वामं मार्गविशेषं नयतीति वा । अथवा कर्मजन्यफलं
वाममित्युच्यते । 'एष उ एव वामनि'रिति श्रुतौ संयद्वामादिश्रुतौ च वामपदस्य तथा
व्याख्यानदर्शनात्तन्नयति प्रापयतीति वामनयना । वरुणस्येयं वारुणी सास्यास्तीति
वारुणीमान्सहस्रफणः शेषः । शेषं प्रकृत्य विष्णुपुराणे 'उपास्यते स्वयं कान्त्या यो
वारुण्या च मूर्त्तये'ति पाठात्स यथा भूधरणे विह्वलो न भवति तद्वदविह्वला । यद्वा
खर्जूरीसमुद्भवो रसो वरुणप्रियत्वाद्वारुणी तस्या मदेन पानजन्यानन्देन विह्वला बाह्य-
पदार्थविस्मरणशीला । स्वात्मानन्दैकचर्वणवतीति यावत् । वारुणीमन्तः अविह्वला
ययेति वा । वारुण्याख्यां वायुदेवत्यां नाडीं जितवन्तो वारुणीमन्त इत्युच्यन्ते । उक्तं
च योगशास्त्रे 'अधश्चोर्ध्वं स्थिता नाडी वारुणी सर्वगामिनी । पूषा दिग्देवता प्रोक्ता
वारुणी वायुदेवते'ति ॥ १२५ ॥ विश्वस्मात्क्षित्यादिशिवान्तादधिकोत्कृष्टा । 'विश्वाधिको
रुद्रो महर्षि'रिति श्रुतेः । वेदै ऋग्यजुःसामाथर्वणैर्वेद्या ज्ञेया । 'वेदैश्च सर्वैरहमेव वेद्य'
इति श्रुतेः स्मृतेश्च । यद्वा चिन्तामणिगृहस्य चत्वारि द्वाराणि चतुर्वेदरूपाणि । द्वार-
प्रवेशमन्तरेण देवतादर्शनाभावाद्वैदैकवेद्यत्वम् । तथाच श्रुतिः । 'ऋचां प्राची महती
दिगुच्यते दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीचीं साम्नामुदीची महती
दिगुच्यत'इति । शुद्धविद्यादिभिः सौभाग्यादिभिर्लोपामुद्रादिभिस्तुरीयाम्बादिभिश्चर्ग्य-
जुषाथर्वसामदेवताभिर्वेद्येत्यप्यर्थः । विन्ध्याख्ये अचले पर्वते निवसतीति तथा । तथाच
पाद्मे देवीक्षेत्रगणनायां 'त्रिकूटे च तथा सीता विन्ध्ये विन्ध्याधिवासिनी'ति । पाञ्च-
रात्रलक्ष्मीतन्त्रेऽपि 'वैवस्वतेन्तरे तौ च पुनः शुम्भनिशुम्भकौ । उत्पत्स्येते वरान्मत्तौ देवोपद्र-
वकारिणौ । नन्दगोपकुले जाता यशोदागर्भसंभवा । तावहं नाशयिष्यामि नन्दाख्या
विन्ध्यवासिनी'ति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः । विदधाति धारयति पोषयति
वा जगदिति विधात्री । 'धात्री माता समाख्याता धारणाच्चोपगीयत' इति देवीपुरा-
णात् । विधातुर्ब्रह्मणः पत्नी वा । विशिष्टा विशेषप्रीतिविषया धात्री आमलकी यस्या
इति वा । वेदानां जननी उत्पादिका । 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेद' इत्यादिश्रुतेः । 'ऋचः सामानि जज्ञिर'इत्यादिश्रुतेश्च । देवीपुराणे तु 'यतः
शृङ्गाटकाकारकुण्डलिन्याः समुद्गताः । स्वराश्च व्यञ्जनानीति वेदमाता ततः स्मृते'-
त्युक्तं । विष्णोर्व्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि माया आवरणकर्त्री ।
परिच्छेदिकेति यावत् । तत्संबन्धिनी मायेति वा । 'दैवी ह्येषा गुणमयी मम माया
दुरत्यये'ति भगवद्वचनात् । कालिकापुराणेऽप्युक्तं । 'अव्यक्तव्यक्तरूपेण रजःसत्वतमो-
९२ ललितासहस्रनाम ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ १२७ ॥
गुणैः । विभज्य यार्थे कुरुते विष्णुमायेति सोच्यत'इति । विलासो विक्षेपशक्तिरस्या
अस्तीति तथा । पीठशक्तिविशेषरूपा वा । 'नित्या विलासिनी दोग्ध्री'त्यादिना तासु
परिगणनात् । बिले ब्रह्मरन्ध्रे आस्त इति वा विलासिनी । तदुक्तं स्वच्छन्दतन्त्रे । 'तत्र
ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदैर्वृत'मिति प्रस्तुत्य 'ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगा-
मिनी । द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिते'ति ॥ १२६ ॥ अथ परिभाषाया-
मष्टत्रिंशन्नामानि विभजते ॥ मृगजो द्विर्वालः खे जीवाभं पञ्चपादार्थम् ।
गुणभूवरतेजोर्धं रतिगुणलेशो दहेदृणं दुरितम् ॥ १६ ॥ द्विरित्यष्टाक्षरे
द्वे नामनी ॥ १६ ॥ क्षेत्रं कामरूपादिकं वसुधादिशिवान्तषट्त्रिंशत्तत्वात्मकं शरीरं वा ।
तत्स्वं निजं रूपं यस्याः सा । तथाच लैङ्गे । 'विभर्ति क्षेत्रतां देवी त्रिपुरान्तक-
वल्लभा । क्षेत्रज्ञत्वमजो धत्ते भगवानन्तकान्तक'इति क्षेत्रस्य शरीरस्येशः शिवस्त-
स्येयं क्षेत्रेशी । क्षेत्रज्ञो जीवस्तं क्षेत्रं च पालयतीति क्षेत्रक्षेत्रज्ञपालिनी । तथाच विष्णु-
स्मृतौ 'इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति त-
द्विदः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते'ति गीताख्यप्येवमेव कौन्तेयभार-
तसंबोधनाभ्यां घटितमिदमेव । लैङ्गेपि 'चतुर्विंशतितत्त्वानि क्षेत्रशब्देन सूरयः ।
आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथे'ति । वायुपुराणे तु 'अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा
क्षेत्रज्ञ उच्यत' इत्युक्तम् । ब्रह्मपुराणेऽपि । 'क्षेत्राख्यानि शरीराणि तेषां चैव यथा-
सुखम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यत'इति । मनुस्मृतौ तु । 'योऽस्या-
त्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु ।
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ।
असंख्या मूर्तयस्तस्य निःपतन्ति शरीरात् । उच्चावचानि भूतानि
सौभाग्यभास्करव्याख्या । ९३
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ १२८ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाखण्डा सदाचारप्रवर्तिका ॥ १२९ ॥
त्पत्तिः । तेन सम्यगर्चिता ॥ १२७ ॥ विशिष्टो जयो यस्याः सा विजया संविद्रूपा
वा । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'विजयं चैव काश्मीर' इति गणित इति शिवस्वरूपा
वा । तत्रैव निर्वचनाध्याये 'विजित्य पद्मनामानं दैत्यराजं महाबलम् । त्रिषु लोकेषु
विख्याता विजया चापराजिते'ति विश्वकर्मशास्त्रप्रसिद्धविजयाख्यगृहविशेषरूपा वा ।
विजयाख्यो मुहूर्त्त उक्तश्चिन्तामणौ 'आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स
कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिद' इति । रत्नकोशे तु 'ईषत्संध्यामतिक्रान्तः
किंचिदुन्निद्रतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः । एकादशो मुहूर्तो यो
विजयः परिकीर्तितः । तस्मिन्यात्रा विधातव्या सर्वैर्विजयकाङ्क्षिभि'रिति तादृशकालरूपे-
त्यर्थः । विगतो मल आविद्यको यस्याः सा विमला । पाद्मे 'विमला पुरुषोत्तमे' इति देवीतीर्थेषु
परिगणितमूर्तिविशेषरूपा वा । गृहविशेषरूपा वा । तदुक्तं विश्वकर्मशास्त्रे गृहानधिकृत्य
'ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा । सुमुखं विमलं नन्दं निधनं च मनोरममि'-
ति । वन्दितुं योग्या वन्द्या । योग्यतामेवाह-वन्दार्विति । वन्दन्ते ते वन्दारवः ।
'शृवन्द्योरारु'रित्यारुप्रत्ययः । तादृशान् जनान्वत्सवल्लालयत्यनुगृह्णाति 'वत्सांसाभ्यां
कामबल' इति लप्रत्ययो वा । वाचं वदतीति वाग्वादिनी काचिद्देवता तद्रूपा वा । वाचं
वादयतीति वा । एतन्निर्वचनं च त्रिपुरासिद्धान्ते । 'सर्वेषां च स्वभक्तानां वादरूपेण
सर्वदा । स्थिरलाष्ट्रा च विख्याता लोके वाग्वादिनीति से'ति । 'शब्दानां जननी त्वमेव
भुवने वाग्वादिनीत्युच्यस' इति लघुस्तवेऽपि । वामाः सुन्दराः केशा यस्याः सा । वामा
एव वामकास्तेषामीशः शिवः । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'जटे वामेश्वरं विद्यादि'ति
प्रतिपादितस्तस्य स्त्री वा । वामकेशेन प्रोक्तं तन्त्रं वामकेशं तत्र प्रतिपाद्यतया
तत्संबन्धिनी वा । वह्नेर्मण्डलं मूलाधारे परमाकाशे वा विद्यमानं तत्र वसतीति
तथा । वह्निशब्दस्त्रित्वसंख्यावच्छिन्नपरो वा । तेन सोमसूर्याग्निमण्डलत्रयवासि-
नीत्यर्थः ॥ १२८ ॥ भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात् ।
अथवा ईषदसमाप्तौ कल्पप्प्रत्ययेनाऽपूर्णभक्ता भक्तिमत्कल्पाः तेषां लतिकेव
विस्तारकारिणी । कस्तूरिकेवामोदयित्री वा । 'ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयो-
र्लते'ति रभसः । अर्धभक्तानां भक्तिपूर्तिदानद्वारा संतोषिकेति यावत् । तदुक्तं शक्ति-
रहस्ये 'अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम् । जन्मान्तरे क्रमप्राप्त्यै पूर्णभक्त्यै
च कल्पत'इति । अभेदज्ञानरूपविद्याविहीनाः पशवः । तदुक्तं बृहदारण्यके 'योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु'रिति । इह योन्यां त्रिकोणचक्र-
इत्यर्थः । 'तस्मिन् हिरण्मये कोशे त्र्यरे त्रिप्रतिष्ठित'इति श्रुत्यन्तरात् । ईदृशानां
पशूनां विद्याविहीनानां पाशे पिपासाऽशनाये विशिष्य मोचयतीति तथा । पिवतेरशा-
तेश्च धातुद्वयस्य पाशपदेन निर्देशः । पातेरश्नातेश्च क्विपि पा अश् हलन्ताट्टापि तयोः
समाहारे पाशमिति रूपम् । तावन्मात्रवत्त्वादेव हि पशुत्वं निर्विद्यानां । तथाच श्रूयते
'अथेतरेषां पशूनामशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न
विदुः श्वस्तनं न लोकालोका'विति । अथवा पशु इत्यव्ययं सम्यगर्थे 'लोधं नयन्ति
पशु मन्यमाना'इति श्रुतौ तथा व्याख्यानदर्शनात् । पशु यथाभवति तथा पाशान्
वरुणपाशान् विमोचयतीति । यद्वा सम्यक्पाशानक्षान्पातयतीति । शिवेन सह द्यूतक्री-
डायां सम्यक्पाशान् फलके पातयित्वा शिवं जयतीति यावत् । अथवा पशुपस्य पर-
शिवस्याशा प्रेप्सा येषां ते पशूपाशास्तान् विशेषेण मोचयति प्राप्तशिवांस्तनोतीति ।
अथवा ब्रह्मादिस्थावरान्ताः पशुसमानधर्मत्वात्पशवः तेषां बन्धसाधनत्वादविद्यैव पाशः ।
तदुक्तं सौरसंहितायामविद्यानामनिर्वचनप्रकरणे 'सर्वाधारतयाधारः पाशोर्बन्धस्य हेतु-
त'इति । तद्विकारास्तत्त्वादयो वा पाशास्तान् शिवभक्त्या मोचयति । तदुक्तं लैङ्गे ।
'ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः ।
चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति । विषया अपि कीर्त्यन्ते पाशाजीवनिबन्धनात् ।
तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिन'इति । अथवा अविद्याऽस्मिता रागो द्वेषोऽभि-
निवेशश्चेतिं पञ्चविधः क्लेशः । आत्मानात्मविवेकाभावोऽविद्या । अनात्मनि देहादावा-
त्मत्वविपर्ययोऽस्मिता । तेनच देहोपभोगकरणे स्रक्चन्दनादावभिलाषो रागः । तत्प्रा-
प्तिपरिपन्थिनि क्रोधो द्वेषः । तदिदमहितमिति ज्ञात्वाप्यज्ञवत्तदपरित्यागोऽभि-
निवेश इति । तदिदं योगसूत्रे प्रथमपादोपान्त्यसूत्रेणोद्देशमात्रं कृत्वा द्वितीयपादे पञ्चभिः
सूत्रैः सलक्षणमुक्तम् । यत्तूक्तं देवीभागवते 'तमोविवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा । मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मन'इति । तत्र तमःप्रभृतीन्यविद्यादीनामेव नामा-
न्तराणि । मरणशब्दो मिथ्याभिनिवेशपरः । तदिदमुक्तं लैङ्गे । 'अविद्यामस्मितां रागं
द्वेषं च द्विपदां वर । वदन्त्यभिनिवेशं च क्लेशान्पाशालमागतान् । तमो मोहो महामो-
हस्ततामिस्रमथ पण्डिताः । अन्धतामिस्रमित्याहुः क्लेशान्वै पञ्चधास्थितान् । अविद्या तम
इत्याहुरस्मिता मोह इत्यपि । रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि । अन्धतामिस्रकं
मिथ्याभिनिवेशं प्रचक्षत'इति । एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव 'तमसोऽष्ट-
विधो भेदो मोहश्चाष्टविधः स्मृतः । महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः । अष्टाँ
विधास्तथा प्राहुस्तामिस्रस्य विचक्षणाः । अन्धतामिस्रभेदाश्च तथाष्टादश कीर्तिता'इति
संहृत्य द्विपञ्चाशत् । तामिस्रस्याप्यष्टादशविधलमाश्रित्य द्विषष्टिः पाशा इति केचित् ।
एते च क्लेशा वैषयिकयोगित्वज्ञरूपपशुत्रैविध्यात्तांस्तान्प्रति विलक्षणाः । तदुक्तं देवीभागवते
'प्रमुक्तास्तत्त्ववेत्तॄणां दग्धदेहास्तु योगिनाम् । अविच्छिन्नोदाररूपाः क्लेशा विषयसङ्गि-
ना'मिति । यत्तु कुलार्णवे 'घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी । कुलं शीलं च
जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः' इति तदविद्यादिक्लेशपञ्चकस्योक्तेष्वेव द्विपञ्चाशद्भेदेषु क-
तिपयानामवगुल्यानुवादः । तेच भेदा विस्तरभयान्नोक्ताः । इत्थंच मूले पशुशब्द उक्त-
परिभाषयैकपञ्चाशत्संख्यापरोऽपि प्रत्यासत्तिसंबन्धेन लक्ष्णया द्विपञ्चाशतपरः । 'नित्या-
नन्दवपुर्निरन्तरगलत्पञ्चाशद्वर्णैः क्रमा'दितिशारदातिलकश्लोके पञ्चाशतपदस्येदृशलक्षणयैव
हर्षदीक्षितादिभिरेकपञ्चाशतपरत्वेन व्याख्यानात् । तेन पशुसंख्यान् द्विपञ्चाशतपाशान्वि-
मोचयतीत्यर्थः । तदुक्तं शिवरहस्ये 'पञ्चक्लेशैर्द्विपञ्चाशतपाशैर्बध्नाति यः पशून् । स एव
मोचकस्तेषां भक्त्या सम्यगुपासित
९६ ललितासहस्रनाम ।
संछन्नो मायाकर्मावृतो विभुः । शरीरशिवतत्वज्ञो भेदैकसिको लघुः । सर्वदा कर्मकर्ता
च स्वकर्मफलभोजकः । नित्यं विषयसंरक्तः सकलः पशुरुच्यत' इति । अत्र मलमायाश-
ब्दावणुभेदपरौ । एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः । तत्र ये पक्व-
मलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशन्मन्त्रेश्व-
रतामाप्ता वर्तन्ते । ते च शतरुद्राख्या अष्टौ शतमण्डलिनोऽष्टौ क्रोधभट्टारकादयो वीरेश्वरः
श्रीकण्ठश्चेति द्वाविति । अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्कमलत्रयांस्तु
भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव । तदुक्तं 'मलादीनाम-
पाके तु सामान्यानुग्रहो भवेत् । अधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः । पशवस्त्रिप्र-
कारास्तु प्राप्नुयुः परमेश्वरी'ति । 'नानायोनिषु पाकाय नियुङ्क्तेऽनुजिघृक्षये'ति च ।
अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः ।
तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते । आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भव-
न्ति । तदुक्तं स्वच्छन्दसंग्रहे । 'मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः । पुर्यष्टक-
शरीराश्च पृथक्कर्मवशात्प्रिये । सर्वयोनिषु संप्राप्य भोगाय स्वस्वकर्मणाम् । भुक्त्वा भोगानि
तेषां तु कर्मसाम्ये शिवः स्वयम् । सुपक्वमलकर्मांस्तान्किंचिदनुगृह्य च । जलतत्त्वादि-
तत्त्वानां मध्ये लोकेश्वराभिधे'ति । आणवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं 'मल-
मात्रेण संवद्धः पशुर्विज्ञानकेवलः । सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये' इति ।
तेऽपि समाप्तकलुषा असमाप्तकलुषाश्चेति द्विविधाः । तत्राद्या विद्येश्वराः । अन्यास्तु
सप्तकोटिमहामन्त्रात्मकाः । नच तेषां जडत्वमिति शङ्क्यम् । शब्दरूपशरीराणां जड-
त्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः । अतएव मृगेन्द्रसंहितायाम् । 'अथाना-
दिमलापेतः सर्वकृत्सर्वदृक् शिवः । पूर्वं व्यत्वासितस्याणोः पाशजालमपोहती'ति ।
आगमिका अप्याहुः । 'भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम् । जडवर्गस्य विधत्ते
सर्वानुग्राहकः शंभु'रिति । अपक्वाणवमलत्वजीवत्वादेव मन्त्राणामणुसंज्ञापि । एवं षड्वि-
धानामपि पशूनां मलपाकतारतम्यान्यान्यदानन्ता भेदाः । तेषां च तत्तत्तारतम्यार्हयो-
निप्रापणैश्वर्यदानान्धपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव । तथाच पशू-
नामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमो-
चिनी । नच मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम् । मोचक-
त्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृत्ताया अन्वयव्यतिरेकाभ्यां शक्तावेव
स्वीकर्तुं युक्तत्वात् । तदुक्तमभियुक्तैः 'शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत'इति । किंच स्वातन्त्र्यं हि कर्तृत्वं । 'स्वतन्त्रः कर्ते'ति
पाणिनिसूत्रात् । तच्च शक्तिगतमेव । तथाच शक्तिसूत्रं 'चितिः स्वतन्त्रा विश्वसिद्धिहेतु'रिति ।
यत्तु 'चैतन्यमात्मे'ति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलङ्गबलाच्च कर्तृत्वादिधर्माभा-
वपरम् । यत्तु 'चितिः स्वतन्त्रा विश्वसिद्धिहेतुरित्याद्यसूत्रं किल शक्तिशास्त्रे । चैतन्य-
मात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेव तस्मा'दित्यभियुक्तैरुच्यते तत्तु शक्तिम-
सौभाग्यभास्करव्याख्या । ९७
तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ॥ १३० ॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
तोरभेदाभिप्रायेणेति तु शैवरहस्यनिष्कर्षः । संहता नाशिता अशेषाः समस्ताः पाख-
ण्डा यया सा तथोक्ता । पाखण्डस्वरूपं च लैङ्गे ‘वेदवाह्याव्रताचाराः श्रौतस्मार्तबहि-
ष्कृताः । पाखण्डिन इति ख्याता न संभाष्या द्विजातिभि’रिति । ब्रह्मवैवर्तेऽपि
‘पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतु-
र्दशे'ति परिगणितानि विद्यास्थानान्यधिकृत्य ‘एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पि-
तम् । दैत्यानां मोहनार्थाय महामोहेन निर्मित’मिति । ‘पाशब्देन तु वेदार्थः पाख-
ण्डास्तस्य खण्डका’इति तु निरुक्तिः । अतएवाह सदाचारप्रवर्तिके
९८ ललितासहस्रनाम ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंततिः ॥ १३१ ॥
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानस हंसिका ॥ १३२ ॥
महावासिष्टे । तत्त्वमस्यादिमहावाक्यघटकतत्पदस्य जगज्जन्मादिकर्तृत्वविशिष्टं शबलं
ब्रह्म वाच्योऽर्थः । तद्देवेह स्तूयमानं धर्मिमात्रं तु शुद्धं ब्रह्म लक्ष्योऽर्थः । अनयोश्च
विशिष्टकेवलोयोस्तादात्म्यं संबन्धः । तदेतदाह । तदितिपदेन लक्षणीयोऽर्थः यस्याः
यत्तादात्म्यापन्नः सा तत्पदलक्ष्यार्था । धर्मिमात्रपरत्वे तु तत्पुरुषापत्त्या 'परवल्लिङ्गं
द्वन्द्वतत्पुरुषयो'रिति नियमात्पुंलिङ्गतापत्तिः । ननु केवलमपि रूपमानन्दादिधर्मविशिष्ट-
मेवेति वाच्यमेवास्त्वत आह । चिता सहैको रसः स्वरूपं येषां, चिदेव मुख्यो रसो
येषां तानि चिदेकरसानि रूपाण्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरू-
पिणी । स्वाभिन्नधर्मवतीतियावत् । उक्तंच पञ्चपादिकायां, 'आनन्दो विषयानुभवो
नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त'इति । तथाच शक्य-
तावच्छेदकभूतसृष्टिकर्तृत्वादिवर्माणं स्वरूपानन्तर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभे-
देन शक्यतावच्छेदकलाभावाद्भागत्यागलक्षणावश्यकीति भावः । यद्वा केवलं ब्रह्म
नेश्वरस्य धर्मेति तयोर्भेदादुक्तः संबन्धो न घटत इल्यत आह । चिदेकरसं चिन्मात्रा-
भिन्नं रूपमस्या एवेत्यर्थः । तयोर्भेदेऽप्यभेदस्यापि सत्त्वाद्भेदसमानाधिकरणाभेदस्यैव
तादात्म्यरूपत्वादुक्तसंबन्धो घटत एवेति भावः । ननु सृष्टिकर्तृत्वादिवर्माणं स्वरूपा-
नन्तर्गतत्वेऽपि शक्यतावच्छेदकत्वसंभवात्तद्विशिष्टस्यैव तत्पदेन प्रतिपादेन तदभेद एव
वाक्यार्थोऽस्तु । वचनबलाद्विशिष्टयोरपि तादात्म्यस्वीकारसंभवात् । 'यो यच्छ्रद्धः स
एव स'इत्यादिवचनानामुपास्योपासकत्वादिविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात् ।
एतेनैतदन्यथानुपपत्त्या कल्प्यमानस्य निर्गुणस्यापि निरासादिशिष्टकेवलयोः संभवन्नपि
संबन्धोऽप्रयोजक एवेत्यत आह—स्वात्मेति । स्वस्या आत्मरूपो य आनन्दस्तस्य
लवीभूता इन्द्राद्यानन्दबिन्दुपर्यालोचनया सागरायमाणत्वेनाल्पा अपि देव्यानन्दसाग-
रस्य लवाः संपद्यमानाः ब्रह्मादीनां सृष्टिकर्तृत्वादिविशिष्टानां ब्रह्मविष्णुरुद्राणामान-
न्दाना संततयः सम्यक्समूहा यस्याः सा । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रा-
मुपजीवन्ती'ति श्रुतेः । तैत्तिरीये मानुषानन्दमारभ्योत्तरोत्तराधिक्येन वर्ण्यमानानामा-
नन्दानां मध्ये परिगणितानां प्रजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्नब्रह्मा-
नन्दतोऽल्पत्वेन पुरुषार्थत्वायोगादपरिच्छिन्नानन्दस्य निर्गुणस्य सिद्धत्वाच्च पुरुषार्थ-
साधनज्ञानोपक्रमादितात्पर्यनिर्णायकप्रमाणाविरोदाय तत्पदस्य निर्धर्मकात्मलक्षकत्वमेव
युक्तमित्याशयः । 'लवो लेशे विलासे चे'ति विश्वः ॥ १३१ ॥ ननु शब्दार्थयोस्तादा-
त्म्यस्यैव शक्तिपदार्थत्वान्निर्गुणस्यापि ब्रह्मणः शब्दब्रह्माभिन्नत्वेन किमिति तत्र सत्यादि-
शब्दानां लक्षणेत्याशङ्क्य वैखर्यात्मकपदानां विराट्पुरुषेणैव सह तादात्म्येन शुद्धब्रह्म-
सौभाग्यभास्करव्याख्या । ९९
तादात्म्यं नास्त्येवेति समाधित्सया वाचं विभजते । अत्रेदं बोध्यम् । प्रलये सृज्य-
मानप्राणिकर्मणामपरिपाकद्शायां तादृशकर्माभिन्नमायावच्छिन्नं ब्रह्म घनीभूतमित्यु-
च्यते । कालवशात्कर्मणां परिपाके सति विनश्यदवस्थः परिपाकप्राग्भावो विचिकीर्षे-
त्युच्यते । ततः परिपाकक्षणे मायावृत्तिरुत्पद्यते तादृशं परिपक्वकर्माकारपरिगणित-
मायाविशिष्टं ब्रह्माव्यक्तपदवाच्यम् । अतएव तस्योत्पत्तिरपि स्मर्यते 'तस्मादव्यक्तमुत्पन्नं
त्रिगुणं द्विजसत्तमे'ति । स एव जगदङ्कुरकन्दरूपत्वात्कारणबिन्दुपदेन व्यवह्रियते ।
तदुक्तं प्रपञ्चसारे 'विचिकीर्षुर्घनीभूता सा चिदभ्येति बिन्दुता'मिति । अस्माच्च कारण-
बिन्दोः सकाशात्क्रमेण कार्यबिन्दुस्ततो नादस्ततो बीजमिति त्रयमुत्पन्नम् । तदिदं
परसूक्ष्मस्थूलपदैरप्युच्यते । चिदंशश्चिदचिन्मिश्रोऽचिदंशश्चेति तेषां रूपाणि । तदुक्तं
रहस्यागमे 'कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य
त्रैविध्यमिष्यते । स बिन्दुनादबीजत्वभेदेन च निगद्यत' इति । एते च कारणबिन्द्वा-
दयश्चत्वारोऽधिदैवतमव्यक्तेश्वरहिरण्यगर्भविराड्रूपाः, शान्तावामाज्येष्ठारौद्रीरूपा
अम्बिकेच्छाज्ञानक्रियारूपाश्च । अधिभूतं तु कामरूपपूर्णगिरिजालन्धरोड्र्याणपीठरूपा
इति तु नित्याहृदये स्पष्टम् । अध्यात्मं तु कारणबिन्दुः शक्तिपिण्डकुण्डल्यादिशब्दवाच्यो
मूलाधारस्थः 'शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां ज्ञात्वेत्थं न पुनर्विशन्ति
जननीगर्भेऽर्भकत्वं नरा' इत्यादिरीत्याचार्यैर्व्यवहृतः सोयमविभागावस्थः कारणबिन्दुः ।
अयमेव च यदा कार्यबिन्द्वादित्रयजननोन्मुखो भिद्यते तद्दशायामव्यक्तः शब्दब्रह्मा-
भिधेयो रवस्तत्रोत्पद्यते । तदप्युक्तम् । 'बिन्दोस्तस्माद्भिद्यमानादव्यक्तात्मा रवोऽभवत् ।
स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति गीयत'इति । सोयं रवः कारणबिन्दुतादात्म्यापन्न-
त्वात्सर्वगतोऽपि व्यञ्जकयत्नसंस्कृतपवनवशात्प्राणिनां मूलाधार एवाभिव्यज्यते । तदुक्तं
'देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः । विवक्षोरिच्छयोत्थेन प्रयत्नेन सुसंस्कृतः ।
स व्यञ्जयति तत्रैव शब्दब्रह्मापि सर्वग'मिति । तदिदं कारणबिन्द्वात्मकमभिव्यक्तं शब्द-
ब्रह्म स्वप्रतिष्ठतया निष्पन्दं तदेव च परावागित्युच्यते । अथ तदेव नाभिपर्यन्तमा-
गच्छता तेन पवनेनाभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपकार्य-
बिन्दुमयं सत्पश्यन्तीवागुच्यते । अथ तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभि-
व्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दप्रकाशरूपनादमयं सन्मध्यमा-
वागित्युच्यते । अथ तदेव वदनपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानम-
कारादिवर्णरूपपरं श्रोत्रग्रहणयोग्यस्पष्टतरप्रकाशरूपबीजात्मकं सद्वैखरीवागुच्यते ।
तदुक्तमाचार्यैः 'मूलाधारात्प्रथममुदितो यश्च भावः परा
१०० ललितासहस्रनाम ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ १३३ ॥
वैखर्यात्म्य' इत्यादि । इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः
स्थूलदृशो वैखरीमेव वाचं मन्वते । तथाच श्रुतिः 'तस्याद्यद्वाचो नाप्तं तन्मनुष्या
उपजीवन्ती'ति । अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थ इति वेदभाष्ये । श्रुत्यन्तरेऽपि
'चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता
नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ती'ति । स्कान्दे यज्ञवैभवखण्डेऽपि 'अपदं पदमापन्नं
पदं चाप्यपदं भवेत् । पदापदविभागं च यः पश्यति स पश्यती'ति । अपदं गतिरहितं
निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं
ब्रह्मैव भवतीति तदर्थः।एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् 'ते विभक्त्यन्ताः
पद'मिति गौतमसूत्रेण, 'सुप्तिङन्तं पद'मिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणा-
न्तर्गतसुप्प्रत्ययादेरपि चातुर्विध्यात्परात्मकतदपदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन
ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभावेन वैखर्यात्मकतत्पदस्य कैमुतिकन्यायेन दूरापास्तं
तत्तातदात्म्यमिति शब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव
स्वीकार्यैति भावः । मातृकाभेदेषु तिसृभ्यः परत्वात्परा । त्रिपुरासिद्धान्ते तु प्रकारा-
न्तरैरपि निरुक्तिरुक्ता 'श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा । परानन्दाभिधे तन्त्रे
प्रसिद्धत्वाच्च सा परा । प्रासादरूपिणी चेति परा सा शांभवीपरे'ति । प्रतिकूलं
स्वात्माभिमुखमञ्चतीति प्रतीची साच सा चिती च प्रत्यक्चिती अव्यक्तसंज्ञं ब्रह्म
सैव रूपं यस्यास्तथा । चिनोतेः क्विबन्तात् 'कृदिकारादि'ति ङीष् । पश्यतीति पश्यन्ती ।
अस्या एवोत्तीर्णेत्यपि संज्ञा । उक्तंच सौभाग्यसुधोदये 'पश्यति सर्वे स्वात्मनि करणानां
सरणिमपि यदुत्तीर्णा । तेनेयं पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते माते'ति । परा उत्कृष्टा चासौ
देवता च परदेवता । उपास्येश्वरस्वरूपेत्यर्थः । मध्ये स्थिता मध्यमा । तदुक्तं 'पश्यन्तीव
न केवलमुत्तीर्णा नापि वैखरीव बहिः । स्फुटतरनिखिलावयवा वायुरूपा मध्यमा
तयोरस्मा'दिति । विशेषेण खरः कठिनस्तस्येयं वैखरी सैव रूपं यस्याः । घनभाव-
मापन्नेति यावत् । वै निश्चयेन खं कर्णविवरं राति गच्छतीति व्युत्पत्तिः सौभाग्यसुधोदये
कथिता । 'प्राणेन विखराह्वयेन प्रेरिता वैखरी पुन'रिति योगशास्त्रवचनाद्विखरवायु-
नुन्नेति वा । भक्तानां मानसे चित्ते श्लेषभित्तिकाभेदाध्यवसायेन सरोविशेषे हंसीव
हंसिका । परैरज्ञातत्वात्कप्रत्ययः ॥ १३२ ॥ कामेश्वरस्य शिवकामस्य प्राणनाडी
जीवनाडीव । तदुक्तमाचार्यभगवत्पादैः 'करालं यत्क्ष्वेलं कवलितवतः कालकलना न
शंभोस्तन्मूलं तव जननि ताटङ्कमहिमे'ति । कृते सुकृतदुष्कृते जानातीति कृतज्ञा ।
'सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मणो नव साक्षिण'
इत्युक्तनवकाभिन्नेति वा । कृतस्योपकारस्य ज्ञानेन प्रत्युपकर्त्री वा । कृतवत् ज्ञा ज्ञानं
सौभाग्यभास्करव्याख्या । १०१
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ १३४ ॥
यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं ह्रासात्कृते यथा पूर्णं ज्ञानं
तादृशज्ञानवतीत्यर्थः । यद्वा द्यूतशास्त्रे कृतत्रेताद्वापरकलिसंज्ञानि चत्वारि द्यूतानि प्रसि-
द्धानि । तानि चतुस्त्रिद्व्येकाङ्कघटितान्यपि दशपदद्रव्येकरूपाणि । पूर्वपूर्वद्यूते उत्तरोत्तरद्यू-
तानामन्तर्भावात् । तथाच श्रूयते ‘ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृत’मिति
दशानां कृतसंज्ञा । अतएव कृतद्यूतं जितवता त्रेतादिद्यूतत्रयमपि जितं भवतीति
द्यूतशास्त्रमर्यादापि । श्रूयते च ‘कृतायविजितायाधरेऽयाः संयन्ती’ति । अयो द्यूतक्रीडा-
कृतरूपोऽयो विजितो येन तस्मै अधरे तदधस्तना अयास्त्रेतादिक्रीडाः संयन्ति उपनमन्ते
जिता भवन्तीति तदर्थात् । तेन कृतं यथा सर्वव्यापकमेवं सर्वविषयकं ज्ञानं यस्या
इत्यर्थः । कृतं जानातीति वा । शिवेन सह द्यूतक्रीडायामवश्यं कृतज्ञत्वाद्देव्या एव
जय इति ध्वन्यम् । कामेन मन्मथेन पूजितोपासिता । अतएव वारुणोपनिषदि ‘पुत्रो
निर्ऋत्या वैदेह अचेता यश्च चेतनः । स तं मणिमविन्द’दिति श्रूयते । लक्ष्म्याः पुत्रोऽनङ्गो
विद्यारत्नं प्राप्तवानित्यर्थः । शृङ्गाराद्यैरसेन सम्यक् पूर्णा । अथवा उत्तरत्र जाल-
न्धरोड्याणपीठयोः परामर्शदर्शनादनयोर्नाम्नोः कामरूपं पूर्णगिरिपरत्वं नामैकदेश-
न्यायेनास्थेयम् । सम्यक् पूर्णे आस्ते इति संपूर्णास् । आस्तेः क्विपि रुत्वयत्वलोपाः ।
शृङ्गपदेन द्विसंख्या । अपरपदेन दलम् । रसाः षट् । द्विदलंषट्कं द्वादशदलमनहत-
चक्रमिति यावत् । अधिभूतं प्रसिद्धस्य पीठचतुष्कस्याध्यात्मं मूलाधारानाहतविशुद्ध्याज्ञा-
स्थिते तन्त्रेषु कथनाद्द्वादशदलेति पूर्णगिरिविशेषणम् । यद्वा शृङ्गं प्रधानभूतं अररं कवाटं
आवरकाविद्येति यावत् यस्याः सा शृङ्गाररा । संपूर्णेन ब्रह्मणा सहिता ससंपूर्णा ।
उभयोः कर्मधारये शबलब्रह्मशुद्धब्रह्मोभयवतीति यावत् । जयरूपत्वाज्जया । पाद्मे
‘जया वराहशैले त्वि’ति परिगणिता । जालन्धरे पीठविशेषे स्थिता । पाद्मे ‘जालन्धरे
विष्णुमुखी’ति प्रतिपादितविष्णुमुखव्याख्या ॥ १३३ ॥ अथ नामपरिभाषामण्डले चतु-
श्चत्वारिंशत्पदानि विभजते ॥ द्वेद्वे चेद्वेद्वेभवदोहदभुविलेशशीलजलमोहैः ।
द्यर्धचतुर्भवगाः स्सो भुवि जलशोभा भगोलः खे ॥ १७ ॥ अत्र तृतीयं द्वे
इति पदं षडक्षरनामद्वयपरं इतराणि त्वष्टाक्षरपराणि । चतुःपदं चतुरक्षरनामचतु-
ष्टयपरम् ॥ १७ ॥ ओड्याणाख्यं पीठमेव निलयो वासस्थानं यस्याः । बिन्दुरेव मण्डलं
सर्वानन्दमयात्मकं चक्रवालं तत्र वसति । बिन्दुः शुक्लं तस्य मण्डलं ब्रह्मरन्ध्रमित्यन्ये ।
‘सहस्रारे पद्मे सह रहसि पत्या विहरसे’ इत्याचार्योक्तेः । रहसि विविक्ते क्रियमाणो
यागश्चिदमौ अनच्ककुण्डलन्यधिष्ठिते पुंन्यादिहोमाष्टकरूपो रहोयागस्तस्य क्रमेण प्रयो-
गेणाराध्या । ‘यज देवपूजासंगतिकरणदानेष्वि’ति धातुपाठादेकान्तसंगतिरेव वा
रहोयागः तत्र क्रमेण पादविक्षेपेणाराध्या प्राप्या । यदाहापस्तम्बः ‘न शब्दशास्त्रा-
१०२ ललितासहस्रनाम ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ १३५ ॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ १३६ ॥
भिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य । न भोजनाच्छादनतत्परस्य न लोकचित्त-
ग्रहणे रतस्य । एकान्तशीलस्य दृढव्रतस्य मोक्षो भवेत्प्रीतिनिवर्तकस्य । अध्यात्मयोगे
निरतस्य सम्यङ्मोक्षो भवेन्नित्यमहिंसकस्ये'ति । अरुणोपनिषदपि 'यदि प्रविशेत् मिथो
चरित्वा प्रविशेदिति । श्रीविद्योपासनामार्गे रहःसंपाद्यैव प्रविशेदिति तदर्थः । 'मिथो-
ऽन्योन्यं रहस्यपी'तिकोशात् 'प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनी स्रुचम् । धर्माधर्म-
कलास्नेहं पूर्णवह्नौ जुहोम्यह'मिति । मन्त्रोक्तार्थविभावनं 'अन्तर्निरन्तरनिरिन्धनमे-
धमाने मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमरीचिविकासभूमौ विश्वं
जुहोमि वसुधादिशि वा वसान'मिति । मन्त्रार्थविभावनं च रहस्तर्पणं तेन तर्पिता
॥ १३४ ॥ तादृशयागतर्पणाभ्यां सद्यस्तदात्व एव प्रसीदतीति तथा । विश्वस्य द्रष्ट्री
साक्षादव्यवधानेन स्वरूपात्मकबोधेनेति विश्वसाक्षिणी । 'साक्षाद्द्रष्टरि संज्ञाया'मितीन् ।
सर्वसाक्षिण्याः साक्ष्यन्तरायोगात्साक्षिवर्जिता । षडवयवकान्यङ्गानि हृदयशिरःशिखा-
नेत्रकवचास्त्राणि तेषां देवताभिः शक्तिभिर्युक्ता आवृता । ज्ञानार्णवादिषु 'अथाङ्गावरणं
कुर्याच्छ्रीविद्यामनुसंभवम् । षडङ्गावरणाद्वाह्यसमीपे क्रमतोऽर्चयेत् । परिवारार्चनं
पश्चादादावङ्गावृत्तः प्रिये'इत्यादिव्यवहारदर्शनेन तासामप्यावरणदेवतात्वात्, ताभिः
सहैव नवावरणसंख्यापूर्तेः संभवाच्च । षण्णामङ्गानामधिष्ठात्री देवता महेश्वर एव ।
तेन युक्ता वा । उक्तंच देवीभागवते 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्त-
शक्तिः । अनन्तता चेति विधेर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्ये'ति । शिक्षाकल्पादि-
षडङ्गाभिमानिदेवतासाहित्याच्छ्रुतिस्वरूपेति वार्थः । संधिविग्रहयानासनद्वैधीभावसमा-
श्रयाणां कामन्दकोक्तानामैश्र्वर्यधर्मयशःश्रीज्ञानवैराग्याणां पुराणप्रसिद्धानां वा षण्णां
गुणानां समूहः षाङ्गुण्यं तेन परितः पूरिता ॥ १३५ ॥ नित्यं दयया क्लिन्ना सार्द्रा ।
तृतीयातिथिनित्या नित्यक्लिन्नेत्युच्यते । इयं गरुडपुराणे 'नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां
भुक्तिमुक्तिदा'मित्यादिना प्रपञ्चिता तद्रूपा वा । निर्गतोपमा सादृश्यं यस्याः सा
निरुपमा । 'न तस्य प्रतिमास्ती'तिश्रुतेः । निर्गतं बाणं शरीरं यस्मिंस्तदशरीरम् ।
'एतद्वाणमवष्टभ्ये'तिश्रुतौ वेदान्तिभिर्गीर्वाणपदे च मीमांसकैर्बाणशब्दस्य शरीरपरत्वेन
व्याख्यानात् । 'शरीरे बाणमुद्गला'वित्यमरशेषाच्च । अशरीरं इयत्तानवच्छिन्नं सुखं
मोक्षाख्यं ददातीति तथा । कौर्मे हिमवन्तंप्रति देवीवाक्यं 'मामनादृत्य परं निर्वा-
णममलं पदम् । प्राप्यते नहि शैलेन्द्र ततो मां शरणं व्रज । एकत्वेन पृथक्त्वेन तथाचो-
भयतोऽपि वा । मामुपास्य महाराज ततो यास्यसि तत्पद'मिति । षोडशैव षोडशिकाः
सौभाग्यभास्करव्याख्या । १०३
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ १३७ ॥
नित्याश्च ताः षोडशिकाश्च कामेश्वर्यादित्रिपुरसुन्दर्यन्तास्तासां रूपाणि यस्याः सा । उक्तं
च तन्त्रराजे 'आद्याया ललितायाः स्युरन्याः पञ्चदशाङ्गगाः । ललिताखिलरूपेण
सर्वासामात्मविग्रहे'ति । षोडश्येव षोडशिकेति वा । नित्यो विकल्पसहित आसमन्ता-
त्षोडशिको ग्रहयागाभ्यासविशेषो येषु क्रतुषु तैरासमन्ताद्रूप्यते प्रीयत इति वा ।
अतिरात्रे विकल्पितस्यापि षोडशिग्रहस्योत्तरेऽहन् द्विरात्रस्य गृह्यत' इत्यादिवचनैरुत्तर-
क्रतुषु नित्यत्वात् । उक्तंच शक्तिरहस्ये 'कोटिभिर्वाजपेयानां यथा षोडशकोटिभिः ।
प्रीयतेऽम्बा तथैकेन षोडश्युच्चारणेन से'ति । श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठः शिवस्त-