ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 113, कुल 272 में से
संदर्भ में पढ़ेंपदेन ध्वन्यते । एतदपि च न वेदानां सामर्थ्यादपि तु मातुराज्ञयैवेति च्विप्रत्ययेन
ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे । 'सर्वज्ञाः श्रुतयोऽपि याः परशिव
त्वत्प्राणरूपाः प्रियाः शृङ्गाग्राहिकया त्रपाभृत इव त्वां न प्रजल्पन्ति ताः । अन्यानेव तु
नेतिनेति बहुशो वाचा निषेधन्ति चेत्कोऽन्यस्त्वामिदमित्यमिलनुवदेत्तत्रापि माहग्जन'
इति । विधिमुखेन प्रतिपादयन्तस्त्वागमाः स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव
निर्दिशन्तीत्याह । सकलाश्च ते आगमा वेदाश्च तेषां संदोहाः समूहा एव शुक्तयस्ताभिः
संपुटं पुटितं गर्भिकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा तथोक्ता । मौक्तिकपदं
समीपवर्तिसृष्ट्यादिधर्मोपलक्षकं स्थूलतारकासाम्यात्तन्मयायस्मारकं च । अम्बामुख-
समीपवर्त्यसाधारणं मौक्तिकाद्येव वेदैः