ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 114, कुल 272 में से
संदर्भ में पढ़ेंयन्त्रपटले 'एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनान्यलि'त्युपक्रम्य हल्लेखाघटकाक्षरेषु हका-
रादिषु 'व्योमबीजे महेशानि कैलासादिप्रतिष्ठित'मित्यादिना प्रत्येकं भुवनादिसद्भावं
प्रतिपाद्य 'अतएव महेशानी भुवनाधीश्वरी स्मृते'त्युपसंहृत्य 'हकाराद्व्योमतुर्येण खरेणा-
निलसंभव'इत्यादिना भुवनजनकत्वमप्युक्त्वा 'अतएव महेशानी भुवनेशीति कथ्यत'
इत्युपसंहारेण द्वेधा निरुक्तम् । अम्बैवाम्बिका । जगन्माताभारतीपृथ्वीरुद्राण्यात्मके-
च्छाज्ञानक्रियाशक्तीनां समष्टिरम्बिकेत्युच्यते तद्रूपा वा । रात्रिरूपा निद्रारूपा वा ।
'अम्बिका कैतवे सिद्धे निद्रायां निशि कीर्त्यत'इति विश्वः । उक्तंच नवरात्रदीपे
स्कान्दे । 'रात्रिरूपा महादेवी दिवारूपो महेश्वर' इति । हरिवंशेऽपि 'या ह्येषा गह्नरी
माया निद्रेति जगति स्थिता । तस्यास्तनु