सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

द्वितीय शतक: नाम २५१ से ५०० (मूलाधार से आज्ञा चक्र कुण्डलिनी रहस्य)

७८ ललितासहस्रनाम ।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
नानां सदा संततचेतसाम् । कर्माणि क्रियमाणानि कालो ग्रसति तत्क्षणात् । काल-
कर्ष णिकैवान्तः करोति मधुवर्षति । इति यो वेद तस्य स्याद्ब्रह्मरन्ध्रात्सुधास्रुतिः । वैदेही
जनयामास सरघा कालकर्षणी । अहोरात्रैरिमां विद्यां दशपञ्चभिरक्षरै'रिति । अत्र
तृतीयचतुर्थश्लोकयोरयमर्थः । कालकर्षण्याख्या देवी मधु करोतीति मधुकृत् रात्रिरूपा ।
मधुवर्षतीति मधुवृषा अहोरूपा च । इति प्रकारेण रात्रिंदिवसाभिन्नां देवीं यो वेदे-
त्यादि । विगतो देहो यस्य स विदेहोऽनङ्गः कामेशस्तत्संबन्धिनी वैदेही कामेश्वरी
अहोरात्राभिन्नैः पञ्चदशभिर्वर्णैरिमां पञ्चदशीं विद्यां जनयामास । तथाच श्रुतिः ।
'जनको ह वैदेहोऽहोरात्रैः समाजगामे'ति । इयमेव च मधुकर्तृत्वात्सरघा । 'सरघा-
मधुमक्षिके'त्यमरः । श्रुतिरपि 'इयं वाव सरघा तस्या अग्निरेव सारघं मध्वि'तीत्यलं
विस्तरेण । जाग्रदाख्यावस्थालक्षणमुक्तमीश्वरप्रत्यभिज्ञायाम् । 'सर्वाक्षगोचरत्वेन या तु
बाह्यतया स्थिरा । सृष्टिः साधारणी सर्वप्रथातामयं स जागर'इति । तद्वान् जागरी
विश्वाख्यः स्थूलशरीराभिमानी जीवः । तदभिन्ना जागरिणी । 'ऋन्नेभ्यो ङीप्' ।
स्वप्नलक्षणमपि प्रत्यभिज्ञायाम् । 'मनोमात्रपथेऽध्यक्षविषयत्वेन विभ्रमात् । स्पष्टाव-
भासभावानां सृष्टिः स्वप्नपदं मत'मिति । स्वपितीति स्वपन् स्वप्नदशापन्नस्तैजसाख्यः
सूक्ष्मशरीरव्यष्ट्यभिमानी जीवः तदभिन्ना स्वपन्ती । 'उगितश्चे'ति ङीप् । तैजसा
उक्तलक्षणा जीवास्तत्समष्टिभूतो हिरण्यगर्भ आत्मा स्वरूपं यस्याः सा तैजसात्मिका
॥ ११३ ॥ सुप्तं संमदावस्था । तल्लक्षणं च शिवसूत्रे 'अविवेको माया सौषुप्त'मिति ।
'सुखमहमस्वाप्सं न किंचिदवेदिष'मिति स्मरणान्यथानुपपत्त्या कल्पितास्तिस्रोऽविद्या-
वृत्तयोऽज्ञानाहन्तासुखविषयिण्यः सन्ति यत्र तत्सौषुप्तमित्यर्थः । तद्वान्प्राज्ञाख्यः कारण-
शरीरव्यष्ट्यभिमानी जीवः सुप्तः । अर्शआदिभ्योऽच् । तदभिन्ना सुप्ता । प्राज्ञा उक्तलक्षणा
जीवास्तत्समष्टिभूत ईश्वर आत्मा स्वरूपं यस्याः सा प्राज्ञात्मिका । एतदवस्थात्रयस्य
तद्भोक्तॄणां च विविच्य ज्ञानजन्यः शुर्द्धविद्योदयाख्यश्चमत्कारस्तुर्यावस्था । तदुक्तं
स्पन्दशास्त्रे । 'त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः । विद्यात्तदुभयं यस्तु
स भुञ्जानो न लिप्यत'इति । वरदराजेनापि । 'तुर्ये नाम परं धाम तदाभोगश्चमत्क्रिया ।
भेदेऽपि जागृदादीनां योगिनस्तस्य संभवे'दिति । शिवसूत्रमपि । 'जाग्रत्स्वप्नसुषुप्ति-
भेदेऽपि तुर्याभोगसंभव'इति । 'त्रिषु चतुर्थं तैलवदासेच्य'मिति च । तद्वान्महाकारण-
शरीराभिमानी जीवस्तुर्यः । तस्य व्यष्ट्या समष्ट्या चाभिन्ना तुर्या । तुर्यावस्थाप्राप्ता-
वुपायः शिवेनोक्तः । 'मनः स्वचित्तेन प्रविशे'दिति । 'प्राणायामादिकं कृत्वा स्थूलोपायं
विकल्पकम् । अविकल्पकरूपेण स्वचित्तेन स्वसंविदा । अन्तर्मुखपरामर्शचमत्कारर-
सात्मना । मनस्तुर्यरसेनात्र स्वदेहादिप्रमातृताम् । मज्जनेन प्रशमयेत्प्रविशेत्तत्समा-
विशेत्' इति । यद्वा 'शिवमद्वैतं चतुर्थं मन्यन्त' इति श्रुतिप्रसिद्धस्वरूपा तुरीया

सौभाग्यभास्करव्याख्या । ७९
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ११४ ॥
कापि देवतेति शक्तिरहस्यात् । 'तुरीया कापि त्वं दुरधिगमनिःसीममहिमे'ति भग-
वत्पादोक्तेश्च । त्रिपुरासिद्धान्तेतु । 'तुरीयानन्दनाथस्य प्रसन्नत्वाद्धरानने । तुर्येति नाम
विख्यातं तस्य देव्या निरन्तर'मित्युक्तम् ॥ अथ चत्वारिंशन्नामानि परिभाषायां
विभजते ॥ दिविभारतभुविताडघमृदुजंगमभोवदार्थदिवा । वाक्चतुरं-
घ्रिर्ध्यर्धातत्फलमूलं तदेव वादबलम् ॥ १४ ॥ स्पष्टोऽर्थः ॥ १४॥ अस्ति पञ्चमी
जीवावस्था । तस्याश्च रूढ्या नामान्तराभावात्तुर्यावस्थामतिक्रान्तत्वात्तुर्यातीतेत्येव
यौगिको व्यवहार इत्याशयेनाह—सर्वेति । तुर्यावस्थामतिक्रान्ते पुरुषे प्राथमिकाव-
स्थात्रयातिक्रमस्यावश्यकत्वात्सर्वाभिश्चतसृभिरवस्थाभिर्विशेषेण पुनरावृत्यभावपूर्वकं व-
र्जितो रहितो जीवस्तुर्यातीतस्तत्समष्टिव्यष्ट्यभेदादिदमपि सर्वावस्थाविवर्जितेत्यर्थः ।
सा च तुर्यावस्थादार्ढ्याद्भवति । 'तुर्यावष्टम्भतो लभ्यं तुर्यातीतं परं पद'मिति वच-
नात् । वरदराजोऽप्याह । 'तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् । संप्राप्तः साधकः
साक्षात्सर्वलोकान्तरात्मना । तुल्यः शिवेन चिन्मात्रस्वच्छन्दानन्दशालिने'ति ।
पञ्चमदशापन्नस्य स्वरूपकथनाय सूत्रत्रयम् 'शरीरवृत्तिर्व्रतं । कथा जपः । दानमात्म-
ज्ञानमि'ति । खात्मानुसंधानरूपशिवपूजासाधनत्वाच्छरीरधारणं व्रतरूपं न तुच्छम् ।
अतएव भट्टोत्पलेन शरीरधारणं प्रार्थितम् । 'अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् ।
भवत्पूजोपभोगाय शरीरमिदमस्तु मे' इति । स्वैरभिलापमात्रं जपः । तच्चित्तस्य सत्य-
ग्राहित्वात् । तदुक्तं योगसूत्रद्वये । 'निर्विचारवैशारद्येऽध्यात्मप्रसादः' 'ऋतंभरा तत्र
प्रज्ञे'ति । 'यद्धि मनसा ध्यायति तद्वाचा वदती'तिश्रुत्या तदुक्तेः सर्वस्या अपि
यथार्थरूपत्वेन मन्त्ररूपत्वात् । तदुक्तं योगवासिष्ठे । 'सदा सन्तोऽभिगन्तव्या यद्यप्यु-
पदिशन्ति नो । या हि स्वैरकथास्तेषामुपदेशा भवन्ति ता'इति । परेभ्य आत्मोपदेश
एव दानम् । तदुक्तं कृष्णदासेन । 'प्रोक्तचैतन्यरूपस्य साक्षात्कारणमात्मनः । यत्तज्ज्ञानं
तदेवास्य दानं यत्तेन दीयते'इति । एतत्सूत्रत्रयमुपलक्षणपरत्वेन व्याख्येयमिति
मन्वानैरुक्तं भगवत्पादैः । 'जपो जल्पः शिल्पं सकलमपि मुद्राविरचन'मित्यादि ।
वार्तिकेपि । 'इति प्रोक्तं व्रतं कुर्वञ्जपं चर्यां च पालयन् । शिवतुल्यः सदा खात्मा
शिवाराधनतत्परः । अयमेव महायोगी महामन्त्रधुरंधरः । अन्तेवासिजनस्यान्तस्तत्त-
स्तत्त्वबोधक'इति । एवमविद्यावशीकृतस्य जीवस्य पाञ्चविध्यमुक्त्वा वशीकृतमायाव-
च्छिन्नस्येश्वरस्य कृत्यभेदेन तथात्वमाह—सृष्टीत्यादिना । आचार्यभगवत्पादैरयमर्थो
'जगत्सूते धाते'ति श्लोके निरूपितः । सृष्टिर्जगन्निर्माणं रजोगुणप्रधानस्येश्वरस्य कृत्यम् ।
तस्य कर्त्री । ब्रह्मा चतुर्मुखस्तादृश ईश्वरः, स एव रूपं यस्याः । तदुक्तं विष्णुपुराणे ।
'ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तय' इति । गोपनं जगतः स्थितिः सा च सत्त्व-
गुणप्रधानस्येश्वरस्य कृत्यम् । तस्य कर्तृत्वाद्वोप्त्री । गोविन्दस्तादृश ईश्वरो विष्णुः स

८० ललितासहस्रनाम ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ११५ ॥
एव रूपमस्याः । तथाच हरिवंशे नारदवाक्यम् । 'प्रकृत्याः प्रथमो भाग उमादेवी
यशस्विनी । व्यक्तः सर्वमयो विष्णुः स्त्रीसंज्ञो लोकभावन'इति । गोविन्दपदनिरुक्ति-
र्विष्णुभागवते । 'अहमिन्द्रो हि देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति नाम्ना
त्वां भुवि गास्यन्ति मानवा'इति । भारते मोक्षधर्मेऽपि । 'नष्टां च धरणीं पूर्वमविन्दं
वै गुहागताम् । गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुत'इति । हरिवंशेऽपि । 'गौरेषा
तु तथा वाणी तां च विन्दयते भवान् । गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवा-
नि'ति । 'गवादिषु विदेः संज्ञाया'मिति शः । 'गोविन्दो वासुदेवे स्याद्गवाध्यक्षे
बृहस्पता'विति विश्वप्रकाशकोशाद्बृहस्पतिरूपेति वा ॥ ११४ ॥ संहारो जगतः परमा-
ण्वादिसावशेषो ध्वंसस्तमोगुणप्रधानस्येश्वरस्य कृत्यं तत्करोतीति संहारिणी । रुद्रस्तादृश
ईश्वरः । रुजं द्रावयतीति वा रोदयतीति वा । संवर्तकालीनाया वृष्टेरेतत्सूर्याख्यनेत्रजन्य-
त्वेनाश्रुरूपत्वात् । 'सोरौदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व'मिति श्रुतेः । 'रुजं द्रावयते तस्माद्रुद्रः
पशुपतिः स्मृत'इति शिवरहस्याच्च । 'प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्ती'ति
छान्दोग्यात् 'रोदेर्णिलुक्चे'त्यौणादिको रक् । अण्यन्तादपि रगित्याहुः । 'तुष्ट्यर्थं ब्रह्मणः
पुत्रो ललाटादुत्थितः स्वयम् । अरुदत्सुस्वरं घोरं जगतः प्रभुरव्यय'इति भारते ।
वायवीयसंहितायां तु 'रुद्दुःखं दुःखहेतुर्वा तद्रावयति यः प्रभुः । रुद्र इत्युच्यते
तस्माच्छिवः परमकारण'मित्युक्तं स एव रूपं यस्यास्तथा । तिरोधानमाच्छादनं
निरवशेषो ध्वंसः । परमाण्वादेरपि प्रकृतौ लयो दीपनाशत्तुल्यो घनतरशुद्धसत्त्वप्रधा-
नस्येश्वरस्य कृत्यं तत्करोतीति तिरोधानकरी । तिरस्करिण्याख्यशक्तिविशेषरूपा वा ।
तदुक्तं त्रिपुरासिद्धान्ते 'अभक्तानां च सर्वेषां तिरोधानकरी यतः । श्रीस्तिरस्करिणी
तस्मात्प्रोक्ता सत्यं वरानने'इति । ईश्वरपदेन घनतरशुद्धसत्त्वप्रधान ईश्वर उच्यते ।
ईश्वरपदस्य मायाया इव तादृशसत्त्वगुणस्यापि शक्यतावच्छेदकत्वेनानेकार्थत्वात् ।
तदभिन्नत्वादीश्वरी । 'वनोरचे'ति ङीप् । वस्तुतः 'स्येशभासे'ति वरचि गौरादित्वान्ङीष् ।
अश्नोतेर्वा वरट् इच्चोपधायाः टित्वान्ङीप् । पराहन्तेवैश्वरत्वं तद्वतीत्यर्थः । उक्तंच
विरूपाक्षपञ्चाशिकायां विश्वशरीरस्कन्धे । 'ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता
चेति । एते चाहन्तायाः पर्यायाः सद्द्भिरुच्यन्त'इति । विरलतरशुद्धसत्त्वप्रधान ईश्वरः
सदाशिवस्तदभेदात्सदाशिवा । अदन्तत्वाट्टाप् । अनुग्रहो निरवशेषध्वंसमापन्नस्य जगतः
सृष्ट्यादौ पुनः परमाण्वादिरूपतापत्तिः । साच तावदुक्तविधस्येश्वरस्य कृत्यं तद्ददाति
कुरुत इत्यनुग्रहदा । तिरोधानानुग्रहौ बन्धमोक्षौ वा । एतत्पक्षे बहिरन्तरुन्मेषनिमेष-
लक्षणयोरीश्वरसदाशिवयोरेतत्प्रदत्वं स्वारसिकं भवति । पञ्चविधानामुक्तुरूपाणां कृ-
त्यानां परायणं आश्रयस्तेषु तत्परा वा । तान्यभीष्टानि यस्या इति वा । 'परायण-

.सौभाग्यभास्करव्याख्या । ८१

भानुमण्डलमध्यस्था भैरवी भगमालिनी ।

मभीष्टं स्यात्तत्पराश्रययोरपी’तिविश्वः । उक्तंच मृगेन्द्रसंहितायां ‘जगज्जन्मस्थितिध्वं-
सतिरोधानैककारणम् । भूतभौतिकभावानां नियमस्यैतदेव ही’ति । आगमान्तरेपि
‘पञ्चविधं तत्कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः । तद्वदनुग्रहकरणं जगतः सतततोदित-
स्यास्ये’ति । देवीभागवतेऽपि चतुर्थस्कन्धे ‘सा विश्वं कुरुते कामं सा पालयति पालि-
तम् । कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी । तया युक्तः सृजेद्ब्रह्मा विष्णुः पाति
तयान्वितः । रुद्रः संहरते कामं तया संमिलितो जगत् । सा वध्नाति जगत्कृत्स्नं
मायापाशेन मोहितम् । अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च
मुक्तिकामा मुमुक्षवः । तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवा’मिति । आचार्यभग-
वत्पादैरप्युक्तं ‘जगत्सूते धाता हरिरवती’त्यादिना । शक्तिसूत्रेपि ‘तथापि तद्वत्पञ्च
विधकृत्यानि करोती’ति । कृत्यलक्षणान्यप्येतदुत्तरसूत्रे ‘आभासनरक्तिविमर्शनबीजा-
वस्थापनविलापनतस्तानी’ति । एतदर्थः प्रत्यभिज्ञाहृदये द्रष्टव्यः ॥ ११५ ॥ भानु-
मण्डलस्य सूर्यमण्डलस्य मध्ये तिष्ठतीति तथा । संध्यासमये देव्यास्तत्र ध्येयत्वात् ।
अन्तरधिकरणे ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’इति श्रुतौ प्रतिपादितस्य
रूपस्य परमेश्वरत्वनिर्णयाच्च । तथाच कूर्मपुराणे हिमवत्कृते देवीस्तवे ‘अशेषवेदा-
त्मकमेकवेद्यं स्वतेजसा पूरितलोकभेदम् । त्रिलोकहेतुं परमेष्ठिसंज्ञं नमामि रूपं रवि-
मण्डलस्थ’मिति भानुमण्डलमनाहतकमलं वा । भैरवस्य परशिवस्य स्त्री भैरवी । यद्वा
भीरूणां स्त्रीणां संहतिर्भैरवी । ‘तस्य समूह’इत्यणि ङीप् । नच काकं शौकं यौवतं
गाभिणमितिवन्नपुंसकापत्तिः । भैरवपदाद्दिभूतिसंबन्धे पुनरणि ङीप्संभवात् । तथाच
लैङ्गे । ‘अर्थः शंभुः शिवा वाणी दिवा शंभुः शिवा निशे’त्यारभ्यारुन्धत्यनसूयाशच्या-
दीनां गौरीरूपत्वं विशिष्यविशिष्योक्त्वान्ते उपसंहृतं । ‘स्त्रीलिङ्गशब्दवाच्या याः सर्वा
गौर्या विभूतय’इति । त्रिपुराम्बाचक्रेश्वरीमन्त्रे मध्यकूटे रेफनिष्कासे तस्य भैरवीति
संज्ञा । तन्मन्त्रात्मिकेति वा । द्वादशवर्षकन्यरूप वा । ‘द्वादशाब्दा तु भैरवी’ति
कन्यां प्रकृत्य धौम्योक्तेः । भगं षाड्गुण्यं मलति धारयतीति भगमालिनी । ‘मल मल्ल
धारण’इति धातुः । मालापदाद्वा समष्टिवाचिनो व्रीह्यादित्वादिनिः । भगाङ्गवस्तु-
मात्ररूपा वा । तथाच लैङ्गदेवीभागवतयोः । ‘ये ये पदार्था लिङ्गाङ्कास्ते ते शर्व-
विभूतयः । अर्था भगाङ्किता ये ये ते ते गौर्या विभूतय’इति । तिथिनित्या विशेषरूपा
वा । अस्या मन्त्रे तन्त्रराजज्ञानार्णवोद्धतप्रकारमपेक्ष्य दक्षिणामूर्तिसंहितोद्धृतप्रकारे
बहवो भगशब्दाः पठ्यन्ते । तदावरणदेवतानामान्यपि प्रायेण भगशब्दपूर्वाण्येवेति
तद्बाहुल्याद्भगमालिनीवेयम् । ब्रह्मरूपत्वात्पद्मासना । प्रकृतिमयपत्रविकारमयकेसरसं-
विन्नालादिविशेषणशीलं पद्ममेवासनं पीठं यस्या वा । पद्मा लक्ष्मीं सनति भक्तेभ्यो
विभज्य ददातीति वा । ‘वन षण संभक्तौ’ । तदुक्तमभियुक्तैः ‘असौभाग्यं धत्ते

८२ ललितासहस्रनाम ।
पद्मासना भगवती पद्मनाभसहोदरी ॥ ११६ ॥
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ११७ ॥
परमसुखभोगास्पदमयं विचित्रं तद्देहं भवति पृथुकार्तस्वरभृतम् । निविष्टः पल्यङ्के स
कलयति कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र कुरुते'इति । प्रसादपक्षे
असौ इति छेदः । कार्तस्वरं सुवर्णं । पल्यङ्को मञ्चः । कान्तारस्य तरणमिति ।
कोपपक्षे असौभाग्यमित्येकं पदं । अयं इति छेदः । विचित्रं विगतचित्रं । पृथुका-
नामार्तस्वरः । पल्या अङ्के कान्ताया रते रणमिति श्लेषेण योज्यम् । पद्मः शूरः
पद्मासुरस्तमसति क्षिपतीति वा । बिन्द्रादिसंभवदर्थान्तरमपि योज्यम् । 'पद्मं स्याद-
म्बुजव्यूहनिधिसंख्याहिविन्दुध्वि'ति रभसः । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणे'ति कालिकापुराणे 'भगमैश्वर्यमाहात्म्यज्ञान-
वैराग्ययोनिषु । यशोवीर्यप्रयत्नेच्छाधर्मश्रीविमुक्तिष्वि'ति कोशे च प्रसिद्धा भगपदार्था
अस्यां सन्तीति भगवती । देवीभागवते तु 'उत्पत्तिं प्रलयं चैव भूतानां गतिमागतिम् ।
अविद्याविद्ययोस्तत्त्वं वेत्तीति भगवत्यसा'वित्य उक्तम् । शक्तिरहस्ये तु । 'पूज्यते या सुरैः
सर्वैस्तांश्चैव भजते यतः । सेवायां भजतिर्धातुर्भगवत्येव सा स्मृते'त्युक्तम् । पद्मना-
भस्य विष्णोः सहोदरी एकोदरभवा भगिनी । एकमेव ब्रह्म धर्मो धर्मीति रूपद्वयं
प्रापत् । तत्र धर्मः पुमान् स्त्रीति द्विधाभवत् । तत्र पुमान् विष्णुः सकलजगदुत्पादन-
भावं स्त्री तु परमशिवमहिषीभावं प्रापत् । एतत्त्रयमपि मिलित्वैकमखण्डं ब्रह्मेति
शैवमतरहस्यं कूर्मपुराणादिषु प्रसिद्धं रत्नत्रयपरीक्षायां दीक्षितैर्विस्तरेण निरूपितम् ।
एतदभिप्रायेणैव ब्रह्मपुराणे पुरुषोत्तमक्षेत्रमाहात्म्ये । 'या मेनाकुक्षिसंभूता सुभद्रा
पूर्वजन्मनि । कृष्णेन सह देवक्याः सास्मिञ्जन्मनि कुक्षिगे'त्यादि स्मर्यते । यत्तु 'सुभद्रा-
प्राणनाथाय जगन्नाथाय मङ्गल'मिति तत्रैव पठ्यते तत्र सुभद्रापदं लक्ष्मीपरं ताल्लि-
ङ्गाभेदाभिप्रायं वेति न कश्चिद्विरोध इति । अन्यत्रापि । 'काञ्चीक्षेत्रे पुरा धाता
सर्वलोकपितामहः । श्रीदेवीदर्शनाथाय तपस्तेपे सुदारुणम् । आत्मैक्यध्यानयुक्तस्य
तस्य प्रतपतो मुनेः । प्रादुर्बभूव त्रिपुरा पद्महस्ता सहोदरा । पद्मासने च तिष्ठन्ती
विष्णुना जिष्णुना सहे'ति । अत्र कादिविद्याया वाग्भवकूटोद्धारः । पद्मासनः ककारः ।
भग एकारः । तद्द्वतीयत्र कामकलायाः प्रश्लेषः । पद्मनाभस्योपेन्द्रस्य सहोदर इन्द्रो
लकारः । हृश्च उदं च होदे हकारबिन्दू ताभ्यां सहिता सहोदा । सहोदा च सा
रीचेत्यनेन हृल्लेखेति रहस्यम् ॥ ११६ ॥ उन्मेषनिमिषौ नेत्रविकाससंकोचौ ताभ्या-
मेव क्रमेणोत्पन्ना विपन्नाश्च सृष्टा नष्टाश्च भुवनानां ब्रह्माण्डानामावल्यः पङ्क्तयो यस्या-
स्तेथा । देव्या अनिमिषत्वेऽपि प्राणिकर्मवशेन तयोरुत्पत्तिसंभवात् । इच्छामात्रे
तात्पर्यात् । तदुक्तमाज्ञावतारे । 'इच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपी'ति । 'इच्छामात्रं

सौभाग्यभास्करव्याख्या । ८३

आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।

प्रभोः सृष्टि'रिति च । कालिदासेनाप्युक्तम् । 'दृष्टदृष्टदृशिलक्षणं जगत्प्राक्स्मृतेस्त्वयि
तदम्ब संहृतम् । उन्मिषत्यपि पुनस्त्वदुद्गमे त्वय्ये निमिषति तदिच्छये'ति । गोरक्षे-
णाप्युक्तं महार्थमञ्जर्याम् । 'विसउम्मेसदसाए देसिअणहस्स जन्तयोऽवसरो । काला-
वत्थप्पडियो विस्सणिमेसेवि तेत्तियो होई' इति । छाया । विश्वोन्मेषदशायां देशिक-
नाथस्य यावानवसरः । कालावस्थाप्रथितो विश्वनिमिषेऽपि तावानेव भवती'ति ।
‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपा’दिति श्रुतौ सहस्रशब्दोऽनन्तपरः । शीर्षशब्दो
मुखादेरुपलक्षणम् । लिङ्गं त्वविवक्षितम् । 'सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठती'ति गीतासूपवृंहणदर्शनादित्याशयेनाह । सहस्र-
शीर्षवदनेति । 'बहुव्रीहौ सक्थ्यक्ष्णो'रिति षच्प्रत्ययान्तान्ङीषि सहस्राक्षी । सहस्राणि
पादा यस्याः सहस्रपात् । सहस्रपदे नम इति प्रयोगः । 'संख्यासुपूर्वस्ये'ति समासान्तो
लोपः । देवीभागवते तृतीयस्कन्धे 'सहस्रनयनारामा सहस्रकरसंयुता । सहस्रशीर्षचरणा
भाति दूरादसंशय'मिति । अत्र भुवनस्यावलील्यनेन भुवनेश्वरीबीजद्वयम् । सहस्राक्षी-
ल्यनेन लकारः । सहस्रशब्दो हकारसकारसाहित्यपरः । तेन द्वितीयतृतीयकूटयोरुद्धारः
॥ ११७ ॥ ब्रह्मा सर्वजीवसमष्टिः स्थूलतमो हिरण्यगर्भाख्यो जीवः कीटः अतीन्द्रिय-
तर ऊर्णाभक्षको वैद्यतन्त्रे ककेरुकमकेरुतेति द्वैविध्येन प्रतिपादितः स्तम्बाख्यो जीव-
विशेषः । आद्यन्तग्रहणेन प्रत्याहारन्यायेन तन्मध्यपतिताः सर्वेऽपि तन्मध्यमपरि-
माणकशरीरधारिणो जीवा गृह्यन्ते । आङभिविधौ । ब्रह्मादिस्तम्बान्तजीवजातजन-
यित्रीत्यर्थः । एवं निर्मितानां जीवानां सन्मार्गप्रदर्शनाय स्वाज्ञारूपवेदात्मिका जाता ।
तत्र कर्मकाण्डब्रह्मकाण्डभेदेन द्विविधे वेदे कर्मणि तिर्यगधिकरणन्यायेन देवानां
तिरश्चां चाधिकाराभावान्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन
मातेव तत्तद्धर्मानपि व्यवस्थापयामासेत्याह-वर्णाश्रमेति । तथाच कूर्मपुराणे
हिमवत्कृतदेवीस्तवानन्तरं 'अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह
पितरं स्मृत्वा पशुपतिं पतिम् । शृणुष्व चैतत्परमं गुह्यमीश्वरगोचरम् । उपदेशं
गिरिश्रेष्ठ सेवितं ब्रह्मवादिभि'रित्यादिना साधनान्युक्त्वा । 'ध्यानेन कर्मयोगेन भक्त्या
ज्ञानेन चैव हि । प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभि'रित्युपसंहृत्य कर्मयोग-
निरूपणार्थं पुनरप्युक्तं । 'श्रुतिस्मृत्युदितं सम्यक्कर्म वर्णाश्रमात्मकम् । अध्यात्म-
ज्ञानसहितं मुक्तये सततं कुरु । धर्मात्संजायते भक्तिर्भक्त्या संजायते परम् । श्रुति-
स्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः । नान्यतो ज्ञायते धर्मो वेदाद्धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थं मद्रूपं वेदमाश्रयेत् । मदाज्ञयैव गुप्त्यर्थं वेदानां भगवानजः ।
ब्राह्मणादीन्ससर्जाथ स्वे स्वे कर्मण्ययोजय'दित्यादि । निजां स्वीयामाज्ञां वेदविद्भिः
शब्दभावनात्वेन व्यवहृतां रूपयन्ति साध्यसाधनेतिकर्तव्यतारूपांशत्रयविशिष्टा मेर्थ-

वशात्"?
Wait, look at the letter between 'द' and 'व':
Wait, is it 'द' + 'ि' = 'दि'?
No, look at:
स, त्, र, ी - स्त्री
ल, ि, ङ्ग, त्, व, ा - लिङ्त्वा... wait, ङ्ग is there: स्त्रीलिङ्गत्वा
Then: 'द' (da)
Then: 'ि' (i-matra on what?)
The i-matra is on 'व'!
Wait, is that 'वि'?
Look closely: the loop goes over 'व'?
Wait, look at line 30:
स्त्रीलिङ्गत्वा - then:
द, िव, श, ा, द... wait!
Could it be "स्त्रीलिङ्गत्वादिवशात्"?
Wait, let's read the characters one by one:

  1. स्त्री
  2. लि
  3. ङ्ग
  4. त्वा
  5. दि (da with i-matra? No, i-matra is on da: 'दि')
  6. ह (ha)
  7. व (va)
  8. शा (shaa)
  9. द (da)
    Wait, is #6 'ह'?
    Could it be "स्त्रीलिङ्गत्वादिह विशेषणसाम्याद्"? No, after 'ह' is clearly 'व', 'शा', 'द'!
    Wait, what if it is "स्त्रीलिङ्गत्वाद् दिवशा

पदेन ध्वन्यते । एतदपि च न वेदानां सामर्थ्यादपि तु मातुराज्ञयैवेति च्विप्रत्ययेन
ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे । 'सर्वज्ञाः श्रुतयोऽपि याः परशिव
त्वत्प्राणरूपाः प्रियाः शृङ्गाग्राहिकया त्रपाभृत इव त्वां न प्रजल्पन्ति ताः । अन्यानेव तु
नेतिनेति बहुशो वाचा निषेधन्ति चेत्कोऽन्यस्त्वामिदमित्यमिलनुवदेत्तत्रापि माहग्जन'
इति । विधिमुखेन प्रतिपादयन्तस्त्वागमाः स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव
निर्दिशन्तीत्याह । सकलाश्च ते आगमा वेदाश्च तेषां संदोहाः समूहा एव शुक्तयस्ताभिः
संपुटं पुटितं गर्भिकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा तथोक्ता । मौक्तिकपदं
समीपवर्तिसृष्ट्यादिधर्मोपलक्षकं स्थूलतारकासाम्यात्तन्मयायस्मारकं च । अम्बामुख-
समीपवर्त्यसाधारणं मौक्तिकाद्येव वेदैः

यन्त्रपटले 'एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनान्यलि'त्युपक्रम्य हल्लेखाघटकाक्षरेषु हका-
रादिषु 'व्योमबीजे महेशानि कैलासादिप्रतिष्ठित'मित्यादिना प्रत्येकं भुवनादिसद्भावं
प्रतिपाद्य 'अतएव महेशानी भुवनाधीश्वरी स्मृते'त्युपसंहृत्य 'हकाराद्व्योमतुर्येण खरेणा-
निलसंभव'इत्यादिना भुवनजनकत्वमप्युक्त्वा 'अतएव महेशानी भुवनेशीति कथ्यत'
इत्युपसंहारेण द्वेधा निरुक्तम् । अम्बैवाम्बिका । जगन्माताभारतीपृथ्वीरुद्राण्यात्मके-
च्छाज्ञानक्रियाशक्तीनां समष्टिरम्बिकेत्युच्यते तद्रूपा वा । रात्रिरूपा निद्रारूपा वा ।
'अम्बिका कैतवे सिद्धे निद्रायां निशि कीर्त्यत'इति विश्वः । उक्तंच नवरात्रदीपे
स्कान्दे । 'रात्रिरूपा महादेवी दिवारूपो महेश्वर' इति । हरिवंशेऽपि 'या ह्येषा गह्नरी
माया निद्रेति जगति स्थिता । तस्यास्तनु

सौभाग्यभास्करव्याख्या । ४७
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ १२१ ॥
सलिलाद्युत्तमाम्भःपर्यन्तानि नामानि तारादिसमुदितान्तानि सिद्धिनामानि चाकर एव
द्रष्टव्यानि । सिद्धिरष्टविधा । ऊहादिभेदात् । उपदेशानपेक्षमेवार्थोन्नयनमूहसिद्धिः ।
प्रासङ्गिकाच्छब्दश्रवणादर्थज्ञानं शब्दसिद्धिः । गुरूपदेशादेव ततो विवेकअर्थज्ञानमध्य-
यनसिद्धिः । आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखत्रयविघातात्मिकास्तिस्रः सि-
द्धयः । सुहृत्प्राप्तितोऽर्थसिद्धिरेका विद्वत्पक्षिशुश्रूषालभ्यार्थसिद्धिरेकेत्यष्टौ सिद्धयो नव
तुष्टयश्च । एतासां सप्तदशानां विपर्ययोऽपि सप्तदशविधः । अस्नेत्यादिप्रमुदितान्तानि
तन्नामान्याकरे द्रष्टव्यानि । एतेऽप्यशक्तिबुद्धिपदवाच्याश्चेति सप्तदश । एकादशभि-
रिन्द्रियशक्तिभिः सहाष्टाविंशतिर्विधा इति । एतेषां च व्यवस्थोक्ता वायुपुराणे 'अष्ट-
मोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव
च । स्थावरेषु विपर्यासात्तिर्यग्योनिखशक्तितः । सिद्धात्मना मनुष्येषु तुष्ट्या देवेषु
कृत्स्नश' इति दिक् । हरिव्रह्मेन्द्रविष्णुविधिशक्रैः सेवितोपासिता । श्रीनगरोऽष्टादश-
सप्तदशप्राकारयोर्मध्ये विष्णोः सप्तदशषोडशयोर्मध्ये ब्रह्मणः पञ्चदशचतुर्दशयोर्मध्ये
चेन्द्रादिलोकपालानां देवीसेवार्थं निवासस्मरणात् । देवीभागवतेपि । 'ब्रह्मा विष्णुस्तथा
शंभुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च लष्टा पूषाश्विनौ भगः । आदित्या वसवो
रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणी'मिति । एतेन
विष्णुब्रह्मादिमात्रविषयकागमद्रष्टृणां विष्ण्वादिविषयक तत्त्वज्ञानाभावात्तदुपासनायां प्र-
वृत्तावपि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः । नहि भिक्षुको
भिक्षुकान्याचितुमर्हति सत्यस्मिन्नभिक्षुक इति न्यायविरोधादिति ध्वन्यते । तदिद-
मुक्तमस्माभिः शिवस्तवे 'लद्धत्तैश्वर्यभाजः परमशिव कथंकारमन्यानमर्त्यान् याचे देहीति
शक्रद्रुहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम् । अज्ञोऽपि द्वादशाहक्रतुविकृतितोक्थ्याङ्ग-
भूतोपि चोक्थ्यो ज्योतिष्टोमोक्थ्य

८८ ललितासहस्रनाम ।
वधूवरभाव एव विवक्षितः । पितृपुत्रीभावरूपसंबन्धस्यापि तत्रोदाहरणदर्शनात् ।
तेनेह भ्रातृभगिनीभावरूपे पुंयोगे ङीप् । नारायणभगिनीत्यर्थः । अतएव 'नारायणी-
सहचराय नमः शिवाये'त्यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहाभेदादपि नारा-
यणी । तदुक्तं कूर्मपुराणे गुणिशिवेन 'अहं नारायणो गौरी जगन्माता सनातनी ।
विभज्य संस्थितो देवः स्वात्मानं परमेश्वरः । न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ।
एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव चे'ति। देवीपुराणेतु 'जलायनानले(१) कुर्यात्स-
मुद्रशयनाथवा । नारायणी समाख्याता नरनारीः प्रकुर्वती'ति । इयं च सुपार्श्वक्षेत्रे
प्रसिद्धा । उक्तंच पाद्मे देवीक्षेत्राध्याये 'नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी'ति ।
ह्रींकारादिषु बिन्दोरूर्ध्वर्धचन्द्ररोधिनीनादनादान्तशक्त्व्यापिका समनोन्मन्याख्याः
सूक्ष्मसूक्ष्मतरासूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वर्णो नाद इत्युच्यते ।
तत्स्वरूपं च महास्वच्छन्दतन्त्रे 'रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः । पद्म-
किञ्जल्कसंकाशः सूर्यकोटिसमप्रभः । पुरैः परिवृतोऽसंख्यै'रित्यारभ्य 'तस्योत्सङ्गगता-
मूर्ध्वगामिनीं परमां शिवाम् । ध्याये'दित्यन्तं तादृशे नादे रूपं यस्याः सा । नाद एव
रूपं यस्या इति वा । सन्ति हि परस्परविवेकेन चिदचिद्ग्रन्थिरूपेण भासमानानि जगतः
पञ्च रूपाणि । 'अस्ति भाति प्रियं नाम रूपं चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं
जगद्रूपं ततो द्वय'मित्यभियुक्तैर्विवेचितानि । तत्र जगद्रूपयोर्नामरूपयोर्मिथ्यात्वात्ताभ्यां
विवर्जिता । असत्यसत्योः संबन्धस्यापि मिथ्यात्वेन वास्तविक्स्ताभ्यां संबन्धः
सत्येन स भवतीति भावः । आमनन्ति च छन्दोगाः । 'आकाशो ह वै नाम नाम-
रूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मे'ति । चिच्छक्तिरूप आकाश एव नामरूपयोर्निर्वा-
हकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव ब्रह्मेति तदर्थः ॥ इति भास्कर-
रायेण कृते सौभाग्यभास्करे । मरीच्याख्या कला तुर्या जाता नाम्नां
शतत्रयात् ॥ ३०० ॥ इति श्रीपदवाक्येत्यादिभास्कररायोन्नीते ललिता-
सहस्रनामभाष्ये तृतीयशतकं नाम चतुर्थी मरीचिः कला ॥ ४ ॥
ह्रीं लज्जां करोतीति ह्रींकारी । कर्मण्यणन्तान्ङीप् । द्वितीयाया अलुक् । यद्वा ह्रीमिति
खरादेराकृतिगणत्वादव्ययम् । अतएव त्रिशत्यामेकोनशततमस्य नाम्नश्चतुर्थ्यन्तो ह्रीं-
नम इत्येव प्रयोगः । तस्यार्थस्तु स्वतन्त्रतन्त्रे व्याकुलाक्षरश्लोकेनोक्तः । 'त्वंकामाग्रान-
प्रशव्यो नानमप्तन्निमालग्रारोमईयोकार्विशंतानन्तफाडुलनान्निर्वं' इति । 'देवतार्थ-
गो मूक इति यो वेत्ति न क्रमम् । स व्याकुलाक्षरे मूको देवतार्थगोऽपि सन्नि'ति तु
वाचनक्रमः । सृष्टिस्थितिसंहारास्तदर्थत्वेन पर्यवस्यन्ति तान्करोतीति ह्रींकारी । अथवा
वर्णात्कारप्रत्ययोयम् । गौरादेराकृतिगणत्वान्ङीप् । भुवनेश्वरीबीजरूपेत्यर्थः । हीरस्या
अस्तीति ह्रीमती । तथाच श्रूयते 'लज्जामती तुष्टिरिष्टा च पुष्टे'ति ॥ अथ परि-
भाषायामष्टत्रिंशन्नामानि विभजते ॥ राजतरेखितलिङ्गैरहरचैर्द्विर्विभू-
रत्नौ रेतः । हालामदभुविरक्तो गुणदंभो वाजिगीर्ण द्विः ॥ १५ ॥

सौभाग्यभास्करव्याख्या । ८९
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ १२२ ॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ १२३ ॥
द्विर्द्विरिति चतुश्चतुरक्षरे द्वेद्वे नामनी ॥ १५ ॥ हृदि भवा हृद्या मुनिहृन्निवासिनी,
रमणीया वा । हातुमुपादातुं च योग्ये हेयोपादेये ताभ्यां वर्जिता । प्रवृत्तिनिवृत्ति-
बोधकशास्त्राणामविद्यावद्विषयत्वात् ॥ १२१ ॥ राजराजो मनुः कुबेरश्च ताभ्यामर्चितो-
पासिता, कुबेरादिविद्यारूपा वा । अतएव चतुर्दशपञ्चदशप्रकारयोर्मध्यभूमिं वर्णयतोक्तं
दुर्वासमुनिना 'तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्या-
नम्बाचरणावलम्बिनो यक्षानि'ति । तल्लोकेति तत्पदस्य वायुरर्थः । राजराजेश्वरस्य पट्ट-
महिषीत्वाद्वाज्ञी । रम्या सौन्दर्यवती । राजीवशब्देन पद्मं हरिणो मत्स्यो वा गृह्यते ।
तद्वल्लोचने यस्याः सा राजीवलोचना । 'राजीवाह्वा मृगे मत्स्ये पद्मे राजोपजीविनी'ति
विश्वः । राजोपजीविनो लोचयति पश्यतीति वा । भक्तानरञ्जयतीति रञ्जनी । 'शुद्धस्फ-
टिकसंकाशं परमशिवमरुणादेवीजपाकुसुमवत्सांनिध्यमात्रेण रञ्जयतीति वा । भक्ता-
न्रमयति तैः सह क्रीडतीति रमणी । 'जक्षन् क्रीडन् रममाण'इति श्रुतेः । रसयितु-
मास्वादितुं योग्या रस्या । 'रसो वै स' इति श्रुतेः । रणन्त्यः किङ्किण्यः क्षुद्रघण्टिका
यस्यां तादृशी मेखला रशना यस्याः सा ॥ १२२ ॥ सूतसंहितायां 'लक्ष्मीवागादि-
रूपेण नर्तकीव विभाति ये'त्युक्तरीत्या लक्ष्मीरूपत्वाद्रमा । 'कलाहीने सानुमतिः
पूर्णे राका निशाकरे ।' इत्याग्नेयपुराणस्थकोशवलाद्राकेन्दुवत्पूर्णचन्द्रवद्वदनं यस्याः ।
रतिरेव रूपं यस्याः कामपत्नीत्वात् । रमा ईकारः । राकेन्दुवदना अनुस्वारसहिता
चेद्रतिरूपा कामकला भवतीत्युद्धारः । रतिः कामपत्नी रतं वा प्रियं यस्याः । रक्षा
रक्षणं भस्म वा तत्कर्तृत्वाद्रक्षाकरी स्थितिसंहारकर्त्री । रक्षांस्येव राक्षसांस्तान्हन्तीति
राक्षसघ्नी । रामा स्त्रीमात्रस्वरूपा । रमन्तेऽस्यां योगिन इति वा 'ज्वलतिकसन्तेभ्यो ण'
इति णः । 'स्त्रीलिङ्गमखिलं गौरी'ति लैङ्गात् । तत्रैव स्थलान्तरे 'शंकरः पुरुषाः सर्वे
स्त्रियः सर्वा महेश्वरी । पुंलिङ्गशब्द्वाच्या ये ते च रुद्राः प्रकीर्तिताः । स्त्रीलिङ्गशब्द-
वाच्या याः सर्वा गौर्या विभूतयः । एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभुतय' इति ।
विष्णुपुराणेपि 'देवतैर्यङ्मनुष्यादौ पुंनाम्नि भगवान्हरिः । स्त्रीनाम्नि लक्ष्मीमैत्रेय नान-
योर्विद्यते पर'मिति । ब्रह्मवैवर्तेपि । 'यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चय'इति । अतएव बृहत्पराशरस्मृतौ 'स्त्रिय-
स्तुष्टाः स्त्रियो रुष्टास्तुष्टा रुष्टाश्च देवताः । वर्धयन्ति कुलं तुष्टा नाशयन्त्यपमानिता'इति ।
निखिलस्त्रीरूपत्वादेव स्वस्वरमणेषु पतिषु रमणे संभोगे वा क्रीडायां वा लम्पटा

९० ललितासहस्रनाम ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ १२४ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ १२५ ॥
लालसा सतृष्णा ॥ १२३ ॥ ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वात्काम्या ।
कृष्णपक्षद्वादशीरात्रिरूपा वा । बिन्दुत्रयं हार्धकला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्च-
रमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते । तस्याः स्वरूपं ‘स्फुटशिवशक्ति-
समागमबीजाङ्कुररूपिणी पराशक्ति’रित्यारभ्य ‘कामः कमनीयतया कला च दहनेन्दु-
विग्रहौ बिन्दू’इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः । कामो योनिः कमलेति
वा । तदुक्तं त्रिपुरासिद्धान्ते । ‘तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति । कलाख्या
सविलासा च ख्याता कामकलेति से’ति । कामा चासौ कलारूपा चेति वा । कामपद-
मात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् ‘कामार्थमागता यस्मान्मया सार्धं महा-
गिरौ । कामाख्या प्रोच्यते देवी नीलकूटरहोगता । कामदा कामिनी काम्या कान्ता
कामाङ्गदायिनी । कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यत’इति । कदम्बकुसुमानि
नीपपुष्पाणि प्रियाणि यस्याः सा । मङ्गलस्वरूपत्वात्कल्याणी । पाद्मे देवीपुराणे च
‘कल्याणी मलयाचल’इति परिगणितमूर्तिविशेषरूपा । शुभात्मका वाणी कल्या तामेवा-
णति शब्दायतेऽसौ कल्याणी । जगत्याः कन्दः पूरणं मूलं वा यस्याः सा । ‘कन्दः
स्यात्पूरणे सस्यमूले जलधरेऽपिचे’ति यादवः । करुणैव रसो येषु तादृशाः सागराः
यस्यां सा । सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत् । तत्पुरुषपक्षे कन्दसागरपदयोः
परवल्लिङ्गतया पुंस्त्वापत्तिः ॥ १२४ ॥ चतुःषष्टिसंख्याः कला अस्यां सन्तीति कला-
वती । कल एवालापो भाषणं यस्याः । कलो मञ्जुल आलापो यस्या इति वा । ‘ध्वनौ
तु मधुरास्फुटे । कल’इत्यमरः । कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभः आपः
प्राप्तिर्यस्याः सकाशादिति वा । कं लालापं लालाजलप्रायं ययेति वा । अपां समूह
आपं ‘ऋक्पूरब्धू’रिति समासान्तो वा । कान्ता कमनीयत्वात् । कं ब्रह्मौवान्तः
सिद्धान्तो यस्या इति वा । कृष्णैकादशीरात्रिरूपा वा । कादम्बरी उत्तमा मदिरा सैव
प्रिया यस्याः । अतएव श्रुतिः ‘परिस्रुतं झषमायं पलं च भक्तानि योनीः सुपरिष्कृ-
तानि । निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेती’ति । ब्रह्मविष्ण्वादिभ्य
उपासकेभ्यो वरानूदत्त इति वरदा । तदुक्तं मात्स्यपाद्मयोर्नारदेन । ‘यच्चाहमुक्तवानस्या
उत्तानकरतां सदा । उत्तानो वरदः पाणिरेश देव्याः सदैव तु । सुरासुरमुनिव्रातवरदेयं
भविष्यती’ति । अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तं । वस्तुतो
देवकामनापूर्तिमात्रे तात्पर्यं नतु वरदमुद्राधारणेऽपि । भगवत्पादाचार्यैः ‘त्वदन्यः
पाणिभ्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया’ इत्युक्ते ‘वरा-

सौभाग्यभास्करव्याख्या । ९१
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ १२६ ॥
र्थिभ्यः सुरादिभ्यः कामान्पूरयतीश्वरी । धातुर्वृञ् वरणे प्रोक्तस्तेन सा वरदा स्मृते'ति
देवीभागवताच्च । वाराहेऽपि वेत्रासुरवधप्रकरणे 'नवम्यां च सदा पूज्या इयं देवी
समाधिना । वरदा सर्वलोकानां भविष्यति न संशय'इति । वामानि सुन्दराणि नयनानि
नेत्राणि प्रमाणानि वा यस्याः । वामं मार्गविशेषं नयतीति वा । अथवा कर्मजन्यफलं
वाममित्युच्यते । 'एष उ एव वामनि'रिति श्रुतौ संयद्वामादिश्रुतौ च वामपदस्य तथा
व्याख्यानदर्शनात्तन्नयति प्रापयतीति वामनयना । वरुणस्येयं वारुणी सास्यास्तीति
वारुणीमान्सहस्रफणः शेषः । शेषं प्रकृत्य विष्णुपुराणे 'उपास्यते स्वयं कान्त्या यो
वारुण्या च मूर्त्तये'ति पाठात्स यथा भूधरणे विह्वलो न भवति तद्वदविह्वला । यद्वा
खर्जूरीसमुद्भवो रसो वरुणप्रियत्वाद्वारुणी तस्या मदेन पानजन्यानन्देन विह्वला बाह्य-
पदार्थविस्मरणशीला । स्वात्मानन्दैकचर्वणवतीति यावत् । वारुणीमन्तः अविह्वला
ययेति वा । वारुण्याख्यां वायुदेवत्यां नाडीं जितवन्तो वारुणीमन्त इत्युच्यन्ते । उक्तं
च योगशास्त्रे 'अधश्चोर्ध्वं स्थिता नाडी वारुणी सर्वगामिनी । पूषा दिग्देवता प्रोक्ता
वारुणी वायुदेवते'ति ॥ १२५ ॥ विश्वस्मात्क्षित्यादिशिवान्तादधिकोत्कृष्टा । 'विश्वाधिको
रुद्रो महर्षि'रिति श्रुतेः । वेदै ऋग्यजुःसामाथर्वणैर्वेद्या ज्ञेया । 'वेदैश्च सर्वैरहमेव वेद्य'
इति श्रुतेः स्मृतेश्च । यद्वा चिन्तामणिगृहस्य चत्वारि द्वाराणि चतुर्वेदरूपाणि । द्वार-
प्रवेशमन्तरेण देवतादर्शनाभावाद्वैदैकवेद्यत्वम् । तथाच श्रुतिः । 'ऋचां प्राची महती
दिगुच्यते दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामङ्गिरसां प्रतीचीं साम्नामुदीची महती
दिगुच्यत'इति । शुद्धविद्यादिभिः सौभाग्यादिभिर्लोपामुद्रादिभिस्तुरीयाम्बादिभिश्चर्ग्य-
जुषाथर्वसामदेवताभिर्वेद्येत्यप्यर्थः । विन्ध्याख्ये अचले पर्वते निवसतीति तथा । तथाच
पाद्मे देवीक्षेत्रगणनायां 'त्रिकूटे च तथा सीता विन्ध्ये विन्ध्याधिवासिनी'ति । पाञ्च-
रात्रलक्ष्मीतन्त्रेऽपि 'वैवस्वतेन्तरे तौ च पुनः शुम्भनिशुम्भकौ । उत्पत्स्येते वरान्मत्तौ देवोपद्र-
वकारिणौ । नन्दगोपकुले जाता यशोदागर्भसंभवा । तावहं नाशयिष्यामि नन्दाख्या
विन्ध्यवासिनी'ति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः । विदधाति धारयति पोषयति
वा जगदिति विधात्री । 'धात्री माता समाख्याता धारणाच्चोपगीयत' इति देवीपुरा-
णात् । विधातुर्ब्रह्मणः पत्नी वा । विशिष्टा विशेषप्रीतिविषया धात्री आमलकी यस्या
इति वा । वेदानां जननी उत्पादिका । 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेद' इत्यादिश्रुतेः । 'ऋचः सामानि जज्ञिर'इत्यादिश्रुतेश्च । देवीपुराणे तु 'यतः
शृङ्गाटकाकारकुण्डलिन्याः समुद्गताः । स्वराश्च व्यञ्जनानीति वेदमाता ततः स्मृते'-
त्युक्तं । विष्णोर्व्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि माया आवरणकर्त्री ।
परिच्छेदिकेति यावत् । तत्संबन्धिनी मायेति वा । 'दैवी ह्येषा गुणमयी मम माया
दुरत्यये'ति भगवद्वचनात् । कालिकापुराणेऽप्युक्तं । 'अव्यक्तव्यक्तरूपेण रजःसत्वतमो-

९२ ललितासहस्रनाम ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ १२७ ॥
गुणैः । विभज्य यार्थे कुरुते विष्णुमायेति सोच्यत'इति । विलासो विक्षेपशक्तिरस्या
अस्तीति तथा । पीठशक्तिविशेषरूपा वा । 'नित्या विलासिनी दोग्ध्री'त्यादिना तासु
परिगणनात् । बिले ब्रह्मरन्ध्रे आस्त इति वा विलासिनी । तदुक्तं स्वच्छन्दतन्त्रे । 'तत्र
ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदैर्वृत'मिति प्रस्तुत्य 'ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगा-
मिनी । द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिते'ति ॥ १२६ ॥ अथ परिभाषाया-
मष्टत्रिंशन्नामानि विभजते ॥ मृगजो द्विर्वालः खे जीवाभं पञ्चपादार्थम् ।
गुणभूवरतेजोर्धं रतिगुणलेशो दहेदृणं दुरितम् ॥ १६ ॥ द्विरित्यष्टाक्षरे
द्वे नामनी ॥ १६ ॥ क्षेत्रं कामरूपादिकं वसुधादिशिवान्तषट्त्रिंशत्तत्वात्मकं शरीरं वा ।
तत्स्वं निजं रूपं यस्याः सा । तथाच लैङ्गे । 'विभर्ति क्षेत्रतां देवी त्रिपुरान्तक-
वल्लभा । क्षेत्रज्ञत्वमजो धत्ते भगवानन्तकान्तक'इति क्षेत्रस्य शरीरस्येशः शिवस्त-
स्येयं क्षेत्रेशी । क्षेत्रज्ञो जीवस्तं क्षेत्रं च पालयतीति क्षेत्रक्षेत्रज्ञपालिनी । तथाच विष्णु-
स्मृतौ 'इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति त-
द्विदः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते'ति गीताख्यप्येवमेव कौन्तेयभार-
तसंबोधनाभ्यां घटितमिदमेव । लैङ्गेपि 'चतुर्विंशतितत्त्वानि क्षेत्रशब्देन सूरयः ।
आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथे'ति । वायुपुराणे तु 'अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा
क्षेत्रज्ञ उच्यत' इत्युक्तम् । ब्रह्मपुराणेऽपि । 'क्षेत्राख्यानि शरीराणि तेषां चैव यथा-
सुखम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यत'इति । मनुस्मृतौ तु । 'योऽस्या-
त्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु ।
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ।
असंख्या मूर्तयस्तस्य निःपतन्ति शरीरात् । उच्चावचानि भूतानि

सौभाग्यभास्करव्याख्या । ९३
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ १२८ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाखण्डा सदाचारप्रवर्तिका ॥ १२९ ॥
त्पत्तिः । तेन सम्यगर्चिता ॥ १२७ ॥ विशिष्टो जयो यस्याः सा विजया संविद्रूपा
वा । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'विजयं चैव काश्मीर' इति गणित इति शिवस्वरूपा
वा । तत्रैव निर्वचनाध्याये 'विजित्य पद्मनामानं दैत्यराजं महाबलम् । त्रिषु लोकेषु
विख्याता विजया चापराजिते'ति विश्वकर्मशास्त्रप्रसिद्धविजयाख्यगृहविशेषरूपा वा ।
विजयाख्यो मुहूर्त्त उक्तश्चिन्तामणौ 'आश्विनस्य सिते पक्षे दशम्यां तारकोदये । स
कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिद' इति । रत्नकोशे तु 'ईषत्संध्यामतिक्रान्तः
किंचिदुन्निद्रतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः । एकादशो मुहूर्तो यो
विजयः परिकीर्तितः । तस्मिन्यात्रा विधातव्या सर्वैर्विजयकाङ्क्षिभि'रिति तादृशकालरूपे-
त्यर्थः । विगतो मल आविद्यको यस्याः सा विमला । पाद्मे 'विमला पुरुषोत्तमे' इति देवीतीर्थेषु
परिगणितमूर्तिविशेषरूपा वा । गृहविशेषरूपा वा । तदुक्तं विश्वकर्मशास्त्रे गृहानधिकृत्य
'ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा । सुमुखं विमलं नन्दं निधनं च मनोरममि'-
ति । वन्दितुं योग्या वन्द्या । योग्यतामेवाह-वन्दार्विति । वन्दन्ते ते वन्दारवः ।
'शृवन्द्योरारु'रित्यारुप्रत्ययः । तादृशान् जनान्वत्सवल्लालयत्यनुगृह्णाति 'वत्सांसाभ्यां
कामबल' इति लप्रत्ययो वा । वाचं वदतीति वाग्वादिनी काचिद्देवता तद्रूपा वा । वाचं
वादयतीति वा । एतन्निर्वचनं च त्रिपुरासिद्धान्ते । 'सर्वेषां च स्वभक्तानां वादरूपेण
सर्वदा । स्थिरलाष्ट्रा च विख्याता लोके वाग्वादिनीति से'ति । 'शब्दानां जननी त्वमेव
भुवने वाग्वादिनीत्युच्यस' इति लघुस्तवेऽपि । वामाः सुन्दराः केशा यस्याः सा । वामा
एव वामकास्तेषामीशः शिवः । देवीपुराणेऽष्टषष्टिशिवतीर्थेषु 'जटे वामेश्वरं विद्यादि'ति
प्रतिपादितस्तस्य स्त्री वा । वामकेशेन प्रोक्तं तन्त्रं वामकेशं तत्र प्रतिपाद्यतया
तत्संबन्धिनी वा । वह्नेर्मण्डलं मूलाधारे परमाकाशे वा विद्यमानं तत्र वसतीति
तथा । वह्निशब्दस्त्रित्वसंख्यावच्छिन्नपरो वा । तेन सोमसूर्याग्निमण्डलत्रयवासि-
नीत्यर्थः ॥ १२८ ॥ भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात् ।
अथवा ईषदसमाप्तौ कल्पप्प्रत्ययेनाऽपूर्णभक्ता भक्तिमत्कल्पाः तेषां लतिकेव
विस्तारकारिणी । कस्तूरिकेवामोदयित्री वा । 'ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयो-
र्लते'ति रभसः । अर्धभक्तानां भक्तिपूर्तिदानद्वारा संतोषिकेति यावत् । तदुक्तं शक्ति-
रहस्ये 'अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम् । जन्मान्तरे क्रमप्राप्त्यै पूर्णभक्त्यै
च कल्पत'इति । अभेदज्ञानरूपविद्याविहीनाः पशवः । तदुक्तं बृहदारण्यके 'योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु'रिति । इह योन्यां त्रिकोणचक्र-

इत्यर्थः । 'तस्मिन् हिरण्मये कोशे त्र्यरे त्रिप्रतिष्ठित'इति श्रुत्यन्तरात् । ईदृशानां
पशूनां विद्याविहीनानां पाशे पिपासाऽशनाये विशिष्य मोचयतीति तथा । पिवतेरशा-
तेश्च धातुद्वयस्य पाशपदेन निर्देशः । पातेरश्नातेश्च क्विपि पा अश् हलन्ताट्टापि तयोः
समाहारे पाशमिति रूपम् । तावन्मात्रवत्त्वादेव हि पशुत्वं निर्विद्यानां । तथाच श्रूयते
'अथेतरेषां पशूनामशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न
विदुः श्वस्तनं न लोकालोका'विति । अथवा पशु इत्यव्ययं सम्यगर्थे 'लोधं नयन्ति
पशु मन्यमाना'इति श्रुतौ तथा व्याख्यानदर्शनात् । पशु यथाभवति तथा पाशान्
वरुणपाशान् विमोचयतीति । यद्वा सम्यक्पाशानक्षान्पातयतीति । शिवेन सह द्यूतक्री-
डायां सम्यक्पाशान् फलके पातयित्वा शिवं जयतीति यावत् । अथवा पशुपस्य पर-
शिवस्याशा प्रेप्सा येषां ते पशूपाशास्तान् विशेषेण मोचयति प्राप्तशिवांस्तनोतीति ।
अथवा ब्रह्मादिस्थावरान्ताः पशुसमानधर्मत्वात्पशवः तेषां बन्धसाधनत्वादविद्यैव पाशः ।
तदुक्तं सौरसंहितायामविद्यानामनिर्वचनप्रकरणे 'सर्वाधारतयाधारः पाशोर्बन्धस्य हेतु-
त'इति । तद्विकारास्तत्त्वादयो वा पाशास्तान् शिवभक्त्या मोचयति । तदुक्तं लैङ्गे ।
'ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः ।
चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति । विषया अपि कीर्त्यन्ते पाशाजीवनिबन्धनात् ।
तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिन'इति । अथवा अविद्याऽस्मिता रागो द्वेषोऽभि-
निवेशश्चेतिं पञ्चविधः क्लेशः । आत्मानात्मविवेकाभावोऽविद्या । अनात्मनि देहादावा-
त्मत्वविपर्ययोऽस्मिता । तेनच देहोपभोगकरणे स्रक्चन्दनादावभिलाषो रागः । तत्प्रा-
प्तिपरिपन्थिनि क्रोधो द्वेषः । तदिदमहितमिति ज्ञात्वाप्यज्ञवत्तदपरित्यागोऽभि-
निवेश इति । तदिदं योगसूत्रे प्रथमपादोपान्त्यसूत्रेणोद्देशमात्रं कृत्वा द्वितीयपादे पञ्चभिः
सूत्रैः सलक्षणमुक्तम् । यत्तूक्तं देवीभागवते 'तमोविवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा । मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मन'इति । तत्र तमःप्रभृतीन्यविद्यादीनामेव नामा-
न्तराणि । मरणशब्दो मिथ्याभिनिवेशपरः । तदिदमुक्तं लैङ्गे । 'अविद्यामस्मितां रागं
द्वेषं च द्विपदां वर । वदन्त्यभिनिवेशं च क्लेशान्पाशालमागतान् । तमो मोहो महामो-
हस्ततामिस्रमथ पण्डिताः । अन्धतामिस्रमित्याहुः क्लेशान्वै पञ्चधास्थितान् । अविद्या तम
इत्याहुरस्मिता मोह इत्यपि । रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि । अन्धतामिस्रकं
मिथ्याभिनिवेशं प्रचक्षत'इति । एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव 'तमसोऽष्ट-
विधो भेदो मोहश्चाष्टविधः स्मृतः । महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः । अष्टाँ
विधास्तथा प्राहुस्तामिस्रस्य विचक्षणाः । अन्धतामिस्रभेदाश्च तथाष्टादश कीर्तिता'इति
संहृत्य द्विपञ्चाशत् । तामिस्रस्याप्यष्टादशविधलमाश्रित्य द्विषष्टिः पाशा इति केचित् ।
एते च क्लेशा वैषयिकयोगित्वज्ञरूपपशुत्रैविध्यात्तांस्तान्प्रति विलक्षणाः । तदुक्तं देवीभागवते
'प्रमुक्तास्तत्त्ववेत्तॄणां दग्धदेहास्तु योगिनाम् । अविच्छिन्नोदाररूपाः क्लेशा विषयसङ्गि-

ना'मिति । यत्तु कुलार्णवे 'घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी । कुलं शीलं च
जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः' इति तदविद्यादिक्लेशपञ्चकस्योक्तेष्वेव द्विपञ्चाशद्भेदेषु क-
तिपयानामवगुल्यानुवादः । तेच भेदा विस्तरभयान्नोक्ताः । इत्थंच मूले पशुशब्द उक्त-
परिभाषयैकपञ्चाशत्संख्यापरोऽपि प्रत्यासत्तिसंबन्धेन लक्ष्णया द्विपञ्चाशतपरः । 'नित्या-
नन्दवपुर्निरन्तरगलत्पञ्चाशद्वर्णैः क्रमा'दितिशारदातिलकश्लोके पञ्चाशतपदस्येदृशलक्षणयैव
हर्षदीक्षितादिभिरेकपञ्चाशतपरत्वेन व्याख्यानात् । तेन पशुसंख्यान् द्विपञ्चाशतपाशान्वि-
मोचयतीत्यर्थः । तदुक्तं शिवरहस्ये 'पञ्चक्लेशैर्द्विपञ्चाशतपाशैर्बध्नाति यः पशून् । स एव
मोचकस्तेषां भक्त्या सम्यगुपासित

९६ ललितासहस्रनाम ।
संछन्नो मायाकर्मावृतो विभुः । शरीरशिवतत्वज्ञो भेदैकसिको लघुः । सर्वदा कर्मकर्ता
च स्वकर्मफलभोजकः । नित्यं विषयसंरक्तः सकलः पशुरुच्यत' इति । अत्र मलमायाश-
ब्दावणुभेदपरौ । एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः । तत्र ये पक्व-
मलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशन्मन्त्रेश्व-
रतामाप्ता वर्तन्ते । ते च शतरुद्राख्या अष्टौ शतमण्डलिनोऽष्टौ क्रोधभट्टारकादयो वीरेश्वरः
श्रीकण्ठश्चेति द्वाविति । अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्कमलत्रयांस्तु
भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव । तदुक्तं 'मलादीनाम-
पाके तु सामान्यानुग्रहो भवेत् । अधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः । पशवस्त्रिप्र-
कारास्तु प्राप्नुयुः परमेश्वरी'ति । 'नानायोनिषु पाकाय नियुङ्क्तेऽनुजिघृक्षये'ति च ।
अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः ।
तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते । आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भव-
न्ति । तदुक्तं स्वच्छन्दसंग्रहे । 'मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः । पुर्यष्टक-
शरीराश्च पृथक्कर्मवशात्प्रिये । सर्वयोनिषु संप्राप्य भोगाय स्वस्वकर्मणाम् । भुक्त्वा भोगानि
तेषां तु कर्मसाम्ये शिवः स्वयम् । सुपक्वमलकर्मांस्तान्किंचिदनुगृह्य च । जलतत्त्वादि-
तत्त्वानां मध्ये लोकेश्वराभिधे'ति । आणवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं 'मल-
मात्रेण संवद्धः पशुर्विज्ञानकेवलः । सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये' इति ।
तेऽपि समाप्तकलुषा असमाप्तकलुषाश्चेति द्विविधाः । तत्राद्या विद्येश्वराः । अन्यास्तु
सप्तकोटिमहामन्त्रात्मकाः । नच तेषां जडत्वमिति शङ्क्यम् । शब्दरूपशरीराणां जड-
त्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः । अतएव मृगेन्द्रसंहितायाम् । 'अथाना-
दिमलापेतः सर्वकृत्सर्वदृक् शिवः । पूर्वं व्यत्वासितस्याणोः पाशजालमपोहती'ति ।
आगमिका अप्याहुः । 'भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम् । जडवर्गस्य विधत्ते
सर्वानुग्राहकः शंभु'रिति । अपक्वाणवमलत्वजीवत्वादेव मन्त्राणामणुसंज्ञापि । एवं षड्वि-
धानामपि पशूनां मलपाकतारतम्यान्यान्यदानन्ता भेदाः । तेषां च तत्तत्तारतम्यार्हयो-
निप्रापणैश्वर्यदानान्धपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव । तथाच पशू-
नामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमो-
चिनी । नच मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम् । मोचक-
त्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृत्ताया अन्वयव्यतिरेकाभ्यां शक्तावेव
स्वीकर्तुं युक्तत्वात् । तदुक्तमभियुक्तैः 'शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत'इति । किंच स्वातन्त्र्यं हि कर्तृत्वं । 'स्वतन्त्रः कर्ते'ति
पाणिनिसूत्रात् । तच्च शक्तिगतमेव । तथाच शक्तिसूत्रं 'चितिः स्वतन्त्रा विश्वसिद्धिहेतु'रिति ।
यत्तु 'चैतन्यमात्मे'ति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलङ्गबलाच्च कर्तृत्वादिधर्माभा-
वपरम् । यत्तु 'चितिः स्वतन्त्रा विश्वसिद्धिहेतुरित्याद्यसूत्रं किल शक्तिशास्त्रे । चैतन्य-
मात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेव तस्मा'दित्यभियुक्तैरुच्यते तत्तु शक्तिम-

सौभाग्यभास्करव्याख्या । ९७
तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ॥ १३० ॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
तोरभेदाभिप्रायेणेति तु शैवरहस्यनिष्कर्षः । संहता नाशिता अशेषाः समस्ताः पाख-
ण्डा यया सा तथोक्ता । पाखण्डस्वरूपं च लैङ्गे ‘वेदवाह्याव्रताचाराः श्रौतस्मार्तबहि-
ष्कृताः । पाखण्डिन इति ख्याता न संभाष्या द्विजातिभि’रिति । ब्रह्मवैवर्तेऽपि
‘पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतु-
र्दशे'ति परिगणितानि विद्यास्थानान्यधिकृत्य ‘एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पि-
तम् । दैत्यानां मोहनार्थाय महामोहेन निर्मित’मिति । ‘पाशब्देन तु वेदार्थः पाख-
ण्डास्तस्य खण्डका’इति तु निरुक्तिः । अतएवाह सदाचारप्रवर्तिके