सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 107, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 107

सौभाग्यभास्करव्याख्या । ७९
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ११४ ॥
कापि देवतेति शक्तिरहस्यात् । 'तुरीया कापि त्वं दुरधिगमनिःसीममहिमे'ति भग-
वत्पादोक्तेश्च । त्रिपुरासिद्धान्तेतु । 'तुरीयानन्दनाथस्य प्रसन्नत्वाद्धरानने । तुर्येति नाम
विख्यातं तस्य देव्या निरन्तर'मित्युक्तम् ॥ अथ चत्वारिंशन्नामानि परिभाषायां
विभजते ॥ दिविभारतभुविताडघमृदुजंगमभोवदार्थदिवा । वाक्चतुरं-
घ्रिर्ध्यर्धातत्फलमूलं तदेव वादबलम् ॥ १४ ॥ स्पष्टोऽर्थः ॥ १४॥ अस्ति पञ्चमी
जीवावस्था । तस्याश्च रूढ्या नामान्तराभावात्तुर्यावस्थामतिक्रान्तत्वात्तुर्यातीतेत्येव
यौगिको व्यवहार इत्याशयेनाह—सर्वेति । तुर्यावस्थामतिक्रान्ते पुरुषे प्राथमिकाव-
स्थात्रयातिक्रमस्यावश्यकत्वात्सर्वाभिश्चतसृभिरवस्थाभिर्विशेषेण पुनरावृत्यभावपूर्वकं व-
र्जितो रहितो जीवस्तुर्यातीतस्तत्समष्टिव्यष्ट्यभेदादिदमपि सर्वावस्थाविवर्जितेत्यर्थः ।
सा च तुर्यावस्थादार्ढ्याद्भवति । 'तुर्यावष्टम्भतो लभ्यं तुर्यातीतं परं पद'मिति वच-
नात् । वरदराजोऽप्याह । 'तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् । संप्राप्तः साधकः
साक्षात्सर्वलोकान्तरात्मना । तुल्यः शिवेन चिन्मात्रस्वच्छन्दानन्दशालिने'ति ।
पञ्चमदशापन्नस्य स्वरूपकथनाय सूत्रत्रयम् 'शरीरवृत्तिर्व्रतं । कथा जपः । दानमात्म-
ज्ञानमि'ति । खात्मानुसंधानरूपशिवपूजासाधनत्वाच्छरीरधारणं व्रतरूपं न तुच्छम् ।
अतएव भट्टोत्पलेन शरीरधारणं प्रार्थितम् । 'अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् ।
भवत्पूजोपभोगाय शरीरमिदमस्तु मे' इति । स्वैरभिलापमात्रं जपः । तच्चित्तस्य सत्य-
ग्राहित्वात् । तदुक्तं योगसूत्रद्वये । 'निर्विचारवैशारद्येऽध्यात्मप्रसादः' 'ऋतंभरा तत्र
प्रज्ञे'ति । 'यद्धि मनसा ध्यायति तद्वाचा वदती'तिश्रुत्या तदुक्तेः सर्वस्या अपि
यथार्थरूपत्वेन मन्त्ररूपत्वात् । तदुक्तं योगवासिष्ठे । 'सदा सन्तोऽभिगन्तव्या यद्यप्यु-
पदिशन्ति नो । या हि स्वैरकथास्तेषामुपदेशा भवन्ति ता'इति । परेभ्य आत्मोपदेश
एव दानम् । तदुक्तं कृष्णदासेन । 'प्रोक्तचैतन्यरूपस्य साक्षात्कारणमात्मनः । यत्तज्ज्ञानं
तदेवास्य दानं यत्तेन दीयते'इति । एतत्सूत्रत्रयमुपलक्षणपरत्वेन व्याख्येयमिति
मन्वानैरुक्तं भगवत्पादैः । 'जपो जल्पः शिल्पं सकलमपि मुद्राविरचन'मित्यादि ।
वार्तिकेपि । 'इति प्रोक्तं व्रतं कुर्वञ्जपं चर्यां च पालयन् । शिवतुल्यः सदा खात्मा
शिवाराधनतत्परः । अयमेव महायोगी महामन्त्रधुरंधरः । अन्तेवासिजनस्यान्तस्तत्त-
स्तत्त्वबोधक'इति । एवमविद्यावशीकृतस्य जीवस्य पाञ्चविध्यमुक्त्वा वशीकृतमायाव-
च्छिन्नस्येश्वरस्य कृत्यभेदेन तथात्वमाह—सृष्टीत्यादिना । आचार्यभगवत्पादैरयमर्थो
'जगत्सूते धाते'ति श्लोके निरूपितः । सृष्टिर्जगन्निर्माणं रजोगुणप्रधानस्येश्वरस्य कृत्यम् ।
तस्य कर्त्री । ब्रह्मा चतुर्मुखस्तादृश ईश्वरः, स एव रूपं यस्याः । तदुक्तं विष्णुपुराणे ।
'ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तय' इति । गोपनं जगतः स्थितिः सा च सत्त्व-
गुणप्रधानस्येश्वरस्य कृत्यम् । तस्य कर्तृत्वाद्वोप्त्री । गोविन्दस्तादृश ईश्वरो विष्णुः स