ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 111, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ८३
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
प्रभोः सृष्टि'रिति च । कालिदासेनाप्युक्तम् । 'दृष्टदृष्टदृशिलक्षणं जगत्प्राक्स्मृतेस्त्वयि
तदम्ब संहृतम् । उन्मिषत्यपि पुनस्त्वदुद्गमे त्वय्ये निमिषति तदिच्छये'ति । गोरक्षे-
णाप्युक्तं महार्थमञ्जर्याम् । 'विसउम्मेसदसाए देसिअणहस्स जन्तयोऽवसरो । काला-
वत्थप्पडियो विस्सणिमेसेवि तेत्तियो होई' इति । छाया । विश्वोन्मेषदशायां देशिक-
नाथस्य यावानवसरः । कालावस्थाप्रथितो विश्वनिमिषेऽपि तावानेव भवती'ति ।
‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपा’दिति श्रुतौ सहस्रशब्दोऽनन्तपरः । शीर्षशब्दो
मुखादेरुपलक्षणम् । लिङ्गं त्वविवक्षितम् । 'सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठती'ति गीतासूपवृंहणदर्शनादित्याशयेनाह । सहस्र-
शीर्षवदनेति । 'बहुव्रीहौ सक्थ्यक्ष्णो'रिति षच्प्रत्ययान्तान्ङीषि सहस्राक्षी । सहस्राणि
पादा यस्याः सहस्रपात् । सहस्रपदे नम इति प्रयोगः । 'संख्यासुपूर्वस्ये'ति समासान्तो
लोपः । देवीभागवते तृतीयस्कन्धे 'सहस्रनयनारामा सहस्रकरसंयुता । सहस्रशीर्षचरणा
भाति दूरादसंशय'मिति । अत्र भुवनस्यावलील्यनेन भुवनेश्वरीबीजद्वयम् । सहस्राक्षी-
ल्यनेन लकारः । सहस्रशब्दो हकारसकारसाहित्यपरः । तेन द्वितीयतृतीयकूटयोरुद्धारः
॥ ११७ ॥ ब्रह्मा सर्वजीवसमष्टिः स्थूलतमो हिरण्यगर्भाख्यो जीवः कीटः अतीन्द्रिय-
तर ऊर्णाभक्षको वैद्यतन्त्रे ककेरुकमकेरुतेति द्वैविध्येन प्रतिपादितः स्तम्बाख्यो जीव-
विशेषः । आद्यन्तग्रहणेन प्रत्याहारन्यायेन तन्मध्यपतिताः सर्वेऽपि तन्मध्यमपरि-
माणकशरीरधारिणो जीवा गृह्यन्ते । आङभिविधौ । ब्रह्मादिस्तम्बान्तजीवजातजन-
यित्रीत्यर्थः । एवं निर्मितानां जीवानां सन्मार्गप्रदर्शनाय स्वाज्ञारूपवेदात्मिका जाता ।
तत्र कर्मकाण्डब्रह्मकाण्डभेदेन द्विविधे वेदे कर्मणि तिर्यगधिकरणन्यायेन देवानां
तिरश्चां चाधिकाराभावान्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन
मातेव तत्तद्धर्मानपि व्यवस्थापयामासेत्याह-वर्णाश्रमेति । तथाच कूर्मपुराणे
हिमवत्कृतदेवीस्तवानन्तरं 'अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह
पितरं स्मृत्वा पशुपतिं पतिम् । शृणुष्व चैतत्परमं गुह्यमीश्वरगोचरम् । उपदेशं
गिरिश्रेष्ठ सेवितं ब्रह्मवादिभि'रित्यादिना साधनान्युक्त्वा । 'ध्यानेन कर्मयोगेन भक्त्या
ज्ञानेन चैव हि । प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभि'रित्युपसंहृत्य कर्मयोग-
निरूपणार्थं पुनरप्युक्तं । 'श्रुतिस्मृत्युदितं सम्यक्कर्म वर्णाश्रमात्मकम् । अध्यात्म-
ज्ञानसहितं मुक्तये सततं कुरु । धर्मात्संजायते भक्तिर्भक्त्या संजायते परम् । श्रुति-
स्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः । नान्यतो ज्ञायते धर्मो वेदाद्धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थं मद्रूपं वेदमाश्रयेत् । मदाज्ञयैव गुप्त्यर्थं वेदानां भगवानजः ।
ब्राह्मणादीन्ससर्जाथ स्वे स्वे कर्मण्ययोजय'दित्यादि । निजां स्वीयामाज्ञां वेदविद्भिः
शब्दभावनात्वेन व्यवहृतां रूपयन्ति साध्यसाधनेतिकर्तव्यतारूपांशत्रयविशिष्टा मेर्थ-