कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( ८० )
PURPORT IN SANSKRIT :—यदा हि पार्वती एवं कठिन-
तपोमग्नासीत् तस्या आश्रमम् एकोऽविज्ञातः पुरुषः समायातः,
यो हि हरिणाचर्मपलाशदण्डञ्च धत्ते स्म, भाषणे पटुर्ब्रह्मवर्चसेन
भासमानश्चासीत्, यश्च जटाधारी देहेन च मूर्त्तिमान् ब्रह्म-
चर्याश्रम इवाभूत् ॥ ३० ॥
तमातिथेयी बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ३१ ॥
तमिति । अतिथिषु साध्वी आतिथेयी । 'पथ्यतिथि'
इत्यादिना ढञ्प्रत्ययः । 'टिढ्ढाणञ्' इत्यादिना ङीप् । पार्वती
तं ब्रह्मचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्तस्या, गौरव-
पूर्वेत्यर्थः । सपर्यया अर्च्चया । 'सपर्यार्हणाः समाः' इत्यमरः ।
प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तनादृशी प्रतिपत्ति-
रत आह—साम्ये सति अपि निविष्टचेतसां स्थिरचित्तानां
वपुर्विशेषेषु व्यक्तिविशेषेषु अतिशयित गौरवं यासु ताः अतिगौरवाः
अतिगौरवसहिताः क्रियाः चेष्टाः भवन्ति । प्रवर्त्तन्ते इत्यर्थ ।
साधवो न साम्याभिनिवेशिन इति भावः ॥ ३१ ॥
PROSE ORDER :—आतिथेयी पार्वती तं बहुमानपूर्वया
सपर्यया प्रत्युदियाय, साम्ये निविष्टचेतसा मपिवपुर्विशेषेषु अति-
गौरवाः क्रियाः भवन्ति ॥ ३१ ॥
NOTES :—आतिथेयी—( अतिथि+एय (ढञ् )+ई अति-
थिषु साध्वी इति (अतिथिसत्कारचतुरा ) attentive to
guests, hospitable. The suffix ढञ् is added by
( ८१ )
सतिस्वपनेर्ढञ्' पा० ४ । १ । १०४ । and then ङीप् is added to
make it feminine by 'टिड्ढाणञ्द्वयसच्' पा० ४.१.१५ ।
The masc form is आतिथेयः । बहुमानपूर्वया—बहुः मानः
(सत्कारः) पूर्वो यस्याः सा, तया बहुमानपूर्वया which was
preceded or accompanied by great reverence सपर्यया-
पूजया worship, homage 'पूजा नमस्या अपचितिः सपर्या
अर्चा अर्हणासमा' इत्यमर । प्रत्युदियाय—(प्रति + √उद् + इ
- लिट् ) प्रत्युज्जगाम went forth to receive (him). √इ
to go, is conjugated as—एति (लट्), एष्यति (लृट्),
इयाय (लिट्) अगात् (लुङ्) etc. साम्ये—(सम + ष्यञ्
समस्य भाव साम्यं, तस्मिन् (समतायाम् towards equality.
निविष्टचेतसां—(नि + √विश् + क्त.) निविष्टं चेतो येषां ते, तेषां
whose mind is intent upon or turned to (equality).
The expression 'साम्येऽपि निविष्टचेतसां' can be construed
in two ways, viz, साम्ये निविष्टचेतसां अपि i. e, even in
case of those whose minds are set on equality—who
look at all people with the same mind without feeling
affection for one and apathy for another, or who are
free from likes (राग) and dislikes (द्वेष); secondly
साम्येऽपि निविष्टचेतसां क्रियाः......i e even when there is
equality, the acts of those who are firm-minded... ..
In the former case निविष्टचेतसां is to be taken with
साम्ये while in the latter it has nothing to do with
साम्ये, but is connected with the following words.
Then the position of अपि is also responsible for
change of meaning. In the former it is read with
( ८२ )
निविष्टचेतसां and in the latter with साम्ये । वपुर्विशेषेषु—
वपुष्षु ( शरीरेषु विशेषा इति वपुर्विशेषा., तेषु—असामान्य-
शरीरेषु towards great personages Here वपु ‘a body’,
means ‘one possessed of a body वपुष्मान्) i. e., a
person.’ Decline वपुष् as—वपुः, वपुषी वपूंषि etc अति
गौरवाः—( गुरु+अण्) गुरोः भाव गौरवं (आदर) अति
गौरवं यासु ताः full of extreme reverence क्रियाः—acts ;
behaviour. The sense is that even those persons who
are free from likes and dislikes show greater respect
towards great personages For a similar idea Cf.
‘आकृतिविशेषेष्वादरः पदं करोति’ मालविकाग्निमित्रम् । 31.
CHANGE OF VOICE :—आतिथेय्या पार्वत्या स बहुमान-
पूर्वया प्रत्युदीये साम्ये निविष्टचेतसां अपि वपुर्विशेषेषु अतिगौर-
वाभिः क्रियाभिः भूयते ॥ ३१ ॥
HINDI TRANSLATION :—अतिथि सत्कार करने में चतुर
पार्वती अत्यधिक आदरयुक्त पूजा के साथ उसकी ओर बढ़ी ।
समता में लगे चित्त वालो के (अर्थात् सब को समान दृष्टि से
देखने वालों के) भी कार्य विशेष व्यक्तियों के लिये अधिक
आदरयुक्त होते हैं ॥ ३१ ॥
ENGLISH TRANSLATION —Parvati, expert in hospi-
tality, went forth to receive him, doing worship with
great reverence; the acts, even of those persons who
have set their hearts on equality, are full of extreme
reverence towards great personages 31
PURPORT IN SANSKRIT :—अतिथिसत्कारनिपुणा पार्वती
तस्य सत्कारार्थं तं प्रत्युज्जगाम तं सादरं पूजितवती च । कथं हि
( ८३ )
रागद्वेषविनिर्मुत्तया तपस्विन्या पार्वत्या तं प्रत्यादरः प्रदर्शित इति
शङ्कायां कविः कथयति यत् समदर्शिनो जना अपि पुरुषविशेषेष्व-
धिकादरवन्तो भवन्ति ॥ ३१ ॥
विधिप्रयुक्तां परिगृह्य सत्क्रियां
परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा
प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ३२ ॥
विधीति । स ब्रह्मचारी विधिप्रयुक्तां विधिना प्रयुक्तामनुष्ठितां
सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय
नाम । नामेत्यपरमार्थे । अथ उमां ऋजुना एव विलासरहितेनैव
चक्षुषा पश्यन् अनुज्झितक्रमः अन्यकोचितपरिपाटीकः सन् वक्तुं
प्रचक्रमे प्रारभे ॥ ३२ ॥
PROSE ORDER—सः विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं
परिश्रमं विनीय च नाम उमां ऋजुना एव चक्षुषा पश्यन् अनुज्झि-
तक्रमः (सन्) वक्तुं प्रचक्रमे ॥ ३२ ॥
NOTES—विधिप्रयुक्तां--विधिना प्रयुक्ता विधिप्रयुक्ता, ताम्
यथाविधि कृतां done according to proper rites सत्क्रियां
—सत् क्रिया सत्क्रिया, तां worship. Here सत् is used as a
preposition according to the rule ‘आदरानादरयोः
सदसती’ पा० १ ४ ६३ । and the compound is made by
‘कुगति प्रादयः, ’ पा० २ २.१८ । परिगृह्य—(परि+√ग्रह्+ल्यप्)
स्वीकृत्य having accepted. क्षणं—for a little while. विनीय
—(वि+√नी+ल्यप्) अपनीय having removed. नाम—
अपरमार्थे only in appearance It is an indeclinable
used in various senses Here it has been used in the
( ८४ )
sense of 'apparently' i. e., although not really
fatigued he showed that he took rest. Shiva, in order
to avoid cognizance, had to act as an ordinary man.
ऋजुना—सरलेन simple ; not betraying any particular
inner feeling. अनुज्झितक्रमः—( न + √उज्झू + क्तः ) न
(त्यक्तः) क्रमः (उचिताचारः) येन सः who did not give
up propriety. क्रम् means the regular order or course.
प्रचकमे—( प्र + √क्रम् + लिट् ) began √क्रम् when not
preceded by a preposition is conjugated in both the
Padas, but it is used in Atmanepadi when preceded
by प्र and उप and the sense is of 'beginning' by
'प्रोपाभ्यां समर्थाभ्याम्' पा० १.३४२ । प्रक्रामति means
'he goes' and उपक्रामति 'he comes near.' 32.
Change of Voice :—तेन विधिप्रयुक्तां सत्क्रियां परिगृह्य
क्षणं परिश्रमं विनीय च नाम उमां ऋजुना एव चक्षुषा पश्यता
अनुज्झितक्रमेण वक्तुं प्रचकमे ॥ ३२ ॥
Hindi Translation :—उसने यथाविधि की हुई सेवा
को स्वीकार कर तथा क्षण भर के लिये थकावट को दूर सा कर
के, पार्वती की ओर सीधीसादी दृष्टि से ही देखते हुए,
(व्यवहार के) उचित मार्ग को न छोड़ते हुए, कहना प्रारम्भ
किया ॥ ३२ ॥
English Translation :—Having accepted the wor-
ship offered according to proper rites, and having
apparently eased his fatigue for a moment, he, looking
at Uma with quite simple eyes and without giving up
propriety, began to speak 32
( ८५ )
PURPORT IN SANSKRIT :-सोऽतिथियथाविधि कृतां
पार्वत्याः पूजां स्वीकृत्य, किञ्चित्कालञ्च श्रममपनीय, पार्वतीं
रागादिरहितेनैव निर्दोषेण नेत्रेणावलोकयन् सदाचारपरिपाटी-
मनुलंघयन् कथयितुमारेभे ॥ ३२ ॥
अपि क्रियार्थं सुलभं समित्कुशं
जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमाद्यं खलु धर्मसाधनम् ॥ ३३ ॥
अपीति । अत्रापि शब्दः प्रश्ने । क्रियार्थं होमादिकर्मानुष्ठा-
नार्थम् । समिधश्च कुशाश्च समित्कुशम् । 'जातिरप्राणिनाम्' इति
द्वन्द्वैकवद्भावः । सुलभं अपि सुलभं कच्चित् । जलानि ते तव स्नान-
विधिक्षमाणि स्नानक्रियायोग्यानि अपि कच्चित् । किञ्च स्वशक्त्या
निजसामर्थ्यानुसारेण तपसि प्रवर्त्तसे अपि । देहमपीडयित्वा तपश्च-
रसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्मात् शरीरं आद्यं
धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः
साध्यते । तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाम-
मोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव 'सततमात्मानमेव
गोपायीत्' इति श्रुतिः । 'अयथाबलमारम्भो निदानं क्षयसंपदाम्'
इति भावः ॥ ३३ ॥
PROSE ORDER :-अपि क्रियार्थं समित्कुशं सुलभम् ? अपि
जलानि ते स्नानविधिक्षमाणि ? अपि स्वशक्त्या तपसि प्रवर्त्तसे ?
खलु शरीरं आद्यं धर्मसाधनम् ( अस्ति ) ॥ ३३ ॥
NOTES :-अपि-कच्चित् It is used here in the sense
of interrogation. For its various senses Cf. 'गर्हास-
( ८६ )
समुच्चयप्रश्नशङ्कासंभावनासु अपि' इत्यमरः। क्रियार्थे—क्रियायै इदं
क्रियार्थं (होमादिकर्मकरणार्थम्) for performing holy rites
In क्रियार्थ the compound is नित्यसमास, which is defined
as 'अविग्रहो नित्यसमासः अस्वपदविग्रहो वा' i. e., Nitya-
samasa is that which either cannot be expounded or
cannot be expounded by using the words actually
compounded. Here क्रियार्थ is expounded by using क्रिया
and इदं and not क्रिया and अर्थ which (latter) are
actually compounded. The compound with अर्थ is a
Nityasamasa and takes the gender and number of
the noun it qualifies. समित्कुशम्—समिधश्च कुशाश्च
समित्कुशम् Sacrificial sticks and Kusha grass. It is a
Dwandwa compound and the singular is used by the
rule 'जातिरप्राणिनाम्' पा० २.४ ६ । i. e., of words ex-
pressing things and not animals when the species is
prominently referred to the compound is in singular.
सुलभम्—(सु + √लभ्+खल्) easy to obtain The
suffix खल् is added by 'ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्'
पा० ३ ३ १२६ । i. e, खल् is added to any root with ईषत्,
दुर् or सु prefixed to it when the idea of ease or
difficulty is present, e g, सुकरः, दुष्करः। स्नानविधि-
क्षमाणि—स्नानस्य विधये क्षमाणि (योग्यानि) स्नानविधिक्षमाणि
suitable for bathing. स्वशक्त्या—स्वसामर्थ्यानुसारेण accord-
ing to your might. खलु—verily आद्यम्—प्रथमं the
chief धर्मसाधनम्—धर्मस्य साधनम् means of performing
the religious duties. 'शरीरमाद्यं खलु धर्मसाधनम्' is a
( ८७ )
well-known proverbial saying and it means that
body is the chief means of performing the religious
duties, hence one should take greatest possible care
of it
CHANGE OF VOICE :-अपि क्रियार्थं समित्कुशेन सुलभेन
( भूयते ) ? अपि जलैः ते स्नानविधिक्षमैः ( भूयते ) ? अपि
( त्वया ) स्वशक्त्या तपसि प्रवृत्त्यते ? खलु शरीरेण आद्येन धर्म-
साधनेन ( भूयते ) ॥ ३३ ॥
HINDI TRANSLATION :-( यज्ञादि ) धार्मिक कृत्यों के
लिये समिधायें और कुश तो सरलता से प्राप्त हो जाते हैं ? पानी
तो तुम्हारे स्नान के लिये उपयुक्त है ? और अपनी सामर्थ्य के
अनुसार ही तप करती हो न ? क्योकि शरीर वास्तव में धार्मिक
कृत्यों के करने में मुख्य सहायक है ॥ ३३ ॥
ENGLISH TRANSLATION -'Are sacrificial sticks and
Kusha grass easily available for holy rites ? Is the water
suitable for thy bathing ? And, dost thou practise
austerities in accordance with thy strength ? For, the
body is the chief means of performing religious
duties ' 33
PURPORT IN SANSKRIT - ब्रह्मचारिवेषधारी शिवः पार्वती
तत्कुशलं तपःसहायकवस्तूनां सुलभतां प्रति च पृच्छति- ' किं
त्वया होमादिधार्मिककृत्यकरणार्थं यज्ञकाष्ठानि दर्भाश्च सुखेन
लभ्यन्ते ? इतस्ततः पर्वतनिर्झरेषु नदीषु च प्राप्यं जलं किं ते स्नान-
योग्यमस्ति ? किं त्वं स्वसामर्थ्यानुसारेणैव तपस्यामाचरसि न तु
शरीरमत्यन्तं पीडयित्वा, यतो देहो धर्माचरणे प्रधानसहाय-
( ८८ )
कोऽस्ति ? त्वया स्वास्थ्यमनादृत्य तपो न करणीयमिति
भावः ' ॥ ३३ ॥
अपि त्वदावर्जितवारिसंभृतं
प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते
तुलां यदारोहति दन्तवाससा ॥ ३४ ॥
अपीति । त्वदावर्जितवारिसंभृतं त्वयावर्जितेन सिक्तेन वारिणा
संभृतं जनित आसां वीरुधां लतानां प्रवालं पल्लवं अनुबन्धि अपि
अनुस्यूतं किम् । यत् प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो
येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्त-
कपाटलेन ते तव दन्तवाससा अधरेण । ' ओष्ठाधरौ तु रदनच्छदौ
दशनवाससी ' इत्यमरः । तुलां साम्यं आरोहति । गच्छतीत्यर्थः ।
अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि ' तुल्यार्थैरतुलोप-
माभ्याम् ' इति न तृतीयाप्रतिषेधः तत्र सूत्रे सदृशवाचिन एव
ग्रहणादिति ॥ ३४ ॥
PROSE ORDER:—अपि त्वदावर्जितवारिसंभृतं आसां वीरुधां
प्रवालं अनुबन्धि ( अस्ति ) यत् चिरोज्झितालक्तकपाटलेन ते
दन्तवाससा तुलां आरोहति ॥ ३४ ॥
NOTES —त्वदावर्जितवारिसंभृतम् । आवर्जितं—( आ + √
वृज् + क्तः ) सिक्तम् sprinkled. √वृज् ' to avoid, ' here
with आ means ' to sprinkle ' संभृतम्—( सं + √भृञ् +
क्तः ) Nourished, reared. त्वया आवर्जितेन वारिणा संभृतं
reared by water sprinkled by you. त्वत् is formed by
changing युष्म of युष्मत् into त्व by ' प्रत्ययोत्तरपदयोश्च '
पा० ७ २ ९८ । वीरुधाम्—लतानाम् of creepers The word
( ८६ )
वीरुध् ( वि + √रुह् + क्विप् ) is formed by changing the ह्
of √रुह् to ध् and lengthening वि irregularly. It is
feminine and is declined as वीरुत्, वीरुधौ, वीरुधः । वीरुधं,
वीरुधौ, वीरुधः । etc For meaning Cf. ' लता प्रतानिनी
वीरुद् ' इत्यमरः । प्रवालं—नूतनपल्लवं fresh or young
leaves. Singular is used for the class ' प्रवालो विद्रुमे
वीणादण्डेऽभिनवपल्लवे ' इत्यमरः । अनुबन्धि—( अनुबन्ध +
इनिः ) अविच्छिन्नं continuous i e, coming out without a
break. ' सम्बन्धे संततात्मकावनुबन्धः प्रकीर्तितः ' इति भोजः ।
Being an adjective of प्रवाल it is neuter gender and
will be declined as अनुबन्धि, अनुबन्धिनो, अनुबन्धीनि etc.
The suffix इनिः is added by 'अत इनिठनौ' पा० ५ २ ११५ ।
After it अस्ति is understood चिरोज्झितालक्तकपाटलेन ।
अलक्तकः—लाक्षारसः red lac , lac dye. चिराद् उज्झितः
अलक्तको येन ( बहुव्रीहिः ) तथाभूतमपि पाटलम् ( रक्तं ), तेन
red though long bereft of lac dye Adjective of
दन्तवाससा—दन्तानां वासः, तेन ( अधरेण ) covering for the
teeth i e lip. In दन्तवाससा the Instrumental is against
the rule ' तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ' पा०
२ ३.७५ । which means that in the case of words
denoting equality or likeness, such as तुल्य, सदृश etc.,
the person or thing with whom or which any object
is compared is put in the Genitive or Instrumental
case, except in the case of तुला and उपमा ( with which
only the Genitive case is used ). But Mallinatha
defends this by saying that here the word तुला is-
( ३० )
सादृश्य ( noun ) वाचो and not सदृश ( adjective ) वाची
The rule prohibits the use of the Instrumental only
when the word तुला is सदृशवाची, hence it could be
used here. Cf 'अत्र तुलाशब्दस्य .. ..ग्रहणादिति,' the last
three lines of Mallinātha's commentary. Another anno-
tator of the rule also has expressed the same view—
•• 'अतुल्योपमाभ्याम्' इति तुला शब्दयोगे तृतीयानिषेधस्तु सदृ-
शार्थकतुलाशब्दयोगे एव, इह तुलाशब्दः सादृश्यवाचीति न
प्रवर्तत " इति । Bhoja also takes the same view Cf
'सदृशपदार्थवाची सादृश्यमात्रवाची चेति द्वौ तुलाशब्दौ । सादृ-
श्यमात्रवाचकतुलाशब्दयोगे तु तृतीयाऽपीष्यत एव ।' Some
commentators defend this by supplying सह after
दन्तवाससा । तुलां—साम्यम् equality, similarity आरोहति
—प्राप्नोति becomes, rises up to.
As Pārvatī was very fond of small plants, which
she loved like her sons, the inquiry into their well-
being is quite appropriate 34
CHANGE OF VOICE —अपि त्वदावर्जितवारिसंभृतेन आसां
वीरुधां प्रवालेन अनुबन्धिना ( भूयते ), येन चिरोज्झितालक-
कपाटलेन ते दन्तवाससा तुला आरुह्यते ॥ ३४ ॥
HINDI TRANSLATION :—तुम्हारे द्वारा दिये पानी से बढ़े
हुए इन बेलों के पत्ते लगातार तो निकलते रहते हैं ? जो ( पत्ते )
तुम्हारे इस ओठ के समान हैं, जो कि दीर्घकाल से लाख के रंग
के ( उपयोग के ) छूट जाने पर भी लाल हैं ॥ ३४ ॥
ENGLISH TRANSLATION —Are the young leaves of
these creepers, made to grow by the water sprinkled
( ३१ )
by thee, continuous ? — the leaves which are similar to
the lip, which is red though long bereft of red lac 34
PURPORT IN SANSKRIT .—अथ पार्वत्या स्वयं सिञ्चितानां
वृक्षाणां विषये पृच्छति— ' किं त्वया सिच्यमाना एता लता
निरन्तरं नूतनपल्लवान्युत्पादयन्ति, यानि नूतनपल्लवानि रक्तवर्णा-
त्वात् चिरात्यक्तलाक्षारसोपयोगेनापि स्वभावरक्तेन त्वदीयाधरेण
साम्यं दर्शयन्ति ? शिवः पार्वत्या अधरः स्वभावेनैव रक्त इति
चाटूक्त्या पार्वतीरूपं प्रशंसति ॥ ३४ ॥
अपि प्रसन्नं हरिणेषु ते मनः
करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि प्रचलैर्विलोचनै-
स्त्ववाक्षिसाहश्यमिव प्रयुञ्जते ॥ ३५ ॥
अपीति । करस्थदर्भप्रणयापहारिषु करस्थान्दर्भान्प्रणयेन
स्नेहेनापहरन्तीति ते तथोक्तेषु सापराधेष्विति भावः । ' करस्थ-
दर्भप्रणायापराधिषु ' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु ।
हरिणेषु विषये ते मनः प्रसन्नं अपि । न क्षुभितं किम् । साप-
राधेष्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि ये
हरिणाः प्रचलैः चञ्चलैः विलोचनैः नेत्रैः तवाक्षिसाम्यं प्रयुञ्जते
इव अभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनाभ्यां साम्य-
मुपयान्तीति भावः । ' उत्पलक्षेपचलैः ' इति पाठान्तरे उत्पल-
कम्पचलै । प्राधानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणोत्पल-
चलैरित्यर्थ ॥ ३५ ॥
PROSE ORDER :—करस्थदर्भप्रणयापहारिषु हरिणेषु ते
मनः अपि प्रसन्नम् ? ( हे ) उत्पलाक्षि । ये प्रचलैः विलोचनैः तव
अक्षिसाम्यं प्रयुञ्जते इव ॥ ३५ ॥
( ६२ )
NOTES :—करस्थदर्भप्रणायापहारिषु । करस्थ —( कर +
√स्था+कः) करे तिष्ठतीति करस्थ । अपहारी—( अप+
√हृ+णिनिः) अपहर्तुं शील यस्य सः one who takes away
करस्थान् दर्भान् (कुशान्) प्रणयेन (स्नेहेन) अपहरन्ति
(गृह्णन्ति) इति करस्थदर्भप्रणायापहारिणः तेषु who take the
Kusha grass held in hand through their love (for
you) Some books read अपराधिषु for अपहारिषु There
the meaning is 'who are guilty of seeking the Kusha
grass lying in your hand.' हरिणेषु— towards the deer.
प्रसन्नम् —pleased उत्पलाक्षि—उत्पले (कमले) इव अक्षिणी
(नेत्रे) यस्याः सा उत्पलाक्षी, तस्याः सम्बोधने उत्पलाक्षि,
उत्पल+अक्षि+षच्+ङीप् O lotus-eyed one प्रचलैः—
प्रकर्षेण चलैः (अतिचञ्चलैः) very much unsteady.
अक्षिसादृश्य—सदृशस्य भावः सादृश्यं ( सदृश्+ष्यञ् )
resemblance. प्रयुञ्जते—कुर्वन्ति ; अभिनयन्ति make;
present √युज् 'to unite' is conjugated as युनक्ति or
युङ्क्ते, युञ्जाते, युञ्जते (लट्) युयोज यु युजे (लिट्) योक्ष्यति
or योक्ष्यते (लृट्) अयुजत्, अयौक्षीत् or अयुक्त (लुङ्) etc
when preceded by प्र or उप it means 'to perform; to
do, to represent on the stage' etc and is used in
Atmanepada only Cf. 'प्रोपाभ्यां युजेरयज्ञपात्रेषु' पा०
१ ३ ६४। Some editions read 'उत्पलाक्षेपचलैः' in place
of 'उत्पलाक्षिप्रचलै. In that case the meaning will be
'which are unsteady like lotuses tossed about'
(उत्पलानां आक्षेपः, तद्वत् चलैः)। For the idea Cf. Shloka
15 above. 35
( ६३ )
CHANGE OF VOICE :—करस्थदर्भप्रणायापहारिषु हरिणेषु
ते मनसा अपि प्रसन्नेन ( भूयते ) ? ( हे ) उत्पलाक्षि, यैः प्रचलैः
विलोचनैः तव अत्तिसादृश्यं प्रयुज्यते इव ॥ ३५ ॥
HINDI TRANSLATION :—हाथ में पकड़े हुए कुशों को
प्रेम के कारण ले जाने वाले मृगों की ओर से तुम्हारा मन
प्रसन्न तो है ? जो ( मृग ), हे कमल के समान नेत्र वाली, अपने
चञ्चल नेत्रों से तेरी आंखों की समता करते हैं ॥ ३५ ॥
ENGLISH TRANSLATION —Is thy mind pleased with
the fawns, who take the Kusha grass in your hands
out of love ( for you ), and who, O lotus-eyed one,
present a resemblance to thy eyes by their unsteady
eyes 35
PURPORT IN SANSKRIT :—' कच्चित्त्वयेषु मृगेषु प्रसन्ना
तिष्ठसि, ये हि परिचयाधिक्येन ते हस्तधृतानपि कुशान् भक्षणार्थ-
माददति, ये च, हे कमलनेत्रे, तव नेत्रयोः सादृश्यं स्वनेत्रेष्वल-
भमानाः निजनेत्राणीतस्ततश्चालयन्तस्तव विलोचनयोः समतां
कुर्वन्ति इव ।' वास्तव तु हरिणानां नेत्राणि न पार्वतिनेत्र-
समानि, परमितस्ततश्चालनेन तानि तत्समानि क्रियन्त इवेति
भावः ॥ ३५ ॥
यदुच्यते पार्वति पापवृत्तये
न रूपमित्यव्यभिचारि तद्वचः ।
तथा हि ते शीलमुदारदर्शने
तपस्विनामप्युपदेशतां गतम् ॥ ३६ ॥
यदिति । हे पार्वति रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय
न भवति । इति यदुच्यते । लोकैरिति शेषः । तद्वचः न व्यभिचरति
कु० सं०—८
( ६४ )
न स्खलतीति अव्यभिचारि सत्यम् । ‘ यत्राकृतिस्तत्र गुणाः ’।
‘ न सुरूपा पापसमाचारा. भवन्ति ’ इत्यादयो लोकवादाः न
विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते—तथा हि । हे उदार-
दर्शने आयताक्षि । सुरूपे इत्यर्थः । अथवा उन्नतज्ञाने । विवेक-
वतीत्यर्थः । ते तव शील सद्वृत्तम् ‘ शीलं स्वभावे सद्वृत्ते ’
इत्यमरः । तपस्विनामपि उपदिश्यते अनेनेत्युपदेशः प्रवर्त्तकं प्रमाणं
तत्तां उपदेशतां गतं प्राप्तम् । मुनयोऽपि त्वां वीक्ष्य स्ववृत्ते प्रवर्त्तन्ते
इति भावः ॥ ३६ ॥
PROSE ORDER :—( हे ) पार्वति 'रूपं पापवृत्तये न ( भवति
इति ) यद् उच्यते, तद् वचः अव्यभिचारि ; तथा हि ( हे ) उदार-
दर्शने ! ते शिलं तपस्विनां अपि उपदेशतां गतम् ॥ ३६ ॥
NOTES :—रूपं—सौन्दर्य beauty पापवृत्तये—पापस्य
वृत्तये ( आचरणाय ) पापवृत्तये for a sinful course of life
The expression रूपं पापवृत्तये न means that beauty does
not lead to a sinful course of life For similar idea
Cf ‘ यत्राकृतिस्तत्र गुणाः वसन्ति । ’ ‘ रूपं शीलानुसारि । ’
and ‘ न ह्याकृतिः सुसदृशं विजहाति शीलम् ’ अव्यभिचारि—
न व्यभिचरति इति अव्यभिचारि ( वि + अभि + √ चर् + णिनिः )
सत्यम् not false, unfalling उदारदर्शने—उदारं ( उत्कृष्टं )
दर्शनं ( रूपं ) यस्याः सा, तस्याः सम्बुद्धौ उदारदर्शने ( अति )
सुन्दरि ) O one of noble form Mallinath takes दर्शन in
the sense of ‘ the eye ’, hence he has translated it
by ‘ आयताक्षि ’ । शीलं—सदाचारः ( good ) conduct.
तपस्विनां—( तपस् + विनिः ) for the ascetics. The suffix
विनिः is added by ‘ अस्मायामेधास्रजो विनिः ’ पा० ५.२.१२१ ।
Mark the force of अपि । Parvati's conduct was not
( ६५ )
a guide only for ordinary people but for ascetics also.
उपदेशतां—( उप + √दिश् + घञ् + ता ) उपदिश्यते अनेन इति
उपदेशः, तस्य भावः उपदेशता, तां the state of a precept or
rule 36
CHANGE OF VOICE — ( हे ) पार्वति, रूपेण पापवृत्तये न
( भूयते इति ) यद् ( जनाः ) ब्रुवन्ति तेन वचसा अव्यभिचारिणा
( भूयते ), यथा हि ( हे ) उदारदर्शने, ते शीलेन तपस्विनां अपि
उपदेशता गता ॥ ३६ ॥
HINDI TRANSLATION :—हे पार्वति, यह जो कहा जाता
है कि सुन्दरता पापाचरण का कारण नहीं होती, सत्य है, क्योकि
हे सुन्दरि, तुम्हारा आचरण तपस्वियों को भी शिक्षा देने
वाला है ॥ ३६ ॥
ENGLISH TRANSLATION .—O Parvati, the saying that
beauty does not lead to a sinful course of life is not
false, since, O thou of noble form, thy conduct has be-
come as model even for the ascetics 36
PURPORT IN SANSKRIT :—‘ हे पार्वति ’ ‘ न सौन्दर्य
पापस्य कारणम्, ’ अथवा ‘ न सुरुपाः पापमाचरन्ति ’ इति कथनं
त्वां दृष्ट्वा मे सत्यमेव प्रतीयते, यतो यद्यपि त्वमत्यन्तं रूपवती तथापि
तवाचरणमीदृशं यत्तपस्विभ्योऽपि शिक्षाप्रदमस्ति । तेऽपि तव
चरित्रं दृष्ट्वा स्वानि चरित्राणि शोधयन्ति किमुत साधारण-
जनाः ? ’ ॥ ३६ ॥
विकीर्णसप्तर्षिबलिप्रहासिभि-
स्तथां न गाङ्गैः सलिलैर्दिवश्च्युतैः ।
( ६६ )
यथा त्वदीयैश्चरितैरनाविलै-
र्महीधरः पावित एष सान्वयः ॥ ३७ ॥
विकीर्णेति । एष महीधरः हिमवान् । विकीर्णसप्तर्षिबलिप्रहा-
सिभिः सप्त च ते ऋषयः । 'दिक्संख्ये संज्ञायाम्' इति समासः ।
विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः । पुष्पोपहारैः
प्रहसन्ति तैः तथोक्तैः दिवः अन्तरिक्षात् च्युतैः गाङ्गैः सलिलैः तथा
न पावितः । अनाविलै अकलुषैः त्वदीयै चरितैः यथा सान्वयः
सपुत्रपौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥
PROSE ORDER —एष महीधरः विकीर्णसप्तर्षिबलिप्रहा-
सिभिः दिवः च्युतैः गाङ्गैः सलिलैः तथा न पावितः यथा अनाविलै
त्वदीयै चरितैः सान्वयः ( पावितः ) ॥ ३७ ॥
NOTES —महीधरः—मह्याः ( भूमे ) धरः महीधरः a
mountain. धरः ( धरतीति ) is formed from √धृ ' to
support ' by adding कः by ' इगुपधज्ञाप्रीकिरः कः ' पा०
३ १.१३५ । i. e. the roots having इ, ई, उ, ऊ, ऋ, ॠ, लृ, or
ॡ for their penultimate and ज्ञा, प्री and क take क in
active voice विकीर्णसप्तर्षिबलिप्रहासिभिः । विकीर्णः—( वि
√कॄ+क्त ) पर्यस्त scattered See notes on विशीर्ण in the
Verse 28 above. सप्तर्षय.—सप्त च ते ऋषयश्च सप्तर्षय. the
seven Rishis The compound is Karmadharaya, by
' दिक्संख्ये संज्ञायाम् ' पा० २.१.६१ । meaning that names
of quarters and numerals form a Karmadharaya com-
pound with any declinable word, but only when the
whole compound is an appellation ( संज्ञा ) Here it is
the proper name of a constellation of seven stars (Ursa
( ५७ )
Major ), named after seven sages. Their names are—
1 मरीचि 2 अङ्गिरस् 3 अत्रि 4 पुलस्त्य 5 पुलह 6 क्रतु
and 7 वशिष्ठ । They reside in heaven and are often
described as taking bath and offering flowers to the
gods in the holy waters of the heavenly Ganges. Cf
‘ अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् । प्रवर्त्तया-
मास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् । ’ रघुवंशम्
१३.५१ । बलिः—पुष्पोपहारः an offering ( of flowers ).
‘ करोपहारयोः पुंसि बलिः ’ इत्यमरः । प्रहासिभिः ( प्र + √हस् +
णिनिः ) प्रहसन्तीति i e, shining, resplendent The
flowers of offerings on account of their white colour
are poetically regarded as the smiles of the waters
of the Ganges. Some books read प्रभासिभिः and some
others प्रवाहिभिः in place of प्रहासिभिः । The former will
mean ‘resplendent’ and the latter ‘carrying’ विकीर्ण ..
प्रहासिभिः—विकीर्णैः सप्तर्षीणां बलिभिः प्रहसन्तीति विकीर्ण-
सप्तर्षिबलिप्रहासीनि, तैः which are resplendent ( lit.
laughing ) with the offerings of flowers scattered by
the seven sages. दिवः—स्वर्गात् from the heaven.
Ablative is used in the sense of अपादान ( separation ).
The waters of the holy Ganges are described in
mythological books as falling from the heaven. च्युतैः—
( √च्यु+क्तः ) पतितैः dropped. The two adjectives—
विकीर्णसप्तर्षिबलिप्रहासिभिः and दिवश्च्युतैः are meant to
indicate the holy character of the waters of the
Ganges. This makes the contrast more effective. गाङ्गैः—
( ६८ )
( गङ्गा + अण् ) गङ्गाया इमानि गाङ्गानि, तैः of the Ganges
तथा—तेन प्रकारेण in that way ; so much. पावितः—(√पू
to purify + क्त ) Passive Past Participle. पवित्रीकृतः sanc-
tified अनाविलैः—न आविलैः अनाविलैः not dirty , pure.
Adjective of त्वदीयैः चरितैः It implies that Parvati's
conduct is purer and more sanctifying than the waters
of the Ganges The suggested figure of speech is व्यति-
रेक, in which the standard of comparison is excelled
by the thing compared त्वदीयैः—( युष्मद् + छ् —ईय् ) तव
इमानि त्वदीयानि, तैः by your own The suffix छ् is
added to युष्मद् by ‘वृद्धाच्छः’ पा० ४.२.११४। and युष्म
of युष्मद् is changed to त्व by ‘प्रत्ययोत्तरपदयोश्च’ पा०
७२.९८। चरितैः—acts सान्वयः—अन्वयेन ( कुटुम्बेन ) सह
इति सान्वयः with his family This verse contains a
glowing tribute from Shiva for the righteous life of
Parvati. 37.
CHANGE OF VOICE:—एतं महीधरं विकीर्णसप्तर्षिबलि-
प्रहासीनि दिवः च्युतानि गाङ्गानि सलिलानि तथा न पूतवन्ति,
यथा अनाविलानि त्वदीयानि चरितानि सान्वयं ( पूतवन्ति )॥३७॥
HINDI TRANSLATION:—यह (हिमालय) पहाड़ सप्तर्षियों
के द्वारा दिये हुए पुष्पों के उपहार से चमकते हुए, आकाश से
गिरे हुए गङ्गा के पानी से उतना पवित्र न हुआ था, जितना तुम्हारे
पवित्र आचरण ने इसे सकुदुम्ब पवित्र कर दिया है ॥ ३७ ॥
ENGLISH TRANSLATION —This mountain ( the
Himalaya ) was not so sanctified by the waters of the
Ganges, dropping from heaven and resplendent with
( ६६ )
the offerings of flowers scattered by the seven sages
as he together with his family has been by thy pure,
acts 37
PURPORT IN SANSKRIT :—पार्वत्याश्चरित्रं प्रशंसन्पुनरप्याह
—हिमालयस्य पृष्ठे स्वर्गात् गङ्गाप्रवाहः पतति, स च स्वर्गा-
त्पतनेन सप्तर्षीणां पूजापहारपुष्पाणां संसर्गेण चातिशयेन
पावनः । परमयं हिमालया गङ्गायाः पवित्रजलैर्न तथा पवित्रीकृतो
यथेदानीं तवाकलुषैश्चरित्रैः सकुटुम्बः पवित्रीकृतः । तव चरि-
तानि पवित्रतायां तद्भाने च गङ्गाया जलान्यपि अतिशेरत इति
भावः ॥ ३७ ॥
अनेन धर्मः सविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति भाविनि ।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥
अनेनेति । हे भाविनि प्रशस्ताभिप्राये । अनेन कारणेन धर्मः
सविशेषं सातिशयं अद्य मे । त्रिवर्गसारः त्रयाणां धर्मार्थकामानां
वर्गस्त्रिवर्ग । ‘ त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ’ इत्यमरः ।
तत्र सारः श्रेष्ठः प्रतिभाति । यत् यस्मात् कारणात् मनोनिर्विष-
यार्थकामया मनसो निर्विषयार्थकामौ यस्यास्तया त्वया एकः धर्मः
एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म
एवावलम्बितः । अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत
इत्यर्थः ॥ ३८ ॥
PROSE ORDER :—(हे) भाविनि अनेन अद्य मे धर्मः