कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 102, कुल 268 में से
संदर्भ में पढ़ें( ८३ )
रागद्वेषविनिर्मुत्तया तपस्विन्या पार्वत्या तं प्रत्यादरः प्रदर्शित इति
शङ्कायां कविः कथयति यत् समदर्शिनो जना अपि पुरुषविशेषेष्व-
धिकादरवन्तो भवन्ति ॥ ३१ ॥
विधिप्रयुक्तां परिगृह्य सत्क्रियां
परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा
प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ३२ ॥
विधीति । स ब्रह्मचारी विधिप्रयुक्तां विधिना प्रयुक्तामनुष्ठितां
सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय
नाम । नामेत्यपरमार्थे । अथ उमां ऋजुना एव विलासरहितेनैव
चक्षुषा पश्यन् अनुज्झितक्रमः अन्यकोचितपरिपाटीकः सन् वक्तुं
प्रचक्रमे प्रारभे ॥ ३२ ॥
PROSE ORDER—सः विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं
परिश्रमं विनीय च नाम उमां ऋजुना एव चक्षुषा पश्यन् अनुज्झि-
तक्रमः (सन्) वक्तुं प्रचक्रमे ॥ ३२ ॥
NOTES—विधिप्रयुक्तां--विधिना प्रयुक्ता विधिप्रयुक्ता, ताम्
यथाविधि कृतां done according to proper rites सत्क्रियां
—सत् क्रिया सत्क्रिया, तां worship. Here सत् is used as a
preposition according to the rule ‘आदरानादरयोः
सदसती’ पा० १ ४ ६३ । and the compound is made by
‘कुगति प्रादयः, ’ पा० २ २.१८ । परिगृह्य—(परि+√ग्रह्+ल्यप्)
स्वीकृत्य having accepted. क्षणं—for a little while. विनीय
—(वि+√नी+ल्यप्) अपनीय having removed. नाम—
अपरमार्थे only in appearance It is an indeclinable
used in various senses Here it has been used in the