कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 107, कुल 268 में से
संदर्भ में पढ़ें( ८८ )
कोऽस्ति ? त्वया स्वास्थ्यमनादृत्य तपो न करणीयमिति
भावः ' ॥ ३३ ॥
अपि त्वदावर्जितवारिसंभृतं
प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते
तुलां यदारोहति दन्तवाससा ॥ ३४ ॥
अपीति । त्वदावर्जितवारिसंभृतं त्वयावर्जितेन सिक्तेन वारिणा
संभृतं जनित आसां वीरुधां लतानां प्रवालं पल्लवं अनुबन्धि अपि
अनुस्यूतं किम् । यत् प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो
येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्त-
कपाटलेन ते तव दन्तवाससा अधरेण । ' ओष्ठाधरौ तु रदनच्छदौ
दशनवाससी ' इत्यमरः । तुलां साम्यं आरोहति । गच्छतीत्यर्थः ।
अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि ' तुल्यार्थैरतुलोप-
माभ्याम् ' इति न तृतीयाप्रतिषेधः तत्र सूत्रे सदृशवाचिन एव
ग्रहणादिति ॥ ३४ ॥
PROSE ORDER:—अपि त्वदावर्जितवारिसंभृतं आसां वीरुधां
प्रवालं अनुबन्धि ( अस्ति ) यत् चिरोज्झितालक्तकपाटलेन ते
दन्तवाससा तुलां आरोहति ॥ ३४ ॥
NOTES —त्वदावर्जितवारिसंभृतम् । आवर्जितं—( आ + √
वृज् + क्तः ) सिक्तम् sprinkled. √वृज् ' to avoid, ' here
with आ means ' to sprinkle ' संभृतम्—( सं + √भृञ् +
क्तः ) Nourished, reared. त्वया आवर्जितेन वारिणा संभृतं
reared by water sprinkled by you. त्वत् is formed by
changing युष्म of युष्मत् into त्व by ' प्रत्ययोत्तरपदयोश्च '
पा० ७ २ ९८ । वीरुधाम्—लतानाम् of creepers The word